अथ
वनौषधिवर्गः
।
अटव्यरण्यं
विपिनं
गहनं
काननं
वनम्
।
महारण्यमरण्यानी
गृहारामास्तु
निष्कुटाः
॥२.४.१॥
आरामः
स्यादुपवनं
कृत्रिमं
वनमेव
यत्
।
अमात्यगणिकागेहोपवने
वृक्षवाटिका
॥२.४.२॥
पुमानाक्रीड
उद्यानं
राज्ञः
साधारणं
वनम्
।
स्यादेतदेव
प्रमदवनमन्तःपुरोचितम्
॥२.४.३॥
वीथ्यालिरावलिः
पङ्क्तिः
श्रेणी
लेखास्तु
राजयः
।
वन्या
वनसमूहे
स्यादङ्कुरोऽभिनवोद्भिदि
॥२.४.४॥
वृक्षो
महीरुहः
शाखी
विटपी
पादपस्तरुः
।
अनोकहः
कुटः
शालः
पलाशी
द्रुद्रुमागमाः
॥२.४.५॥
वानस्पत्यः
फलैः
पुष्पात्तैरपुष्पाद्वनस्पतिः
।
ओषध्यः
फलपाकान्ताः
स्युरवन्ध्यः
फलेग्रहिः
॥२.४.६॥
वन्ध्योऽफलोऽवकेशी
च
फलवान्फलिनः
फली
।
प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः
॥२.४.७॥
फुल्लश्चैते
विकसिते
स्युरवन्ध्यादयस्त्रिषु
।
स्थाणुर्वा
ना
ध्रुवः
शङ्कुर्ह्रस्वशाखाशिफः
क्षुपः
॥२.४.८॥
अप्रकाण्डे
स्तम्बगुल्मौ
वल्ली
तु
व्रततिर्लता
।
लता
प्रतानिनी
वीरुद्गुल्मिन्युलप
इत्यपि
॥२.४.९॥
नगाद्यारोह
उच्छ्राय
उत्सेधश्चोच्छ्रयश्च
सः
।
अस्त्री
प्रकाण्डः
स्कन्धः
स्यान्मूलाच्छाखावधिस्तरोः
॥२.४.१०॥
समे
शाखालते
स्कन्धशाखाशाले
शिफाजटे
।
शाखाशिफावरोहः
स्यान्मूलाच्चाग्रं
गता
लता
॥२.४.११॥
शिरोग्रं
शिखरं
वा
ना
मूलं
बुध्नोऽङ्घ्रिनामकः
।
सारो
मज्जा
नरि
त्वक्स्त्री
वल्कं
वल्कलमस्त्रियाम्
॥२.४.१२॥
काष्ठं
दार्विन्धनं
त्वेध
इध्ममेधः
समित्स्त्रियाम्
।
निष्कुहः
कोटरं
वा
ना
वल्लरिर्मञ्जरिः
स्त्रियौ
॥२.४.१३॥
पत्रं
पलाशं
छदनं
दलं
पर्णं
छदः
पुमान्
।
पल्लवोऽस्त्री
किसलयं
विस्तारो
विटपोऽस्त्रियाम्
॥२.४.१४॥
वृक्षादीनां
फलं
सस्यं
वृन्तं
प्रसवबन्धनम्
।
आमे
फले
शलाटुः
स्याच्छुष्के
वानमुभे
त्रिषु
॥२.४.१५॥
क्षारको
जालकं
क्लीबे
कलिका
कोरकः
पुमान्
।
स्याद्गुच्छकस्तु
स्तबकः
कुङ्मलो
मुकुलोऽस्त्रियाम्
॥२.४.१६॥
स्त्रियः
सुमनसः
पुष्पं
प्रसूनं
कुसुमं
सुमम्
।
मकरन्दः
पुष्परसः
