श्रीमद्वाल्मीकियरामायणे
बालकाण्डे
प्रथमः
सर्गः ॥
तपःस्वाध्यायनिरतं
तपस्वी
वाग्विदां
वरम् ।
नारदं
परिपप्रच्छ
वाल्मीकिर्मुनिपुङ्गवम् ॥ १ ॥
को
न्वस्मिन्
साम्प्रतं
लोके
गुणवान्
कश्च
वीर्यवान् ।
धर्मज्ञश्च
कृतज्ञश्च
सत्यवाक्यो
दृढव्रतः ॥ २ ॥
चारित्रेण
च
को
युक्तः
सर्वभूतेषु
को
हितः ।
विद्वान्
कः
कः
समर्थश्च
कश्चैकप्रियदर्शनः ॥ ३ ॥
आत्मवान्
को
जितक्रोधो
द्युतिमान्
कोऽनसूयकः ।
कस्य
बिभ्यति
देवाश्च
जातरोषस्य
संयुगे ॥ ४ ॥
एतदिच्छाम्यहं
श्रोतुं
परं
कौतूहलं
हि
मे ।
महर्षे
त्वं
समर्थोऽसि
ज्ञातुमेवंविधं
नरम् ॥ ५ ॥
श्रुत्वा
चैतत्
त्रिलोकज्ञो
वाल्मीकेर्नारदो
वचः ।
श्रूयतामिति
चामन्त्र्य
प्रहृष्टो
वाक्यमब्रवीत् ॥ ६ ॥
बहवो
दुर्ल्लभाश्चैव
ये
त्वया
कीर्त्तिता
गुणाः ।
मुने
वक्ष्याम्यहं
बुद्ध्वा
तैर्युक्तः
श्रूयतां
नरः ॥ ७ ॥
इक्ष्वाकुवंशप्रभवो
रामो
नाम
जनैः
श्रुतः ।
नियतात्मा
महावीर्यो
द्युतिमान्
धृतिमान्
वशी ॥ ८ ॥
बुद्धिमान्नीतिमान्
वाग्ग्मी
श्रीमान्
शत्रुनिबर्हणः ।
विपुलांसो
महाबाहुः
कम्बुग्रीवो
महाहनुः ॥ ९ ॥
महोरस्को
महेष्वासो
गूढजत्रुर्
अरिन्दमः ।
आजानुबाहुः
सुशिराः
सुललाटः
सुविक्रमः ॥ १० ॥
समः
समविभक्ताङ्गः
स्निग्धवर्णः
प्रतापवान् ।
पीनवक्षा
विशालाक्षो
लक्ष्मीवान्
शुभलक्षणः ॥ ११ ॥
धर्मज्ञः
सत्ययसन्धश्च
प्रजानां
च
हिते
रतः ।
यशस्वी
ज्ञानसम्पन्नः
शुचिर्वश्यः
समाधिमान् ॥ १२ ॥
प्रजापतिसमः
श्रीमान्
धाता
रिपुनिषूदनः ।
रक्षिता
जीवलोकस्य
धर्मस्य
परिरक्षिता ॥ १३ ॥
रक्षिता
स्वस्य
धर्मस्य
स्वजनस्य
च
रक्षिता ।
वेदवेदाङ्गतत्त्वज्ञो
धनुर्वेदे
च
निष्ठितः ॥ १४ ॥
सर्वशास्त्रार्थतत्त्वज्ञः
स्मृतिमान्
प्रतिभानवान् ।
सर्वलोकप्रियः
साधुरदीनात्मा
विचक्षणः ॥ १५ ॥
सर्वदाभिगतः
सद्भिः
समुद्र
इव
सिन्धुभिः ।
आर्यः
सर्वसमश्चैव
सदैकप्रियदर्शनः ॥ १६ ॥
स
च
सर्वगुणोपेतः
कौसल्यानन्दवर्द्धनः ।
समुद्र
इव
गाम्भीर्य्ये
धैर्येण
हिमवानिव ॥ १७ ॥
विष्णुना
सदृशो
वीर्ये
सोमवत्प्रियदर्शनः ।
कालाग्निसदृशः
क्रोधे
क्षमया
पृथिवीसमः ॥ १८ ॥
धनदेन
समस्त्यागे
सत्ये
धर्म
इवापरः ।
