अथ
दिग्वर्गः
।
दिशस्तु
ककुभः
काष्ठा
आशाश्च
हरितश्च
ताः
।
प्राच्यवाचीप्रतीच्यस्ताः
पूर्वदक्षिणपश्चिमाः
॥१.३.१॥
उत्तरा
दिगुदीची
स्याद्दिश्यं
तु
त्रिषु
दिग्भवे
।
अवाग्भवमवाचीनमुदीचीनमुदग्भवम्
॥१.३.२॥
प्रत्यग्भवं
प्रतीचीनं
प्राचीनं
प्राग्भवं
त्रिषु
।
इन्द्रो
वह्निः
पितृपतिर्नैरृतो
वरुणो
मरुत्
॥१.३.३॥
कुबेरः
ईशः
पतयः
पूर्वादीनां
दिशां
क्रमात्
।
रविः
शुक्रो
महीसूनुः
स्वर्भानुर्भानुजो
विधुः
॥१.३.४॥
बुधो
बृहस्पतिश्चेति
दिशां
चैव
तथा
ग्रहाः
।
ऐरावतः
पुण्डरीको
वामनः
कुमुदोऽञ्जनः
॥१.३.५॥
पुष्पदन्तः
सार्वभौमः
सुप्रतीकश्च
दिग्गजाः
।
करिण्योऽभ्रमुकपिलापिङ्गलानुपमाः
क्रमात्
॥१.३.६॥
ताम्रकर्णी
शुभ्रदन्ती
चाङ्गना
चाञ्जनावती
।
क्लीबाव्ययं
त्वपदिशं
दिशोर्मध्ये
विदिक्स्त्रियाम्
॥१.३.७॥
अभ्यन्तरं
त्वन्तरालं
चक्रवालं
तु
मण्डलम्
।
अभ्र
मेघो
वारिवाहः
स्तनयित्नुर्बलाहकः
॥१.३.८॥
धाराधरो
जलधरस्तडित्वान्वारिदोऽम्बुभृत्
।
घनजीमूतमुदिरजलमुग्धूमयोनयः
॥१.३.९॥
कादम्बिनी
मेघमाला
त्रिषु
मेघभवेऽभ्रियम्
।
स्तनितं
गर्जितं
मेघनिर्घोषे
रसितादि
च
॥१.३.१०॥
शम्पाशतह्रदाह्रादिन्यैरावत्यः
क्षणप्रभा
।
तडित्सौदामिनी
विद्युच्चञ्चला
चपला
अपि
॥१.३.११॥
स्फूर्जथुर्वज्रनिर्घोषो
मेघज्योतिरिरम्मदः
।
इन्द्रायुधं
शक्रधनुस्तदेव
ऋजुरोहितम्
॥१.३.१२॥
वृष्टिर्वर्षं
तद्विघातेऽवग्राहावग्रहौ
समौ
।
धारासम्पात
आसारः
शीकरोऽम्बुकणाः
स्मृताः
॥१.३.१३॥
वर्षोपलस्तु
करका
मेघच्छन्नेऽह्नि
दुर्दिनम्
।
अन्तर्धा
व्यवधा
पुंसि
त्वन्तर्धिरपवारणम्
॥१.३.१४॥
अपिधानतिरोधानपिधानाच्छादनानि
च
।
हिमांशुश्चन्द्रमाश्चन्द्र
इन्दुः
कुमुदबान्धवः
॥१.३.१५॥
विधुः
सुधांशुः
शुभ्रांशुरोषधीशो
निशापतिः
।
अब्जो
जैवातृकः
सोमो
ग्लौर्मृगाङ्कः
कलानिधिः
॥१.३.१६॥
द्विजराजः
शशधरो
नक्षत्रेशः
क्षपाकरः
।
कला
तु
षोडशो
भागो
बिम्बोऽस्त्री
मण्डलं
त्रिषु
॥१.३.१७॥
भित्तं
शकलखण्डे
वा
पुंस्यर्धोऽर्धं
समेंऽशके
।
चन्द्रिका
कौमुदी
ज्योत्स्ना
प्रसादस्तु
प्रसन्नता
॥१.३.१८॥
कलङ्काङ्कौ
लाञ्छनं
च
चिह्नं
लक्ष्म
च
लक्षणम्
।
सुषमा
परमा
शोभा
शोभा
कान्तिर्द्युतिश्छविः
॥१.३.१९॥
अवश्यायस्तु
नीहारस्तुषारस्तुहिनं
हिमम्
।
प्रालेयं
मिहिका
चाथ
हिमानी
हिमसंहतिः
॥१.३.२०॥
शीतं
गुणे