परागः
सुमनोरजः
॥२.४.१७॥
द्विहीनं
प्रसवे
सर्वं
हरीतक्यादयः
स्त्रियाम्
।
आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गुदम्फले
॥२.४.१८॥
बार्हतं
च
फले
जम्ब्वा
जम्बूः
स्त्री
जम्बु
जाम्बवम्
।
पुष्पे
जातीप्रभृतयः
स्वलिङ्गाः
व्रीहयः
फले
॥२.४.१९॥
विदार्याद्यास्तु
मूलेऽपि
पुष्पे
क्लीबेऽपि
पाटला
।
बोधिद्रुमश्चलदलः
पिप्पलः
कुञ्जराशनः
॥२.४.२०॥
अश्वत्थेऽथ
कपित्थे
स्युर्दधित्थग्राहिमन्मथाः
।
तस्मिन्दधिफलः
पुष्पफलदन्तशठावपि
॥२.४.२१॥
उदुम्बरो
जन्तुफलो
यज्ञाङ्गो
हेमदुग्धकः
।
कोविदारे
चमरिकः
कुद्दालो
युगपत्रकः
॥२.४.२२॥
सप्तपर्णो
विशालत्वक्शारदो
विषमच्छदः
।
आरग्वधे
राजवृक्षशम्पाकचतुरङ्गुलाः
॥२.४.२३॥
आरेवतव्याधिघातकृतमालसुवर्णकाः
।
स्युर्जम्बीरे
दन्तशठजम्भजम्भीरजम्भलाः
॥२.४.२४॥
वरुणो
वरणः
सेतुस्तिक्तशाकः
कुमारकः
।
पुन्नागे
पुरुषस्तुङ्गः
केसरो
देववल्लभः
॥२.४.२५॥
पारिभद्रे
निम्बतरुर्मन्दारः
पारिजातकः
।
तिनिशे
स्यन्दनो
नेमी
रथद्रुरतिमुक्तकः
॥२.४.२६॥
वञ्जुलश्चित्रकृच्चाथ
द्वौ
पीतनकपीतनौ
।
आम्रातके
मधूके
तु
गुडपुष्पमधुद्रुमौ
॥२.४.२७॥
वानप्रस्थमधुष्ठीलौ
जलजेऽत्र
मधूलकः
।
पीलौ
गुडफलः
स्रंसी
तस्मिंस्तु
गिरिसम्भवे
॥२.४.२८॥
अक्षोटकन्दरालौ
द्वावङ्कोटे
तु
निकोचकः
।
पलाशे
किंशुकः
पर्णो
वातपोतोऽथ
वेतसे
॥२.४.२९॥
रथाभ्रपुष्पविदुरशीतवानीरवञ्जुलाः
।
द्वौ
परिव्याधविदुलौ
नादेयी
चाम्बुवेतसे
॥२.४.३०॥
शोभाञ्जने
शिग्रुतीक्ष्णगन्धकाक्षीवमोचकाः
।
रक्तोऽसौ
मधुशिग्रुः
स्यादरिष्टः
फेनिलः
समौ
॥२.४.३१॥
बिल्वे
शाण्डिल्यशैलूषौ
मालूरश्रीफलावपि
।
प्लक्षो
जटी
पर्कटी
स्यान्न्यग्रोधो
बहुपाद्वटः
॥२.४.३२॥
गालवः
शाबरो
लोध्रस्तिरीटस्तिल्वमार्जनौ
।
आम्रश्चूतो
रसालोऽसौ
सहकारोऽतिसौरभः
॥२.४.३३॥
कुम्भोलूखलकं
क्लीबे
कौशिको
गुग्गुलुः
पुरः
।
शेलुः
श्लेष्मातकः
शीत
उद्दालो
बहुवारकः
॥२.४.३४॥
राजादनं
प्रियालः
स्यात्सन्नकद्रुर्धनुःपटः