तमेवङ्गुणसम्पन्नं
रामं
सत्यपराक्रमम् ॥ १९ ॥
ज्येष्ठं
श्रेष्ठगुणैर्युक्तं
प्रियं
दशरथः
सुतम् ।
यौवराज्येन
संयोक्तुमैच्छत्प्रीत्या
महीपतिः ॥ २० ॥
तस्याभिषेकसम्भारान्
दृष्ट्वा
भार्याऽथ
कैकयी ।
पूर्वं
दत्तवरा
देवी
वरमेनमयाचत ॥ २१ ॥
विवासनं
च
रामस्य
भरतस्याभिषेचनम् ।
स
सत्यवचनाद्राजा
धर्मपाशेन
संयतः ॥ २२ ॥
विवासयामास
सुतं
रामं
दशरथः
प्रियम् ।
स
जगाम
वनं
वीरः
प्रतिज्ञामनुपालयन् ॥ २३ ॥
पितुर्वचननिर्देशात्
कैकेय्याः
प्रियकारणात् ।
तं
व्रजन्तं
प्रिये
भ्राता
लक्ष्मणोऽनुजगाम
ह ॥ २४ ॥
स्नेहाद्विनयसम्पन्नः
सुमित्रानन्दवर्द्धनः ।
भ्रातरं
दयितो
भ्रातुः
सौभ्रात्रमनुदर्शयन् ॥ २५ ॥
रामस्य
दयिता
भार्या
नित्यं
प्राणसमा
हिता ।
जनकस्य
कुले
जाता
देवमायेव
निर्मिता ॥ २६ ॥
सर्वलक्षणसम्पन्ना
नारीणामुत्तमा
वधूः ।
सीताप्यनुगता
रामं
शशिनं
रोहिणी
यथा ॥ २७ ॥
पौरैरनुगतो
दूरं
पित्रा
दशरथेन
च ।
शृङ्गिबेरपुरे
सूतं
गङ्गाकूले
व्यसर्ज्जयत् ॥ २८ ॥
गुहमासाद्य
धर्मात्मा
निषादाधिपतिं
प्रियम् ।
गुहेन
सहितो
रामो
लक्ष्मणेन
च
सीतया ॥ २९ ॥
ते
वनेन
वनं
गत्वा
नदीस्तीर्त्वा
बहूदकाः ।
चित्रकूटमनुप्राप्य
भरद्वाजस्य
शासनात् ॥ ३० ॥
रम्यमावसथं
कृत्वा
रममाणा
वने
त्रयः ।
देवगन्धर्वसङ्काशास्तत्र
ते
न्यवसन्
सुखम् ॥ ३१ ॥
चित्रकूटं
गते
रामे
पुत्रशोकातुरस्तथा ।
राजा
दशरथः
स्वर्गं
जगाम
विलपन्
सुतम् ॥ ३२ ॥
मृते
तु
तस्मिन्भरतो
वसिष्ठप्रमुखैर्द्विजैः ।
नियुज्यमानो
राज्याय
नैच्छद्राज्यं
महाबलः ॥ ३३ ॥
स
जगाम
वनं
वीरो
रामपादप्रसादकः ।
गत्वा
तु
सुमहात्मानं
रामं
सत्यपराक्रमम् ॥ ३४ ॥
अयाचद्भ्रातरं
राममार्यभावपुरस्कृतः ।
रामोऽपि
परमोदारः
सुमुखः
सुमहायशाः ॥ ३५ ॥
न
चैच्छत्पितुरादेशाद्राज्यं
रामो
महाबलः ।
पादुके
चास्य
राज्याय
न्यासं
दत्त्वा
पुनः
पुनः ॥ ३६ ॥
निवर्त्तयामास
ततो
भरतं
भरताग्रजः ।
स
काममनवाप्यैव
रामपादावुपस्पृशन् ॥ ३७ ॥
नन्दिग्रामेऽकरोद्राज्यं
रामागमनकाङ्क्षया ।
गते
तु
भरते
श्रीमान्
सत्यसन्धो
जितेन्द्रियः ॥ ३८ ॥
रामस्तु
पुनरालक्ष्य
नागरस्य
जनस्य
च ।
तत्रागमनमेकाग्रो
