अथ
वारिवर्गः
।
समुद्रोऽब्धिरकूपारः
पारावारः
सरित्पतिः
।
उदन्वानुदधिः
सिन्धुः
सरस्वान्सागरोऽर्णवः
॥१.१०.१॥
रत्नाकरो
जलनिधिर्यादःपतिरपाम्पतिः
।
तस्य
प्रभेदाः
क्षीरोदो
लवणोदस्तथापरे
॥१.१०.२॥
आपः
स्त्री
भूम्नि
वार्वारि
सलिलं
कमलं
जलम्
।
पयः
कीलालममृतं
जीवनं
भुवनं
वनम्
॥१.१०.३॥
कबन्धमुदकं
पाथः
पुष्करं
सर्वतोमुखम्
।
अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम्
॥१.१०.४॥
मेघपुष्पं
घनरसस्त्रिषु
द्वे
आप्यमम्मयम्
।
भङ्गस्तरङ्ग
ऊर्मिर्वा
स्त्रियां
वीचिरथोर्मिषु
॥१.१०.५॥
महत्सूल्लोलकल्लोलौ
स्यादावर्तोऽम्भसां
भ्रमः
।
पृषन्ति
बिन्दुपृषताः
पुमांसो
विप्रुषः
स्त्रियाम्
॥१.१०.६॥
चक्राणि
पुटभेदाः
स्युर्भ्रमाश्च
जलनिर्गमाः
।
कूलं
रोधश्च
तीरं
च
प्रतीरं
च
तटं
त्रिषु
॥१.१०.७॥
पारावारे
परार्वाची
तीरे
पात्रं
तदन्तरम्
।
द्वीपोऽस्त्रियामन्तरीपं
यदन्तर्वारिणस्तटम्
॥१.१०.८॥
तोयोत्थितं
तत्पुलिनं
सैकतं
सिकतामयम्
।
निषद्वरस्तु
जम्बालः
पङ्कोऽस्त्री
शादकर्दमौ
॥१.१०.९॥
जलोच्छ्वासाः
परीवाहाः
कूपकास्तु
विदारकाः
।
नाव्यं
त्रिलिङ्गं
नौतार्ये
स्त्रियां
नौस्तरणिस्तरिः
॥१.१०.१०॥
उडुपं
तु
प्लवः
कोलः
स्रोतोऽम्बुसरणं
स्वतः
।
आतरस्तरपण्यं
स्याद्द्रोणी
काष्ठाम्बुवाहिनी
॥१.१०.११॥
सांयात्रिकः
पोतवणिक्कर्णधारस्तु
नाविकः
।
नियामकाः
पोतवाहाः
कूपको
गुणवृक्षकः
॥१.१०.१२॥
नौकादण्डः
क्षेपणी
स्यादरित्रं
केनिपातकः
।
अभ्रिः
स्त्री
काष्ठकुद्दालः
सेकपात्रं
तु
सेचनम्
॥१.१०.१३॥
क्लीबेऽर्धनावं
नावोऽर्धेऽतीतनौकेऽतिनु
त्रिषु
।
त्रिष्वागाधात्प्रसन्नोऽच्छः
कलुषोऽनच्छ
आविलः
॥१.१०.१४॥
निम्नं
गभीरं
गम्भीरमुत्तानं
तद्विपर्यये
।
अगाधमतलस्पर्शे
कैवर्ते
दाशधीवरौ
॥१.१०.१५॥
आनायः
पुंसि
जालं
स्याच्छणसूत्रं
पवित्रकम्
।
मत्स्याधानी
कुवेणी
स्याद्बडिशं
मत्स्यवेधनम्
॥१.१०.१६॥
पृथुरोमा
झषो
मत्स्यो
मीनो
वैसारिणोऽण्डजः
।
विसारः
शकुली
चाथ
गडकः
शकुलार्भकः
॥१.१०.१७॥
सहस्रदंष्ट्रः
पाठीन
उलूपी
शिशुकः
समौ
।
नलमीनश्चिलिचिमः
प्रोष्ठी
तु
शफरीद्वयोः
॥१.१०.१८॥
क्षुद्राण्डमत्स्यसङ्घातः
पोताधानमथो
झषाः
।
रोहितो
मद्गुरः
शालो
राजीवः
शकुलस्तिमिः
॥१.१०.१९॥
तिमिङ्गलादयश्चाथ
यादांसि
जलजन्तवः
।
तद्भेदाः
शिशुमारोद्रशङ्कवो
मकरादयः
॥१.१०.२०॥
स्यात्कुलीरः
कर्कटकः
कूर्मे
कमठकच्छपौ
।
ग्राहोऽवहारो
नक्रस्तु
कुम्भीरोऽथ
महीलता
॥१.१०.२१॥
गण्डूपदः
किञ्चुलको
निहाका
गोधिका
समे
।
रक्तपा
तु
जलौकायां
स्त्रियां
भूम्नि
जलौकसः
॥१.१०.२२॥
मुक्तास्फोटः
स्त्रियां
शुक्तिः