।
गम्भारी
सर्वतोभद्रा
काश्मरी
मधुपर्णिका
॥२.४.३५॥
श्रीपर्णी
भद्रपर्णी
च
काश्मर्यश्चाप्यथ
द्वयोः
।
कर्कन्धूर्बदरी
कोलिः
कोलं
कुवलफेनिले
॥२.४.३६॥
सौवीरं
बदरं
घोण्टाप्यथ
स्यात्स्वादुकण्टकः
।
विकङ्कतः
स्रुवावृक्षो
ग्रन्थिलो
व्याघ्रपादपि
॥२.४.३७॥
ऐरावतो
नागरङ्गो
नादेयी
भूमिजम्बुका
।
तिन्दुकः
स्फूर्जकः
कालस्कन्धश्च
शितिसारके
॥२.४.३८॥
काकेन्दुः
कुलकः
काकतिन्दुकः
काकपीलुके
।
गोलीढो
झाटलो
घण्टापाटलिर्मोक्षमुष्ककौ
॥२.४.३९॥
तिलकः
क्षुरकः
श्रीमान्समौ
पिचुलझावुकौ
।
श्रीपर्णिका
कुमुदिका
कुम्भी
कैटर्यकट्फलौ
॥२.४.४०॥
क्रमुकः
पट्टिकाख्यः
स्यात्पट्टी
लाक्षाप्रसादनः
।
तूदस्तु
यूपः
क्रमुको
ब्रह्मण्यो
ब्रह्मदारु
च
॥२.४.४१॥
तूलं
च
नीपप्रियककदम्बास्तु
हलिप्रियः
।
वीरवृक्षोऽरुष्करोऽग्निमुखी
भल्लातकी
त्रिषु
॥२.४.४२॥
गर्दभाण्डे
कन्दरालकपीतनसुपार्श्वकाः
।
प्लक्षश्च
तिन्तिडी
चिञ्चाम्लिकाथो
पीतसारके
॥२.४.४३॥
सर्जकासनबन्धूकपुष्पप्रियकजीवकाः
।
साले
तु
सर्जकार्श्याश्वकर्णकाः
सस्यसम्वरः
॥२.४.४४॥
नदीसर्जो
वीरतरुरिन्द्रद्रुः
ककुभोऽर्जुनः
।
राजादनः
फलाध्यक्षः
क्षीरिकायामथ
द्वयोः
॥२.४.४५॥
इङ्गुदी
तापसतरुर्भूर्जे
चर्मिमृदुत्वचौ
।
पिच्छिला
पूरणी
मोचा
स्थिरायुः
शाल्मलिर्द्वयोः
॥२.४.४६॥
पिच्छा
तु
शाल्मलीवेष्टे
रोचनः
कूटशाल्मलिः
।
चिरबिल्वो
नक्तमालः
करजश्च
करञ्जके
॥२.४.४७॥
प्रकीर्यः
पूतिकरजः
पूतिकः
कलिमारकः
।
करञ्जभेदाः
षड्ग्रन्थो
मर्कट्यङ्गारवल्लरी
॥२.४.४८॥
रोही
रोहितकः
प्लीहशत्रुर्दाडिमपुष्पकः
।
गायत्री
बालतनयः
खदिरो
दन्तधावनः
॥२.४.४९॥
अरिमेदो
विट्खदिरे
कदरः
खदिरे
सिते
।
सोमवल्कोऽप्यथ
व्याघ्रपुच्छगन्धर्वहस्तकौ
॥२.४.५०॥
एरण्ड
उरुबूकश्च
रुचकश्चित्रकश्च
सः
।
चञ्चुः
पञ्चाङ्गुलो
मण्डवर्धमानव्यडम्बकाः
॥२.४.५१॥
अल्पा
शमी
शमीरः
स्याच्छमीसक्तुफला
शिवा
।
पिण्डीतको
मरुबकः
श्वसनः
करहाटकः
॥२.४.५२॥
शल्यश्च
मदने
शक्रपादपः
