अथ
पुरवर्गः
।
पूः
स्त्री
पुरीनगर्यौ
वा
पत्तनं
पुटभेदनम्
।
स्थानीयं
निगमोऽन्यत्तु
यन्मूलनगरात्पुरम्
॥२.२.१॥
तच्छाखानगरं
वेशो
वेश्याजनसमाश्रयः
।
आपणस्तु
निषद्यायां
विपणिः
पण्यवीथिका
॥२.२.२॥
रथ्या
प्रतोली
विशिखा
स्याच्चयो
वप्रमस्त्रियाम्
।
प्राकारो
वरणः
सालः
प्राचीनं
प्रान्ततो
वृतिः
॥२.२.३॥
भित्तिः
स्त्री
कुड्यमेडूकं
यदन्तर्न्यस्तकीकसम्
।
गृहं
गेहोदवसितं
वेश्म
सद्म
निकेतनम्
॥२.२.४॥
निशान्तवस्त्यसदनं
भवनागारमन्दिरम्
।
गृहाः
पुंसि
च
भूम्न्येव
निकाय्यनिलयालयाः
॥२.२.५॥
वासः
कुटी
द्वयोः
शाला
सभा
सञ्जवनं
त्विदम्
।
चतुःशालं
मुनीनां
तु
पर्णशालोटजोऽस्त्रियाम्
॥२.२.६॥
चैत्यमायतनं
तुल्ये
वाजिशाला
तु
मन्दुरा
।
आवेशनं
शिल्पिशाला
प्रपा
पानीयशालिका
॥२.२.७॥
मठश्छात्रादिनिलयो
गञ्जा
तु
मदिरागृहम्
।
गर्भागारं
वासगृहमरिष्टं
सूतिकागृहम्
॥२.२.८॥
कुट्टिमोऽस्त्री
निबद्धा
भूश्चन्द्रशाला
शिरोगृहम्
।
वातायनं
गवाक्षोऽथ
मण्डपोऽस्त्री
जनाश्रयः
॥२.२.९॥
हर्म्यादि
धनिनां
वासः
प्रासादो
देवभूभुजाम्
।
सौधोऽस्त्री
राजसदनमुपकार्योपकारिका
॥२.२.१०॥
स्वस्तिकः
सर्वतोभद्रो
नन्द्यावर्तादयोऽपि
च
।
विच्छन्दकः
प्रभेदा
हि
भवन्तीश्वरसद्मनाम्
॥२.२.११॥
स्त्र्यगारं
भूभुजामन्तःपुरं
स्यादवरोधनम्
।
शुद्धान्तश्चावरोधश्च
स्यादट्टः
क्षौममस्त्रियाम्
॥२.२.१२॥
प्रघाणप्रघणालिन्दा
बहिर्द्वारप्रकोष्ठके
।
गृहावग्रहणी
देहल्यङ्गणं
चत्वराजिरे
॥२.२.१३॥
अधस्ताद्दारुणिशिला
नासा
दारूपरि
स्थितम्
।
प्रच्छन्नमन्तर्द्वारं
स्यात्पक्षद्वारं
तु
पक्षकम्
॥२.२.१४॥
वलीकनीध्रे
पटलप्रान्तेऽथ
पटलं
छदिः
।
गोपानसी
तु
वलभी
छादने
वक्रदारुणि
॥२.२.१५॥
कपोतपालिकायां
तु
विटङ्कं
पुन्नपुंसकम्
।
स्त्री
द्वार्द्वारं
प्रतीहारः
स्याद्वितर्दिस्तु
वेदिका
॥२.२.१६॥
तोरणोऽस्त्री
बहिर्द्वारम्पुरद्वारं
तु
गोपुरम्
।
कूटं
पूर्द्वारि
यद्धस्तिनखस्तस्मिन्नथ
त्रिषु
॥२.२.१७॥
कपाटमररं
तुल्ये
तद्विष्कम्भोऽर्गलं
न
ना
।
आरोहणं
स्यात्सोपानं
निश्रेणिस्त्वधिरोहिणी
॥२.२.१८॥
संमार्जनी
शोधनी
स्यात्सङ्करोऽवकरस्तथा
।
क्षिप्ते
मुखं
निःसरणं
संनिवेशो
निकर्षणम्
॥२.२.१९॥
समौ
संवसथग्रामौ
वेश्मभूर्वास्तुरस्त्रियाम्
।
ग्रामान्तमुपशल्यं
स्यात्सीमसीमे
स्त्रियामुभे
॥२.२.२०॥
घोष
आभीरपल्ली
स्यात्पक्कणः
शबरालयः
।
इति
पुरवर्गः
।