दण्डकान्
प्रविवेश
ह ॥ ३९ ॥
प्रविश्य
तु
महारण्यं
रामो
राजीवलोचनः ।
विराधं
राक्षसं
हत्वा
शरभङ्गं
ददर्श
ह ॥ ४० ॥
सुतीक्ष्णं
चाप्यगस्त्यं
च
अगस्त्यभ्रातरं
तथा ।
अगस्त्यवचनाच्चैव
जग्राहैन्द्रं
शरासनम् ॥ ४१ ॥
खड्गं
च
परमप्रीतस्तूणी
चाक्षयसायकौ ।
वसतस्तस्य
रामस्य
वने
वनचरैः
सह ॥ ४२ ॥
ऋषयोऽभ्यागमन्
सर्वे
वधायासुररक्षसाम् ।
स
तेषां
प्रतिशुश्राव
राक्षसानां
तथा
वने ॥ ४३ ॥
प्रतिज्ञातश्च
रामेण
वधः
संयति
रक्षसाम् ।
ऋषीणामग्निकल्पानां
दण्डकारण्यवासिनाम् ॥ ४४ ॥
तेन
तत्रैव
वसता
जनस्थाननिवासिनी ।
विरूपिता
शूर्पणखा
राक्षसी
कामरूपिणी ॥ ४५ ॥
ततः
शूर्पणखावाक्यादुद्युक्तान्
सर्लराक्षसान् ।
खरं
त्रिशिरसं
चैव
दूषणं
चैव
राक्षसम् ॥ ४६ ॥
निजघान
रणे
रामस्तेषां
चैव
पदानुगान् ।
वने
तस्मिन्निवसता
जनस्थाननिवासिनाम् ॥ ४७ ॥
रक्षसां
निहतान्यासन्सहस्राणि
चतुर्दश ।
ततो
ज्ञातिवधं
श्रुत्वा
रावणः
क्रोधमूर्च्छितः ॥ ४८ ॥
सहायं
वरयामास
मारीचं
नाम
राक्षसम् ।
वार्यमाणः
सुबहुशो
मारीचेन
स
रावणः ॥ ४९ ॥
न
विरोधो
बलवता
क्षमो
रावण
तेन
ते ।
अनादृत्य
तु
तद्वाक्यं
रावणः
कालचोदितः ॥ ५० ॥
जगाम
सहमारीचस्तस्याश्रमपदं
तदा ।
तेन
मायाविना
दूरमपवाह्य
नृपात्मजौ ॥ ५१ ॥
जहार
भार्यां
रामस्य
गृध्रं
हत्वा
जटायुषम् ।
गृध्रं
च
निहतं
दृष्ट्वा
हृतां
श्रुत्वा
च
मैथिलीम् ॥ ५२ ॥
राघवः
शोकसन्तप्तो
विललापाकुलेन्द्रियः ।
ततस्तेनैव
शोकेन
गृध्रं
दग्ध्वा
जटायुषम् ॥ ५३ ॥
मार्गमाणो
वने
सीतां
राक्षसं
सन्ददर्श
ह ।
कबन्धं
नाम
रूपेण
विकृतं
घोरदर्शनम् ॥ ५४ ॥
तं
निहत्य
महाबाहुर्ददाह
स्वर्गतश्च
सः ।
स
चास्य
कथयामास
शबरीं
धर्मचारिणीम् ॥ ५५ ॥
श्रमणीं
धर्मनिपुणामभिगच्छेति
राघवम् ।
सोभ्यगच्छन्महातेजाः
शबरीं
शत्रुसूदनः ॥ ५६ ॥
शबर्या
पूजितः
सम्यग्रामो
दशरथात्मजः ।
पम्पातीरे
हनुमता
सङ्गतो
वानरेण
ह ॥ ५७ ॥
हनुमद्वचनाच्चैव
सुग्रीवेण
समागतः ।
सुग्रीवाय
च
तत्सर्वं
शंसद्रामो
महाबलः ॥ ५८ ॥
आदितस्तद्यथावृत्तं
सीतायाश्च
विशेषतः ।
सुग्रीवश्चापि
तत्सर्वं
श्रुत्वा
रामस्य
वानरः ॥ ५९ ॥
चकार
सख्यं
रामेण
प्रीतश्चैवाग्निसाक्षिकम् ।