पारिभद्रकः
।
भद्रदारु
द्रुकिलिमं
पीतदारु
च
दारु
च
॥२.४.५३॥
पूतिकाष्ठं
च
सप्त
स्युर्देवदारुण्यथ
द्वयोः
।
पाटलिः
पाटला
मोघा
काचस्थाली
फलेरुहा
॥२.४.५४॥
कृष्णवृन्ता
कुबेराक्षी
श्यामा
तु
महिलाह्वया
।
लता
गोवन्दनी
गुन्द्रा
प्रियङ्गुः
फलिनी
फली
॥२.४.५५॥
विष्वक्सेना
गन्धफली
कारम्भा
प्रियकश्च
सा
।
मण्डूकपर्णपत्रोर्णनटकट्वङ्गटुण्टुकाः
॥२.४.५६॥
स्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटाः
।
शोणकश्चारलौ
तिष्यफला
त्वामलकी
त्रिषु
॥२.४.५७॥
अमृता
च
वयस्था
च
त्रिलिङ्गस्तु
बिभीतकः
।
नाक्षस्तुषः
कर्षफलो
भूतावासः
कलिद्रुमः
॥२.४.५८॥
अभया
त्वव्यथा
पथ्या
कायस्था
पूतनामृता
।
हरीतकी
हैमवती
चेतकी
श्रेयसी
शिवा
॥२.४.५९॥
पीतद्रुः
सरलः
पूतिकाष्ठं
चाथ
द्रुमोत्पलः
।
कर्णिकारः
परिव्याधो
लकुचो
लिकुचो
डहुः
॥२.४.६०॥
पनसः
कण्टकिफलो
निचुलो
हिज्जलोऽम्बुजः
।
काकोदुम्बरिका
फल्गुर्मलयूर्जघनेफला
॥२.४.६१॥
अरिष्टः
सर्वतोभद्रहिङ्गुनिर्यासमालकाः
।
पिचुमन्दश्च
निम्बेऽथ
पिच्छिलागुरुशिंशपा
॥२.४.६२॥
कपिला
भस्मगर्भा
सा
शिरीषस्तु
कपीतनः
।
भण्डिलोऽप्यथ
चाम्पेयश्चम्पको
हेमपुष्पकः
॥२.४.६३॥
एतस्य
कलिका
गन्धफली
स्यादथ
केसरे
।
बकुलो
वञ्जुलोऽशोके
समौ
करकदाडिमौ
॥२.४.६४॥
चाम्पेयः
केसरो
नागकेसरः
काञ्चनाह्वयः
।
जया
जयन्ती
तर्कारी
नादेयी
वैजयन्तिका
॥२.४.६५॥
श्रीपर्णमग्निमन्थः
स्यात्कर्णिका
गणिकारिका
।
जयोऽथ
कुटजः
शक्रो
वत्सको
गिरिमल्लिका
॥२.४.६६॥
एतस्यैव
कलिङ्गेन्द्रयवभद्रयवं
फले
।
कृष्णपाकफलाविग्नसुषेणाः
करमर्दके
॥२.४.६७॥
कालस्कन्धस्तमालः
स्यात्तापिच्छोऽप्यथ
सिन्दुके
।
सिन्दुवारेन्द्रसुरसौ
निर्गुण्डीन्द्राणिकेत्यपि
॥२.४.६८॥
वेणी
खरा
गरी
देवताडो
जीमूत
इत्यपि
।
श्रीहस्तिनी
तु
भूरुण्डी
तृणशून्यं
तु
मल्लिका
॥२.४.६९॥
भूपदी
शीतभीरुश्च
सैवास्फोटा
वनोद्भवा
।
शेफालिका
तु
सुवहा
निर्गुण्डी
नीलिका
च
सा
॥२.४.७०॥
सितासौ
श्वेतसुरसा
भूतवेश्यथ
