अथ
शूद्रवर्गः
।
शूद्राश्चावरवर्णाश्च
वृषलाश्च
जघन्यजाः
।
आचण्डालात्तु
सङ्कीर्णा
अम्बष्ठकरणादयः
॥२.१०.१॥
शूद्राविशोस्तु
करणोऽम्बष्ठो
वैश्याद्विजन्मनोः
।
शूद्राक्षत्रिययोरुग्रो
मागधः
क्षत्रियाविशोः
॥२.१०.२॥
माहिष्योऽर्याक्षत्रिययोः
क्षत्तार्याशूद्रयोः
सुतः
।
ब्राह्मण्यां
क्षत्रियात्सूतस्तस्यां
वैदेहको
विशः
॥२.१०.३॥
रथकारस्तु
माहिष्यात्करण्यां
यस्य
संभवः
।
स्याच्चण्डालस्तु
जनितो
ब्राह्मण्यां
वृषलेन
यः
॥२.१०.४॥
कारुः
शिल्पी
संहतैस्तैर्द्वयोः
श्रेणिः
सजातिभिः
।
कुलकः
स्यात्कुलश्रेष्ठी
मालाकारस्तु
मालिकः
॥२.१०.५॥
कुम्भकारः
कुलालः
स्यात्पलगण्डस्तु
लेपकः
।
तन्तुवायः
कुविन्दः
स्यात्तुन्नवायस्तु
सौचिकः
॥२.१०.६॥
रङ्गाजीवश्चित्रकरः
शस्त्रमार्जोऽसि
धावकः
।
पादकृच्चर्मकारः
स्याद्व्योकारो
लोहकारकः
॥२.१०.७॥
नाडिन्धमः
स्वर्णकारः
कलादो
रुक्मकारकः
।
स्याच्छाङ्खिकः
काम्बविकः
शौल्बिकस्ताम्रकुट्टकः
॥२.१०.८॥
तक्षा
तु
वर्धकिस्त्वष्टा
रथकारस्तु
काष्ठतट्
।
ग्रामाधीनो
ग्रामतक्षः
कौटतक्षोऽनधीनकः
॥२.१०.९॥
क्षुरी
मुण्डी
दिवाकीर्तिनापितान्तावसायिनः
।
निर्णेजकः
स्याद्रजकः
शौण्डिको
मण्डहारकः
॥२.१०.१०॥
जाबालः
स्यादजाजीवो
देवाजीवस्तु
देवलः
।
स्यान्माया
शाम्बरी
मायाकारस्तु
प्रतिहारकः
॥२.१०.११॥
शैलालिनस्तु
शैलूषा
जायाजीवाः
कृशाश्विनः
।
भरता
इत्यपि
नटाश्चारणास्तु
कुशीलवाः
॥२.१०.१२॥
मार्दङ्गिका
मौरजिकाः
पाणिवादास्तु
पाणिघाः
।
वेणुध्माः
स्युर्वैणविका
वीणावादास्तु
वैणिकाः
॥२.१०.१३॥
जीवान्तकः
शाकुनिको
द्वौ
वागुरिकजालिकौ
।
वैतंसिकः
कौटिकश्च
मांसिकश्च
समं
त्रयम्
॥२.१०.१४॥
भृतको
भृतिभुक्कर्मकरो
वैतनिकोऽपि
सः
।
वार्तावहो
वैवधिको
भारवाहस्तु
भारिकः
॥२.१०.१५॥
विवर्णः
पामरो
नीचः
प्राकृतश्च
पृथग्जनः
।
निहीनोऽपसदो
जाल्मः
क्षुल्लकश्चेतरश्च
सः
॥२.१०.१६॥
भृत्ये
दासेरदासेयदासगोप्यकचेटकाः
।
नियोज्यकिङ्करप्रैष्यभुजिष्यपरिचारकाः
॥२.१०.१७॥
पराचितपरिस्कन्दपरजातपरैधिताः
।
मान्दस्तुन्दपरिमृज
आलस्यः
शीतकोऽलसोऽनुष्णः
॥२.१०.१८॥
दक्षे
तु
चतुरपेशलपटवः
सूत्थान
उष्णश्च
।
चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः
॥२.१०.१९॥
निषादश्वपचावन्तेवासिचाण्डालपुक्कसाः
।
भेदाः
किरातशबरपुलिन्दा
म्लेच्छजातयः
॥२.१०.२०॥
व्याधो
मृगवधाजीवो
मृगयुर्लुब्धकोऽपि
सः
।
कौलेयकः
सारमेयः
कुक्कुरो
मृगदंशकः
॥२.१०.२१॥
शुनको
भषकः
श्वा
स्यादलर्कस्तु
स
योगितः
।
श्वा
विश्वकद्रुर्मृगयाकुशलः
सरमा
शुनी
॥२.१०.२२॥
विट्चरः
सूकरो
ग्राम्यो
वर्करस्तरुणः
पशुः
।
आच्छोदनं
मृगव्यं
स्यादाखेटोमृगया
स्त्रियाम्
॥२.१०.२३॥
दक्षिणारुर्लुब्धयोगाद्दक्षिणेर्मा
कुरङ्गकः
।
चौरैकागारिकस्तेनदस्युतस्करमोषकाः
॥२.१०.२४॥