तद्वदर्थाः
सुषीमः
शिशिरो
जडः
।
तुषारः
शीतलः
शीतो
हिमः
सप्तान्यलिङ्गकाः
॥१.३.२१॥
ध्रुव
औत्तानपादिः
स्यादगस्त्यः
कुम्भसम्भवः
।
मैत्रावरुणिरस्यैव
लोपामुद्रा
सधर्मिणी
॥१.३.२२॥
नक्षत्रमृक्षं
भं
तारा
तारकाप्युडु
वा
स्त्रियाम्
।
दाक्षायिण्योऽश्विनीत्यादि
तारा
अश्वयुगश्विनी
॥१.३.२३॥
राधा
विशाखा
पुष्ये
तु
सिध्यतिष्यौ
श्रविष्ठया
।
समा
धनिष्ठाः
स्युः
प्रोष्ठपदा
भाद्रपदा
स्त्रियः
॥१.३.२४॥
मृगशीर्षं
मृगशिरस्तस्मिन्नेवाग्रहायणी
।
इल्वलास्तच्छिरोदेशे
तारका
निवसन्ति
याः
॥१.३.२५॥
बृहस्पतिः
सुराचार्यो
गीष्पतिर्धिषणो
गुरुः
।
जीव
आङ्गिरसो
वाचस्पतिश्चित्रशिखण्डिजः
॥१.३.२६॥
शुक्रो
दैत्यगुरुः
काव्य
उशना
भार्गवः
कविः
।
अङ्गारकः
कुजो
भौमो
लोहिताङ्गो
महीसुतः
॥१.३.२७॥
रौहिणेयो
बुधः
सौम्यः
समौ
सौरिशनैश्चरौ
।
तमस्तु
राहुः
स्वर्भानुः
सैंहिकेयो
विधुन्तुदः
॥१.३.२८॥
सप्तर्षयो
मरीच्यत्रिमुखाश्चित्रशिखण्डिनः
।
राशीनामुदयो
लग्नं
ते
तु
मेषवृषादयः
॥१.३.२९॥
सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः
।
भास्कराहस्करब्रध्नः
प्रभाकरविभाकराः
॥१.३.३०॥
भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः
।
विकर्तनार्कमार्तण्डमिहिरारुणपूषणः
॥१.३.३१॥
द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः
।
विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः
॥१.३.३२॥
भानुर्हंसः
सहस्रांशुस्तपनः
सविता
रविः
।
पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा
॥१.३.३३॥
कर्मसाक्षी
जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः
।
प्रद्योतनो
दिनमणिः
खद्योतो
लोकबान्धवः
॥१.३.३४॥
इनो
भगो
धामनिधिश्चांशुमाल्यब्जिनीपतिः
।
माठरः
पिङ्गलो
दण्डश्चण्डांशोः
पारिपार्श्वकाः
॥१.३.३५॥
सूरसूतो
अरुणोऽनूरुः
काश्यपिर्गरुडाग्रजः
।
परिवेषस्तु
परिधिरुपसूर्यकमण्डले
॥१.३.३६॥
किरणोऽस्रमयूखांशुगभस्तिघृणिरश्मयः
।
भानुः
करो
मरीचिः
स्त्रीपुंसयोर्दीधितिः
स्त्रियाम्
॥१.३.३७॥
स्युः
प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः
।
रोचिः
शोचिरुभे
क्लीबे
प्रकाशो
द्योत
आतपः
॥१.३.३८॥
कोष्णं
कवोष्णं
मन्दोष्णं
कदुष्णं
त्रिषु
तद्वति
।
तिग्मं
तीक्ष्णं
खरं
तद्वन्मृगतृष्णा
मरीचिका
॥१.३.३९॥
इति
दिग्वर्गः
।