नामलिङ्गानुशासनं
नाम
अमरकोषः
।
प्रथमकाण्डम्
।
यस्य
ज्ञानदयासिन्धोरगाधस्यानघा
गुणाः
।
सेव्यतामक्षयो
धीराः
स
श्रिये
चामृताय
च
॥१.१.१॥
समाहृत्यान्यतन्त्राणि
संक्षिप्तैः
प्रतिसंस्कृतैः
।
सम्पूर्णमुच्यते
वर्गैर्नामलिङ्गानुशासनम्
॥१.१.२॥
प्रायशो
रूपभेदेन
साहचर्याच्च
कुत्रचित्
।
स्त्रीपुंनपुंसकं
ज्ञेयं
तद्विशेषविधेः
क्वचित्
॥१.१.३॥
भेदाख्यानाय
न
द्वन्द्वो
नैकशेषो
न
संकरः
।
कृतोऽत्र
भिन्नलिङ्गानामनुक्तानां
क्रमादृतेः
॥१.१.४॥
त्रिलिङ्ग्यां
त्रिष्विति
पदं
मिथुने
तु
द्वयोरिति
।
निषिद्धलिङ्गं
शेषार्थं
त्वन्ताथादि
न
पूर्वभाक्
॥१.१.५॥
अथ
स्वर्गवर्गः
।
स्वरव्ययं
स्वर्गनाकत्रिदिवत्रिदशालयाः
।
सुरलोको
द्योदिवौ
द्वे
स्त्रियां
क्लीबे
त्रिविष्टपम्
॥१.१.६॥
अमरा
निर्जरा
देवास्त्रिदशा
विबुधाः
सुराः
।
सुपर्वाणः
सुमनसस्त्रिदिवेशा
दिवौकसः
॥१.१.७॥
आदितेया
दिविषदो
लेखा
अदितिनन्दनाः
।
आदित्या
ऋभवोऽस्वप्ना
अमर्त्या
अमृतान्धसः
॥१.१.८॥
बर्हिर्मुखाः
क्रतुभुजो
गीर्वाणा
दानवारयः
।
वृन्दारका
दैवतानि
पुंसि
वा
देवताः
स्त्रियाम्
॥१.१.९॥
आदित्यविश्ववसवस्तुषिताभास्वरानिलाः
।
महाराजिकसाध्याश्च
रुद्राश्च
गणदेवताः
॥१.१.१०॥
विद्याधराप्सरोयक्षरक्षोगन्धर्वकिन्नराः
।
पिशाचो
गुह्यकः
सिद्धो
भूतोऽमी
देवयोनयः
॥१.१.११॥
असुरा
दैत्यदैतेयदनुजेन्द्रारिदानवाः
।
शुक्रशिष्या
दितिसुताः
पूर्वदेवाः
सुरद्विषः
॥१.१.१२॥
सर्वज्ञः
सुगतो
बुद्धो
धर्मराजस्तथागतः
।
समन्तभद्रो
भगवान्मारजिल्लोकजिज्जिनः
॥१.१.१३॥
षडभिज्ञो
दशबलोऽद्वयवादी
विनायकः
।
मुनीन्द्रः
श्रीघनः
शास्ता
मुनिः
शाक्यमुनिस्तु
यः
॥१.१.१४॥
स
शाक्यसिंहः
सर्वार्थसिद्धः
शौद्धोदनिश्च
सः
।
गौतमश्चार्कबन्धुश्च
मायादेवीसुतश्च
सः
॥१.१.१५॥
ब्रह्मात्मभूः
सुरज्येष्ठः
परमेष्ठी
पितामहः
।
हिरण्यगर्भो
लोकेशः
स्वयम्भूश्चतुराननः
॥१.१.१६॥
धाताब्जयोनिर्द्रुहिणो
विरिञ्चिः
कमलासनः
।
स्रष्टा
प्रजापतिर्वेधा
विधाता
विश्वसृड्विधिः
॥१.१.१७॥
नाभिजन्माण्डजः
पूर्वो
निधनः
कमलोद्भवः
।
सदानन्दो
रजोमूर्तिः
सत्यको
हंसवाहनः
॥१.१.१८॥
विष्णुर्नारायणः
कृष्णो
वैकुण्ठो
विष्टरश्रवाः
।
दामोदरो
हृषीकेशः
केशवो
माधवः
स्वभूः
॥१.१.१९॥
दैत्यारिः
पुण्डरीकाक्षो
गोविन्दो
गरुडध्वजः
।
पीताम्बरोऽच्युतः
शार्ङ्गी
विष्वक्सेनो
जनार्दनः
॥१.१.२०॥
उपेन्द्र
इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः
।
पद्मनाभो
मधुरिपुर्वासुदेवस्त्रिविक्रमः
