अथ
नाट्यवर्गः
।
निषादर्षभगान्धारषड्जमध्यमधैवताः
।
पञ्चमश्चेत्यमी
सप्त
तन्त्रीकण्ठोत्थिताः
स्वराः
॥१.७.१॥
काकली
तु
कले
सूक्ष्मे
ध्वनौ
तु
मधुरास्फुटे
।
कलो
मन्द्रस्तु
गम्भीरे
तारोऽत्युच्चैस्त्रयस्त्रिषु
॥१.७.२॥
नृणामुरसि
मध्यस्थो
द्वाविंशतिविधो
ध्वनिः
।
स
मन्द्रः
कण्ठमध्यस्थस्तारः
शिरसि
गीयते
॥१.७.३॥
समन्वितलयस्त्वेकतालो
वीणा
तु
वल्लकी
।
विपञ्ची
सा
तु
तन्त्रीभिः
सप्तभिः
परिवादिनी
॥१.७.४॥
ततं
वीणादिकं
वाद्यमानद्धं
मुरजादिकम्
।
वंशादिकं
तु
सुषिरं
कांस्यतालादिकं
घनम्
॥१.७.५॥
चतुर्विधमिदं
वाद्यं
वादित्रातोद्यनामकम्
।
मृदङ्गा
मुरजा
भेदास्त्वङ्क्यालिङ्ग्योर्ध्वकास्त्रयः
॥१.७.६॥
स्याद्यशः
पटहो
ढक्का
भेरी
स्त्री
दुन्दुभिः
पुमान्
।
आनकः
पटहोऽस्त्री
स्यात्कोणो
वीणादि
वादनम्
॥१.७.७॥
वीणादण्डः
प्रवालः
स्यात्ककुभस्तु
प्रसेवकः
।
कोलम्बकस्तु
कायोऽस्या
उपनाहो
निबन्धनम्
॥१.७.८॥
वाद्यप्रभेदा
डमरुमड्डुडिण्डिमझर्झराः
।
मर्दलः
पणवोऽन्ये
च
नर्तकीलासिके
समे
॥१.७.९॥
विलम्बितं
द्रुतं
मध्यं
तत्त्वमोघो
घनं
क्रमात्
।
तालः
कालक्रियामानं
लयः
साम्यमथास्त्रियाम्
॥१.७.१०॥
ताण्डवं
नटनं
नाट्यं
लास्यं
नृत्यं
च
नर्तने
।
तौर्यत्रिकं
नृत्यगीतवाद्यं
नाट्यमिदं
त्रयम्
॥१.७.११॥
भ्रकुंसश्च
भ्रुकुंसश्च
भ्रूकुंसश्चेति
नर्तकः
।
स्त्रीवेषधारी
पुरुषो
नाट्योक्तौ
गणिकाज्जुका
॥१.७.१२॥
भगिनीपतिरावुत्तो
भावो
विद्वानथावुकः
।
जनको
युवराजस्तु
कुमारो
भर्तृदारकः
॥१.७.१३॥
राजा
भट्टारको
देवस्तत्सुता
भर्तृदारिका
।
देवी
कृताभिषेकायामितरासु
तु
भट्टिनी
॥१.७.१४॥
अब्रह्मण्यमवध्योक्तौ
राजश्यालस्तु
राष्ट्रियः
।
अम्बा
माताथ
बाला
स्याद्वासूरार्यस्तु
मारिषः
॥१.७.१५॥
अत्तिका
भगिनी
ज्येष्ठा
निष्ठानिर्वहणे
समे
।
हण्डे
हञ्जे
हलाह्वाने
नीचां
चेटीं
सखीं
प्रति
॥१.७.१६॥
अङ्गहारोऽङ्गविक्षेपो
व्यञ्जकाभिनयौ
समौ
।
निर्वृत्ते
त्वङ्गसत्त्वाभ्यां
द्वे
त्रिष्वाङ्गिकसात्त्विके
॥१.७.१७॥
शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः
।
बीभत्सरौद्रौ
च
रसाः
शृङ्गारः
शुचिरुज्ज्वलः
॥१.७.१८॥
उत्साहवर्धनो
वीरः
कारुण्यं
करुणा
घृणा
।
कृपा
दयानुकम्पा
स्यादनुक्रोशोऽप्यथो
हसः
॥१.७.१९॥
हासो
हास्यं
च
बीभत्सं
विकृतं
त्रिष्विदं
द्वयम्
।
विस्मयोऽद्भुतमाश्चर्यं
चित्रमप्यथ
भैरवम्
॥१.७.२०॥
दारुणं