शङ्खः
स्यात्कम्बुरस्त्रियौ
।
क्षुद्रशङ्खाः
शङ्खनखाः
शम्बूका
जलशुक्तयः
॥१.१०.२३॥
भेके
मण्डूकवर्षाभूशालूरप्लवदर्दुराः
।
शिली
गण्डूपदी
भेकी
वर्षाभ्वी
कमठी
डुलिः
॥१.१०.२४॥
मद्गुरस्य
प्रिया
शृङ्गी
दुर्नामा
दीर्घकोशिका
।
जलाशयो
जलाधारस्तत्रागाधजलो
ह्रदः
॥१.१०.२५॥
आहावस्तु
निपानं
स्यादुपकूपजलाशये
।
पुंस्येवान्धुः
प्रहिः
कूप
उदपानं
तु
पुंसि
वा
॥१.१०.२६॥
नेमिस्त्रिकास्य
वीनाहो
मुखबन्धनमस्य
यत्
।
पुष्करिण्यां
तु
खातं
स्यादखातं
देवखातकम्
॥१.१०.२७॥
पद्माकरस्तडागोऽस्त्री
कासारः
सरसी
सरः
।
वेशन्तः
पल्वलं
चाल्पसरो
वापी
तु
दीर्घिका
॥१.१०.२८॥
खेयं
तु
परिखाधारस्त्वम्भसां
यत्र
धारणम्
।
स्यादालवालमावालमावापोऽथ
नदी
सरित्
॥१.१०.२९॥
तरङ्गिणी
शैवलिनी
तटिनी
ह्रादिनी
धुनी
।
स्रोतस्वती
द्वीपवती
स्रवन्ती
निम्नगापगा
॥१.१०.३०॥
कूलङ्कषा
निर्झरिणी
रोधोवक्रा
सरस्वती
।
गङ्गा
विष्णुपदी
जह्नुतनया
सुरनिम्नगा
॥१.१०.३१॥
भागीरथी
त्रिपथगा
त्रिस्रोता
भीष्मसूरपि
।
कालिन्दी
सूर्यतनया
यमुना
शमनस्वसा
॥१.१०.३२॥
रेवा
तु
नर्मदा
सोमोद्भवा
मेकलकन्यका
।
करतोया
सदानीरा
बाहुदा
सैतवाहिनी
॥१.१०.३३॥
शतद्रुस्तु
शुतुद्रिः
स्याद्विपाशा
तु
विपाट्स्त्रियाम्
।
शोणो
हिरण्यवाहः
स्यात्कुल्याल्पा
कृत्रिमा
सरित्
॥१.१०.३४॥
शरावती
वेत्रवती
चन्द्रभागा
सरस्वती
।
कावेरी
सरितोऽन्याश्च
सम्भेदः
सिन्धुसङ्गमः
॥१.१०.३५॥
द्वयोः
प्रणाली
पयसः
पदव्यां
त्रिषु
तूत्तरौ
।
देविकायां
सरय्वां
च
भवे
दाविकसारवौ
॥१.१०.३६॥
सौगन्धिकं
तु
कल्हारं
हल्लकं
रक्तसंध्यकम्
।
स्यादुत्पलं
कुवलयमथ
नीलाम्बुजन्म
च
॥१.१०.३७॥
इन्दीवरं
च
नीलेऽस्मिन्सिते
कुमुदकैरवे
।
शालूकमेषां
कन्दः
स्याद्वारिपर्णी
तु
कुम्भिका
॥१.१०.३८॥
जलनीली
तु
शेवालं
शैवलोऽथ
कुमुद्वती
।
कुमुदिन्यां
नलिन्यां
तु
बिसिनीपद्मिनीमुखाः
॥१.१०.३९॥
वा
पुंसि
पद्मं
नलिनमरविन्दं
महोत्पलम्
।
सहस्रपत्रं
कमलं
शतपत्रं
कुशेशयम्
॥१.१०.४०॥
पङ्केरुहं
तामरसं
सारसं
सरसीरुहम्
।
बिसप्रसूनराजीवपुष्कराम्भोरुहाणि
च
॥१.१०.४१॥
पुण्डरीकं
सिताम्भोजमथ
रक्तसरोरुहे
।
रक्तोत्पलं
कोकनदं
नाला
नालमथास्त्रियाम्
॥१.१०.४२॥
मृणालं
बिसमब्जादिकदम्बे
षण्डमस्त्रियाम्
।
करहाटः
शिफाकन्दः
किञ्जल्कः
केसरोऽस्त्रियाम्
॥१.१०.४३॥
संवर्तिका
नवदलं
बीजकोशो
वराटकः
।
इति
वारिवर्गः
।
उक्तं
स्वर्व्योमदिक्कालधीशब्दादि
सनाट्यकम्
।
पातालभोगि
नरकं
वारि
चैषां
च
सङ्गतम्
॥१.१०.४५॥
इत्यमरसिंहकृतौ
नामलिङ्गानुशासने
।
स्वरादिकाण्डः
प्रथमः
साङ्ग
एव
समर्थितः
॥१.१०.४६॥