ततो
वानरराजेन
वैरानुकथनं
प्रति ॥ ६० ॥
रामायावेदितं
सर्वं
प्रणयाद्दुःखितेन
च ।
प्रतिज्ञातं
च
रामेण
तदा
वालिवधं
प्रति ॥ ६१ ॥
वालिनश्च
बलं
तत्र
कथयामास
वानरः ।
प्रतिज्ञातं
च
रामेण
तदा
वालिवधं
प्रति ॥ ६२ ॥
सुग्रीवः
शङ्कितश्चासीन्नित्यं
वीर्येण
राघवे ।
राघवप्रत्ययार्थं
तु
दुन्दुभेः
कायमुत्तमम् ॥ ६३ ॥
दर्शयामास
सुग्रीवो
महापर्वतसन्निभम् ।
उत्स्मयित्वा
महाबाहुः
प्रेक्ष्य
चास्थि
महाबलः ॥ ६४ ॥
पादाङ्गुष्ठेन
चिक्षेप
सम्पूर्णं
दशयोजनम् ।
बिभेद
च
पुनस्सालान्
सप्तैकेन
महेषुणा ॥ ६५ ॥
गिरिं
रसातलं
चैवं
जनयन्
प्रत्ययं
तदा ।
ततः
प्रीतमनास्तेन
विश्वस्तः
स
महाकपिः ॥ ६६ ॥
किष्किन्धां
रामसहितो
जगाम
च
गुहां
तदा ।
ततोऽगर्जद्धरिवरः
सुग्रीवो
हेमपिङ्गलः ॥ ६७ ॥
तेन
नादेन
महता
निर्जगाम
हरीश्वरः ।
अनुमान्य
तदा
तारां
सुग्रीवेण
समागतः ॥ ६८ ॥
निजघान
च
तत्रैनं
शरेणैकेन
राघवः ।
ततः
सुग्रीववचनाद्धत्वा
वालिनमाहवे ॥ ६९ ॥
सुग्रीवमेव
तद्राज्ये
राघवः
प्रत्यपादयत् ।
स
च
सर्वान्
समानीय
वानरान्
वानरर्षभः ॥ ७० ॥
दिशः
प्रस्थापयामास
दिदृक्षुर्जनकात्मजाम् ।
ततो
गृध्रस्य
वचनात्सम्पातेर्हनुमान्
बली ॥ ७१ ॥
शतयोजनविस्तीर्णं
पुप्लुवे
लवणार्णवम् ।
तत्र
लङ्कां
समासाद्य
पुरीं
रावणपालिताम् ॥ ७२ ॥
ददर्श
सीतां
ध्यायन्तीमशोकवनिकां
गताम् ।
निवेदयित्वाभिज्ञानं
प्रवृत्तिं
च
निवेद्य
च ॥ ७३ ॥
समाश्वास्य
च
वैदेहीं
मर्दयामास
तोरणम् ।
पञ्च
सेनाग्रगान्
हत्वा
सप्त
मन्त्रिसुतानपि ॥ ७४ ॥
शूरमक्षं
च
निष्पिष्य
ग्रहणं
समुपागमत् ।
अस्त्रेणोन्मुक्तमात्मानं
ज्ञात्वा
पैतामहाद्वरात् ॥ ७५ ॥
मर्षयन्
राक्षसान्
वीरो
यन्त्रिणस्तान्
यदृच्छया ।
ततो
दग्ध्वा
पुरीं
लङ्कामृते
सीतां
च
मैथिलीम् ॥ ७६ ॥
रामाय
प्रियमाख्यातुं
पुनरायान्महाकपिः ।
सोऽभिगम्य
महात्मानं
कृत्वा
रामं
प्रदक्षिणम् ॥ ७७ ॥
न्यवेदयदमेयात्मा
दृष्टा
सीतेति
तत्त्वतः ।
ततः
सुग्रीवसहितो
गत्वा
तीरं
महोदधेः ॥ ७८ ॥
समुद्रं
क्षोभयामास
शरैरादित्यसन्निभैः ।
दर्शयामास
चात्मानं
समुद्रः
सरितां
पतिः ॥ ७९ ॥
समुद्रवचनाच्चैव
नलं
सेतुमकारयत् ।
