अथ
शैलवर्गः
।
महीध्रे
शिखरिक्ष्माभृदहार्यधरपर्वताः
।
अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः
॥२.३.१॥
लोकालोकश्चक्रवालस्त्रिकूटस्त्रिककुत्समौ
।
अस्तस्तु
चरमक्ष्माभृदुदयः
पूर्वपर्वतः
॥२.३.२॥
हिमवान्निषधो
विन्ध्यो
माल्यवान्पारियात्रिकः
।
गन्धमादनमन्ये
च
हेमकूटादयो
नगाः
॥२.३.३॥
पाषाणप्रस्तरग्रावोपलाश्मानः
शिला
दृषत्
।
कूटोऽस्त्री
शिखरं
शृङ्गं
प्रपातस्त्वतटो
भृगुः
॥२.३.४॥
कटकोऽस्त्री
नितम्बोऽद्रेः
स्नुः
प्रस्थः
सानुरस्त्रियाम्
।
उत्सः
प्रस्रवणं
वारिप्रवाहो
निर्झरो
झरः
॥२.३.५॥
दरी
तु
कन्दरो
वा
स्त्री
देवखातबिले
गुहा
।
गह्वरं
गण्डशैलास्तु
च्युताः
स्थूलोपला
गिरेः
॥२.३.६॥
दन्तकास्तु
बहिस्तिर्यक्प्रदेशान्निर्गता
गिरेः
।
खनिः
स्त्रियामाकरः
स्यात्पादाः
प्रत्यन्तपर्वताः
॥२.३.७॥
उपत्यकाद्रेरासन्ना
भूमिरूर्ध्वमधित्यका
।
धातुर्मनःशिलाद्यद्रेर्गैरिकं
तु
विशेषतः
॥२.३.८॥
निकुञ्जकुञ्जौ
वा
क्लीबे
लतादिपिहितोदरे
।
इति
शैलवर्गः
।