भीषणं
भीष्मं
घोरं
भीमं
भयानकम्
।
भयङ्करं
प्रतिभयं
रौद्रं
तूग्रममी
त्रिषु
॥१.७.२१॥
चतुर्दश
दरस्त्रासो
भीतिर्भीः
साध्वसं
भयम्
।
विकारो
मानसो
भावोऽनुभावो
भावबोधकः
॥१.७.२२॥
गर्वोऽभिमानोऽहङ्कारो
मानश्चित्तसमुन्नतिः
।
दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः
स्मयो
मदः
॥१.७.२३॥
अनादरः
परिभवः
परीभावस्तिरस्क्रिया
।
रीढावमाननावज्ञावहेलनमसूर्क्षणम्
॥१.७.२४॥
मन्दाक्षं
ह्रीस्त्रपा
व्रीडा
लज्जा
सापत्रपान्यतः
।
क्षान्तिस्तितिक्षाभिध्या
तु
परस्य
विषये
स्पृहा
॥१.७.२५॥
अक्षान्तिरीर्ष्यासूया
तु
दोषारोपो
गुणेष्वपि
।
वैरं
विरोधो
विद्वेषो
मन्युशोकौ
तु
शुक्स्त्रियाम्
॥१.७.२६॥
पश्चात्तापोऽनुतापश्च
विप्रतीसार
इत्यपि
।
कोपक्रोधामर्षरोषप्रतिघा
रुट्क्रुधौ
स्त्रियौ
॥१.७.२७॥
शुचौ
तु
चरिते
शीलमुन्मादश्चित्तविभ्रमः
।
प्रेमा
ना
प्रियता
हार्दं
प्रेमस्नेहोऽथ
दोहदम्
॥१.७.२८॥
इच्छा
काङ्क्षा
स्पृहेहा
तृड्वाञ्छा
लिप्सा
मनोरथः
।
कामोऽभिलाषस्तर्षश्च
सोऽत्यर्थं
लालसा
द्वयोः
॥१.७.२९॥
उपाधिर्ना
धर्मचिन्ता
पुंस्याधिर्मानसी
व्यथा
।
स्याच्चिन्ता
स्मृतिराध्यानमुत्कण्ठोत्कलिके
समे
॥१.७.३०॥
उत्साहोऽध्यवसायः
स्यात्स
वीर्यमतिशक्तिभाक्
।
कपटोऽस्त्री
व्याजदम्भोपधयश्छद्मकैतवे
॥१.७.३१॥
कुसृतिर्निकृतिः
शाठ्यं
प्रमादोऽनवधानता
।
कौतूहलं
कौतुकं
च
कुतुकं
च
कुतूहलम्
॥१.७.३२॥
स्त्रीणां
विलासबिब्बोकविभ्रमा
ललितं
तथा
।
हेला
लीलेत्यमी
हावाः
क्रियाः
शृङ्गारभावजाः
॥१.७.३३॥
द्रवकेलिपरीहासाः
क्रीडा
लीला
च
नर्म
च
।
व्याजोऽपदेशो
लक्ष्यं
च
क्रीडा
खेला
च
कूर्दनम्
॥१.७.३४॥
घर्मो
निदाघः
स्वेदः
स्यात्प्रलयो
नष्टचेष्टता
।
अवहित्थाकारगुप्तिः
समौ
संवेगसंभ्रमौ
॥१.७.३५॥
स्यादाच्छुरितकं
हासः
सोत्प्रासः
स
मनाक्स्मितम्
।
मध्यमः
स्याद्विहसितं
रोमाञ्चो
रोमहर्षणम्
॥१.७.३६॥
क्रन्दितं
रुदितम्क्रुष्टं
जृम्भस्तु
त्रिषु
जृम्भणम्
।
विप्रलम्भो
विसंवादो
रिङ्गणं
स्खलनं
समे
॥१.७.३७॥
स्यान्निद्रा
शयनं
स्वापः
स्वप्नः
संवेश
इत्यपि
।
तन्द्री
प्रमीला
भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः
स्त्रियाम्
॥१.७.३८॥
अदृष्टिः
स्यादसौम्येऽक्ष्णि
संसिद्धिप्रकृती
त्विमे
।
स्वरूपं
च
स्वभावश्च
निसर्गश्चाथ
वेपथुः
॥१.७.३९॥
कम्पोऽथ
क्षण
उद्धर्षो
मह
उद्धव
उत्सवः
।
इति
नाट्यवर्गः
।