तेन
गत्वा
पुरीं
लङ्कां
हत्वा
रावणमाहवे ॥ ८० ॥
रामः
सीतामनुप्राप्य
परां
व्रीडामुपागमत् ।
तामुवाच
ततो
रामः
परुषं
जनसंसदि ॥ ८१ ॥
अमृष्यमाणा
सा
सीता
विवेश
ज्वलनं
सती ।
ततोऽग्निवचनात्सीतां
ज्ञात्वा
विगतकल्मषाम् ॥ ८२ ॥
कर्मणा
तेन
महता
त्रैलोक्यं
सचराचरम् ।
सदेवर्षिगणं
तुष्टं
राघवस्य
महात्मनः ॥ ८३ ॥
अभिषिच्य
च
लङ्कायां
राक्षसेन्द्रं
विभीषणम् ।
कृतकृत्यस्तदा
रामो
विज्वरः
प्रमुमोद
ह ॥ ८४ ॥
देवताभ्यो
वरं
प्राप्य
समुत्थाप्य
च
वानरान् ।
अयोध्यां
प्रस्थितो
रामः
पुष्पकेण
सुहृद्वृतः ॥ ८५ ॥
भरद्वाजाश्रमं
गत्वा
रामः
सत्यपराक्रमः ।
भरतस्यान्तिकं
रामो
हनूमन्तं
व्यसर्जयत् ॥ ८६ ॥
पुनराख्यायिकां
जल्पन्
सुग्रीवसहितस्तदा ।
पुष्पकं
तत्समारुह्य
नन्दिग्रामं
ययौ
तदा ॥ ८७ ॥
नन्दिग्रामे
जटां
हित्वा
भ्रातृभिस्सहितोऽनघः ।
रामः
सीतामनुप्राप्य
राज्यं
पुनरवाप्तवान् ॥ ८८ ॥
प्रहृष्टमुदितो
लोकस्तुष्टः
पुष्टः
सुधार्मिकः ।
निरामयो
ह्यरोगश्च
दुर्भिक्षभयवर्जितः ॥ ८९ ॥
न
पुत्रमरणं
किञ्चिद्
द्रक्ष्यन्ति
पुरुषाः
क्वचित् ।
नार्यश्चाविधवा
नित्यं
भविष्यन्ति
पतिव्रताः ॥ ९० ॥
न
चाग्निजं
भयं
किञ्चिन्नाप्सु
मज्जन्ति
जन्तवः ।
न
वातजं
भयं
किञ्चिन्नापि
ज्वरकृतं
तथा ॥ ९१ ॥
न
चापि
क्षुद्भयं
तत्र
न
तस्करभयं
तथा ।
नगराणि
च
राष्ट्राणि
धनधान्ययुतानि
च ॥ ९२ ॥
नित्यं
प्रमुदिताः
सर्वे
यथा
कृतयुगे
तथा ।
अश्वमेधशतैरिष्ट्वा
तथा
बहुसुवर्णकैः ॥ ९३ ॥
गवां
कोट्ययुतं
दत्त्वा
विद्वद्भ्यो
विधिपूर्वकम् ।
राजवंशाञ्छतगुणान्
स्थापयिष्यति
राघवः ॥ ९४ ॥
चातुर्वर्ण्यं
च
लोकेऽस्मिन्
स्वेस्वे
धर्मे
नियोक्ष्यति ।
दशवर्षसहस्राणि
दशवर्षशतानि
च ॥ ९५ ॥
रामो
राज्यमुपासित्वा
ब्रह्मलोकं
गमिष्यति ।
इदं
पवित्रं
पापघ्नं
पुण्यं
वेदैश्च
सम्मितम् ॥ ९६ ॥
यः
पठेद्रामचरितं
सर्वपापैः
प्रमुच्यते ।
एतदाख्यानमायुष्यं
पठन्
रामायणं
नरः ॥ ९७ ॥
सपुत्रपौत्रः
सगणः
प्रेत्य
स्वर्गे
महीयते ।
पठन्
द्विजो
वागृषभत्वमीयात्स्यात्
क्षत्रियो
भूमिपतित्वमीयात् ॥ ९८ ॥
वणिग्जनः
पण्यफलत्वमीयाज्जनश्च
शूद्रोपि
महत्त्वमीयात् ॥ ९९ ॥