अथ
पातालभोगिवर्गः
।
अधोभुवनपातालं
बलिसद्म
रसातलम्
।
नागलोकोऽथ
कुहरं
शुषिरं
विवरं
बिलम्
॥१.८.१॥
छिद्रं
निर्व्यथनं
रोकं
रन्ध्रं
श्वभ्रं
वपा
शुषिः
।
गर्तावटौ
भुवि
श्वभ्रे
सरन्ध्रे
सुषिरं
त्रिषु
॥१.८.२॥
अन्धकारोऽस्त्रियां
ध्वान्तं
तमिस्रं
तिमिरं
तमः
।
ध्वान्ते
गाढेऽन्धतमसं
क्षीणोऽन्धतमसं
तमः
॥१.८.३॥
विष्वक्संतमसं
नागाः
काद्रवेयास्तदीश्वराः
।
शेषोऽनन्तो
वासुकिस्तु
सर्पराजोऽथ
गोनसे
॥१.८.४॥
तिलित्सः
स्यादजगरे
शयुर्वाहस
इत्युभौ
।
अलगर्दो
जलव्यालः
समौ
राजिलडुण्डुभौ
॥१.८.५॥
मालुधानो
मातुलाहिर्निर्मुक्तो
मुक्तकञ्चुकः
।
सर्पः
पृदाकुर्भुजगो
भुजङ्गोऽहिर्भुजङ्गमः
॥१.८.६॥
आशीविषो
विषधरश्चक्री
व्यालः
सरीसृपः
।
कुण्डली
गूढपाच्चक्षुःश्रवाः
काकोदरः
फणी
॥१.८.७॥
दर्वीकरो
दीर्घपृष्ठो
दन्दशूको
बिलेशयः
।
उरगः
पन्नगो
भोगी
जिह्मगः
पवनाशनः
॥१.८.८॥
लेलिहानो
द्विरसनो
गोकर्णः
कञ्चुकी
तथा
।
कुम्भीनसः
फणधरो
हरिर्भोगधरस्तथा
॥१.८.९॥
अहेः
शरीरं
भोगः
स्यादाशीरप्यहिदंष्ट्रिका
।
त्रिष्वाहेयं
विषास्थ्यादि
स्फटायां
तु
फणा
द्वयोः
॥१.८.१०॥
समौ
कञ्चुकनिर्मोकौ
क्ष्वेडस्तु
गरलं
विषम्
।
पुंसि
क्लीबे
च
काकोलकालकूटहलाहलाः
॥१.८.११॥
सौराष्ट्रिकः
शौक्लिकेयो
ब्रह्मपुत्रः
प्रदीपनः
।
दारदो
वत्सनाभश्च
विषभेदा
अमी
नव
॥१.८.१२॥
विषवैद्यो
जाङ्गुलिको
व्यालग्राह्यहितुण्डिकः
।
इति
पातालभोगिवर्गः
।