॥१.१.२१॥
देवकीनन्दनः
शौरिः
श्रीपतिः
पुरुषोत्तमः
।
वनमाली
बलिध्वंसी
कंसारातिरधोक्षजः
॥१.१.२२॥
विश्वम्भरः
कैटभजिद्विधुः
श्रीवत्सलाञ्छनः
।
पुराणपुरुषो
यज्ञपुरुषो
नरकान्तकः
॥१.१.२३॥
जलशायी
विश्वरूपो
मुकुन्दो
मुरमर्दनः
।
वसुदेवोऽस्य
जनकः
स
एवानकदुन्दुभिः
॥१.१.२४॥
बलभद्रः
प्रलम्बघ्नो
बलदेवोऽच्युताग्रजः
।
रेवतीरमणो
रामः
कामपालो
हलायुधः
॥१.१.२५॥
नीलाम्बरो
रौहिणेयस्तालाङ्को
मुसली
हली
।
सङ्कर्षणः
सीरपाणिः
कालिन्दीभेदनो
बलः
॥१.१.२६॥
मदनो
मन्मथो
मारः
प्रद्युम्नो
मीनकेतनः
।
कन्दर्पो
दर्पकोऽनङ्गः
कामः
पञ्चशरः
स्मरः
॥१.१.२७॥
शम्बरारिर्मनसिजः
कुसुमेषुरनन्यजः
।
पुष्पधन्वा
रतिपतिर्मकरध्वज
आत्मभूः
॥१.१.२८॥
अरविन्दमशोकं
च
चूतं
च
नवमल्लिका
।
नीलोत्पलं
च
पञ्चैते
पञ्चबाणस्य
सायकाः
॥१.१.२९॥
उन्मादनस्तापनश्च
शोषणः
स्तम्भनस्तथा
।
संमोहनश्च
कामस्य
पञ्च
बाणाः
प्रकीर्तिताः
॥१.१.३०॥
ब्रह्मसूर्विश्वकेतुः
स्यादनिरुद्ध
उषापतिः
।
लक्ष्मीः
पद्मालया
पद्मा
कमला
श्रीर्हरिप्रिया
॥१.१.३१॥
इन्दिरा
लोकमाता
मा
क्षीरोदतनया
रमा
।
भार्गवी
लोकजननी
क्षीरसागरकन्यका
॥१.१.३२॥
शङ्खो
लक्ष्मीपतेः
पाञ्चजन्यश्चक्रं
सुदर्शनम्
।
कौमोदकी
गदा
खड्गो
नन्दकः
कौस्तुभो
मणिः
॥१.१.३३॥
चापः
शार्ङ्गंमुरारेस्तु
श्रीवत्सो
लाञ्छनं
स्मृतम्
।
अश्वाश्च
शैव्यसुग्रीवमेघपुष्पबलाहकाः
॥१.१.३४॥
सारथिर्दारुको
मन्त्री
ह्युद्धवश्चानुजो
गदः
।
गरुत्मान्गरुडस्तार्क्ष्यो
वैनतेयः
खगेश्वरः
॥१.१.३५॥
नागान्तको
विष्णुरथः
सुपर्णः
पन्नगाशनः
।
शम्भूरीशः
पशुपतिः
शिवः
शूली
महेश्वरः
॥१.१.३६॥
ईश्वरः
शर्व
ईशानः
शङ्करश्चन्द्रशेखरः
।
भूतेशः
खण्डपरशुर्गिरीशो
गिरिशो
मृडः
॥१.१.३७॥
मृत्युञ्जयः
कृत्तिवासाः
पिनाकी
प्रमथाधिपः
।
उग्रः
कपर्दी
श्रीकण्ठः
शितिकण्ठः
कपालभृत्
॥१.१.३८॥
वामदेवो
महादेवो
विरूपाक्षस्त्रिलोचनः
।
कृशानुरेताः
सर्वज्ञो
धूर्जटिर्नीललोहितः
॥१.१.३९॥
हरः
स्मरहरो
भर्गस्त्र्यम्बकस्त्रिपुरान्तकः
।
गङ्गाधरोऽन्धकरिपुः
क्रतुध्वंसी
वृषध्वजः
॥१.१.४०॥
व्योमकेशो
भवो
भीमः
स्थाणू
रुद्र
उमापतिः
।
अहिर्बुध्न्योऽष्टमूर्तिश्च
गजारिश्च
महानटः
॥१.१.४१॥
कपर्दोऽस्य
जटाजूटः
पिनाकोऽजगवं
धनुः
।
प्रमथा:
स्युः
पारिषदा
ब्राह्मी
इत्याद्यास्तु
मातरः
॥१.१.४२॥
ब्राह्मी
माहेश्वरी
चैव
कौमारी
वैष्णवी
तथा
।
वारीही
च
तथेन्द्राणी
चामुण्डा
सप्तमातरः
॥१.१.४३॥
विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा
।
अणिमा
महिमा
चैव
गरिमा
लघिमा
तथा
॥१.१.४४॥
प्राप्तिः
प्राकाम्यमीशित्वं
वशित्वं
चाष्ट
सिद्धयः
।
उमा
कात्यायनी
गौरी
काली
हैमवतीश्वरी
॥१.१.४५॥
शिवा
भवानी
रुद्राणी
शर्वाणी
सर्वमङ्गला
।
अपर्णा
पार्वती
दुर्गा
मृडानी
चण्डिकाम्बिका
॥१.१.४६॥
आर्या
दाक्षायणी
चैव
गिरिजा
मेनकात्मजा
।
विनायको
विघ्नराजद्वैमातुरगणाधिपाः
॥१.१.४७॥
अप्येकदन्तहेरम्बलम्बोदरगजाननाः
।
कार्तिकेयो
महासेनः
शरजन्मा
षडाननः
॥१.१.४८॥
पार्वतीनन्दनः
स्कन्दः
सेनानीरग्निभूर्गुहः
।
बाहुलेयस्तारकजिद्विशाखः
शिखिवाहनः
॥१.१.४९॥
षाण्मातुरः
शक्तिधरः
कुमारः
क्रौञ्चदारणः
।
शृङ्गी
भृङ्गी
रिटिस्तुण्डी
नन्दिको
नन्दिकेश्वरः
॥१.१.५०॥
कर्ममोटी
तु
चामुण्डा
चर्ममुण्डा
तु
चर्चिका
।
इन्द्रो
मरुत्वान्मघवा
बिडौजाः
पाकशासनः
॥१.१.५१॥
वृद्धश्रवाः
सुनासीरः
पुरुहूतः
पुरन्दरः
।
जिष्णुर्लेखर्षभः
शक्रः
शतमन्युर्दिवस्पतिः
॥१.१.५२॥
सुत्रामा
गोत्रभिद्वज्री
वासवो
वृत्रहा
वृषा
।
वास्तोष्पतिः
सुरपतिर्बलारातिः
शचीपतिः
॥१.१.५३॥
जम्भभेदी
हरिहयः
स्वाराण्नमुचिसूदनः
।
संक्रन्दनो
दुश्च्यवनस्तुराषाण्मेघवाहनः
॥१.१.५४॥
आखण्डलः
सहस्राक्ष
ऋभुक्षास्तस्य
तु
प्रिया
।
पुलोमजा
शचीन्द्राणी
नगरी
त्वमरावती
॥१.१.५५॥
हय
उच्चैःश्रवाः
सूतो
मातलिर्नन्दनं
वनम्
।
स्यात्प्रासादो
वैजयन्तो
जयन्तः
पाकशासनिः
॥१.१.५६॥
ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः
।
ह्रादिनी
वज्रमस्त्री
स्यात्कुलिशं
भिदुरं
पविः
॥१.१.५७॥
शतकोटिः
स्वरुः
शम्बो
दम्भोलिरशनिर्द्वयोः
।
व्योमयानं
विमानोऽस्त्री
नारदाद्याः
सुरर्षयः
॥१.१.५८॥
स्यात्सुधर्मा
देवसभा
पीयूषममृतं
सुधा
।
मन्दाकिनी
वियद्गङ्गा
स्वर्णदी
सुरदीर्घिका
॥१.१.५९॥
मेरुः
सुमेरुर्हेमाद्री
रत्नसानुः
सुरालयः
।
पञ्चैते
देवतरवो
मन्दारः
पारिजातकः
॥१.१.६०॥
सन्तानः
कल्पवृक्षश्च
पुंसि
वा
हरिचन्दनम्
।
सनत्कुमारो
वैधात्रः
स्वर्वैद्यावश्विनीसुतौ
॥१.१.६१॥
नासत्यावश्विनौ
दस्रावाश्विनेयौ
च
तावुभौ
।
स्त्रियां
बहुष्वप्सरसः
स्वर्वेश्या
उर्वशीमुखाः
॥१.१.६२॥
घृताची
मेनका
रम्भा
उर्वशी
च
तिलोत्तमा
।
सुकेशीमञ्जुघोषाद्याः
कथ्यम्तेऽप्सरसो
बुधैः
॥१.१.६३॥
हाहा
हूहूश्चैवमाद्या
गन्धर्वास्त्रिदिवौकसाम्
।
अग्निर्वैश्वानरो
वह्निर्वीतिहोत्रो
धनञ्जयः
॥१.१.६४॥
कृपीटयोनिर्ज्वलनो
जातवेदास्तनूनपात्
।
बर्हिः
शुष्मा
कृष्णवर्त्मा
शोचिष्केश
उषर्बुधः
॥१.१.६५॥
आश्रयाशो