प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः
।
चौरिका
स्तैन्यचोर्ये
च
स्तेयं
लोप्त्रं
तु
तद्धने
॥२.१०.२५॥
वीतंसस्तूपकरणं
बन्धने
मृगपक्षिणाम्
।
उन्माथः
कूटयन्त्रं
स्याद्वागुरा
मृगबन्धनी
॥२.१०.२६॥
शुल्बं
वराटकं
स्त्री
तु
रज्जुस्त्रिषु
वटी
गुणः
।
उद्घाटनं
घटीयन्त्रं
सलिलोद्वाहनं
प्रहेः
॥२.१०.२७॥
पुंसि
वेमा
वायदण्डः
सूत्राणि
नरि
तन्तवः
।
वाणिर्व्यूतिः
स्त्रियौ
तुल्ये
पुस्तं
लेप्यादिकर्मणि
॥२.१०.२८॥
पाञ्चालिका
पुत्रिका
स्याद्वस्त्रदन्तादिभिः
कृता
।
जतुत्रपुविकारे
तु
जातुषं
त्रापुषं
त्रिषु
॥२.१०.२९॥
पिटकः
पेटकः
पेटा
मञ्जूषाथ
विहङ्गिका
।
भारयष्टिस्तदालम्बि
शिक्यं
काचोऽथ
पादुका
॥२.१०.३०॥
पादूरुपानत्स्त्री
सैवानुपदीना
पदायता
।
नध्री
वध्री
वरत्रा
स्यादश्वादेस्ताडनी
कशा
॥२.१०.३१॥
चाण्डालिका
तु
कण्डोलवीणा
चण्डालवल्लकी
।
नाराची
स्यादेषणिका
शाणस्तु
निकषः
कषः
॥२.१०.३२॥
व्रश्चनःपत्रपरशुरीषिका
तूलिका
समे
।
तैजसावर्तनी
मूषा
भस्त्रा
चर्मप्रसेविका
॥२.१०.३३॥
आस्फोटनी
वेधनिका
कृपाणी
कर्तरी
समे
।
वृक्षादनी
वृक्षभेदी
टङ्कः
पाषाणदारणः
॥२.१०.३४॥
क्रकचोऽस्त्री
करपत्रमारा
चर्मप्रभेदिका
।
सूर्मी
स्थूणायःप्रतिमा
शिल्पं
कर्म
कलादिकम्
॥२.१०.३५॥
प्रतिमानं
प्रतिबिम्बं
प्रतिमा
प्रतियातना
प्रतिच्छाया
।
प्रतिकृतिरर्चा
पुंसि
प्रतिनिधिरुपमोपमानं
स्यात्
॥२.१०.३६॥
वाच्यलिङ्गाः
समस्तुल्यः
सदृक्षः
सदृशः
सदृक्
।
साधारणः
समानश्च
स्युरुत्तरपदे
त्वमी
॥२.१०.३७॥
निभसङ्काशनीकाशप्रतीकाशोपमादयः
।
कर्मण्या
तु
विधाभृत्याभृतयो
भर्म
वेतनम्
॥२.१०.३८॥
भरण्यं
भरणं
मूल्यं
निर्वेशः
पण
इत्यपि
।
सुरा
हलिप्रिया
हाला
परिस्रुद्वरुणात्मजा
॥२.१०.३९॥
गन्धोत्तमाप्रसन्नेराकादम्बर्यः
परिस्रुता
।
मदिरा
कश्यमद्ये
चाप्यवदंशस्तु
भक्षणम्
॥२.१०.४०॥
शुण्डापानं
मदस्थानं
मधुवारा
मधुक्रमाः
।
मध्वासवो
माधवको
मधु
माध्वीकमद्वयोः
॥२.१०.४१॥
मैरेयमासवः
सीधुर्मेन्दको
जगलः
समौ
।
सन्धानं
स्यादभिषवः
किण्वं
पुंसि
तु
नग्नहूः
॥२.१०.४२॥
कारोत्तरः
सुरामण्ड
आपानं
पानगोष्ठिका
।
चषकोऽस्त्री
पानपात्रं
सरकोऽप्यनुतर्षणम्
॥२.१०.४३॥
धूर्तोऽक्षदेवी
कितवोऽक्षधूर्तो
द्यूतकृत्समाः
।
स्युर्लग्नकाः
प्रतिभुवः
सभिका
द्यूतकारकाः
॥२.१०.४४॥
द्यूतोऽस्त्रियामक्षवती
कैतवं
पण
इत्यपि
।
पणोऽक्षेषु
ग्लहोऽक्षास्तु
देवनाः
पाशकाश्च
ते
॥२.१०.४५॥
परिणायस्तु
शारीणां
समन्तान्नयने
स्त्रियाम्
।
अष्टापदं
शारिफलं
प्राणिवृत्तं
समाह्वयः
॥२.१०.४६॥
उक्ता
भूरिप्रयोगत्वादेकस्मिन्येऽत्र
यौगिकाः
।
ताद्धर्म्यादन्यतो
वृत्तावूह्या
लिङ्गान्तरेऽपि
ते
॥२.१०.४७॥
इति
शूद्रवर्गः
।
इत्यमरसिंहकृतौ
नामलिङ्गानुशासने
।
द्वितीयकाण्डो
भूम्यादिः
साङ्ग
एव
समर्थितः[॥२.१०.४८॥]