बृहद्भानुः
कृशानुः
पावकोऽनलः
।
रोहिताश्वो
वायुसखः
शिखावानाशुशुक्षणिः
॥१.१.६६॥
हिरण्यरेता
हुतभुग्दहनो
हव्यवाहनः
।
सप्तार्चिर्दमुनाः
शुक्रश्चित्रभानुर्विभावसुः
॥१.१.६७॥
शुचिरप्पित्तमौर्वस्तु
वाडवो
वडवानलः
।
वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः
शिखा
स्त्रियाम्
॥१.१.६८॥
त्रिषु
स्फुलिङ्गोऽग्निकणः
सन्तापः
सञ्ज्वरः
समौ
।
उल्का
स्यान्निर्गतज्वाला
भूतिर्भसितभस्मनी
॥१.१.६९॥
क्षारो
रक्षा
च
दावस्तु
दवो
वनहुताशनः
।
धर्मराजः
पितृपतिः
समवर्ती
परेतराट्
॥१.१.७०॥
कृतान्तो
यमुनाभ्राता
शमनो
यमराड्यमः
।
कालो
दण्डधरः
श्राद्धदेवो
वैवस्वतोऽन्तकः
॥१.१.७१॥
राक्षसः
कौणपः
क्रव्यात्क्रव्यादोऽस्रप
आशरः
।
रात्रिञ्चरो
रात्रिचरः
कर्बुरो
निकषात्मजः
॥१.१.७२॥
यातुधानः
पुण्यजनो
नैरृतो
यातुरक्षसी
।
प्रचेता
वरुणः
पाशी
यादसांपतिरप्पतिः
॥१.१.७३॥
श्वसनः
स्पर्शनो
वायुर्मातरिश्वा
सदागतिः
।
पृषदश्वो
गन्धवहो
गन्धवाहानिलाशुगाः
॥१.१.७४॥
समीरमारुतमरुज्जगत्प्राणसमीरणाः
।
नभस्वद्वातपवनपवमानप्रभञ्जनाः
॥१.१.७५॥
प्रकम्पनो
महावातो
झञ्झावातः
सवृष्टिकः
।
प्राणोऽपानः
समानश्चोदानव्यानौ
च
वायवः
॥१.१.७६॥
हृदि
प्राणो
गुदोऽपानः
समानो
नाभिमण्डले
।
उदानः
कण्ठदेशे
स्याद्व्यानः
सर्वशरीरगः
॥१.१.७७॥
अन्नप्रवेशनं
मूत्राद्युत्सर्गोऽन्नविपाचनम्
।
भाषणादि
निमेषादि
तद्व्यापाराः
क्रमादमी
॥१.१.७८॥
शरीरस्था
इमे
रंहस्तरसि
तु
रयः
स्यदः
।
जवोऽथ
शीघ्रं
त्वरितं
लघु
क्षिप्रमरं
द्रुतम्
॥१.१.७९॥
सत्वरं
चपलं
तूर्णमविलम्बितमाशु
च
।
सततानारताश्रान्तसन्तताविरतानिशम्
॥१.१.८०॥
नित्यानवरताजस्रमप्यथातिशयो
भरः
।
अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम्
॥१.१.८१॥
तीव्रैकान्तनितान्तानि
गाढबाढदृढानि
च
।
क्लीबे
शीघ्राद्यसत्त्वे
स्यात्त्रिष्वेषां
सत्त्वगामि
यत्
॥१.१.८२॥
कुबेरस्त्र्यम्बकसखो
यक्षराड्गुह्यकेश्वरः
।
मनुष्यधर्मा
धनदो
राजराजो
धनाधिपः
॥१.१.८३॥
किन्नरेशो
वैश्रवणः
पौलस्त्यो
नरवाहनः
।
यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः
॥१.१.८४॥
अस्योद्यानं
चैत्ररथं
पुत्रस्तु
नलकूबरः
।
कैलासः
स्थानमलका
पूर्विमानं
तु
पुष्पकम्
॥१.१.८५॥
स्यात्किन्नरः
किम्पुरुषस्तुरङ्गवदनो
मयुः
।
निधिर्ना
शेवधिर्भेदाः
पद्मशङ्खादयो
निधेः
॥१.१.८६॥
महापद्मश्च
पद्मश्च
शङ्खो
मकरकच्छपौ
।
मुकुन्दकुन्दनीलाश्च
खर्वश्च
निधयो
नव
॥१.१.८७॥
इति
स्वर्गवर्गः
।