मागधी
।
गणिका
यूथिकाम्बष्ठा
सा
पीता
हेमपुष्पिका
॥२.४.७१॥
अतिमुक्तः
पुण्ड्रकः
स्याद्वासन्ती
माधवी
लता
।
सुमना
मालती
जातिः
सप्तला
नवमालिका
॥२.४.७२॥
माध्यं
कुन्दं
रक्तकस्तु
बन्धूको
बन्धुजीवकः
।
सहा
कुमारी
तरणिरम्लानस्तु
महासहा
॥२.४.७३॥
तत्र
शोणे
कुरबकस्तत्र
पीते
कुरण्टकः
।
नीली
झिण्टी
द्वयोर्बाणा
दासी
चार्तगलश्च
सा
॥२.४.७४॥
सैरेयकस्तु
झिण्टी
स्यात्तस्मिन्कुरबकोऽरुणे
।
पीता
कुरण्टको
झिण्टी
तस्मिन्सहचरी
द्वयोः
॥२.४.७५॥
ओण्ड्रपुष्पं
जपापुष्पं
वज्रपुष्पं
तिलस्य
यत्
।
प्रतिहासशतप्रासचण्डातहयमारकाः
॥२.४.७६॥
करवीरे
करीरे
तु
क्रकरग्रन्थिलावुभौ
।
उन्मत्तः
कितवो
धूर्तो
धत्तूरः
कनकाह्वयः
॥२.४.७७॥
मातुलो
मदनश्चास्य
फले
मातुलपुत्रकः
।
फलपूरो
बीजपूरो
रुचको
मातुलुङ्गके
॥२.४.७८॥
समीरणो
मरुबकः
प्रस्थपुष्पः
फणिज्जकः
।
जम्बीरोऽप्यथ
पर्णासे
कठिञ्जरकुठेरकौ
॥२.४.७९॥
सितेऽर्जकोऽत्र
पाठी
तु
चित्रको
वह्निसंज्ञकः
।
अर्काह्ववसुकास्फोटगणरूपविकीरणाः
॥२.४.८०॥
मन्दारश्चार्कपर्णोऽत्र
शुक्लेऽलर्कप्रतापसौ
।
शिवमल्ली
पाशुपत
एकाष्ठीलो
बुको
वसुः
॥२.४.८१॥
वन्दा
वृक्षादनी
वृक्षरुहा
जीवन्तिकेत्यपि
।
वत्सादनी
छिन्नरुहा
गुडूची
तन्त्रिकामृता
॥२.४.८२॥
जीवन्तिका
सोमवल्ली
विशल्या
मधुपर्ण्यपि
।
मूर्वा
देवी
मधुरसा
मोरटा
तेजनी
स्रवा
॥२.४.८३॥
मधूलिका
मधुश्रेणी
गोकर्णी
पीलुपर्ण्यपि
।
पाटाम्बष्टा
विद्धकर्णी
स्थापनी
श्रेयसी
रसा
॥२.४.८४॥
एकाष्ठीला
पापचेली
प्राचीना
वनतिक्तिका
।
कटुः
कटम्भराशोकरोहिणी
कटुरोहिणी
॥२.४.८५॥
मत्स्यपित्ता
कृष्णभेदी
चक्राङ्गी
शकुलादनी
।
आत्मगुप्ताजहाव्यण्डा
कण्डुरा
प्रावृषायणी
॥२.४.८६॥
ऋष्यप्रोक्ता
शूकशिम्बिः
कपिकच्छुश्च
मर्कटी
।
चित्रोपचित्रा
न्यग्रोधी
द्रवन्ती
शम्बरी
वृषा
॥२.४.८७॥
प्रत्यक्श्रेणी
सुतश्रेणी
रण्डा
मूषिकपर्ण्यपि
।
अपामार्गः
शैखरिको
धामार्गवमयूरकौ
॥२.४.८८॥
प्रत्यक्पर्णी
केशपर्णी
किणिही
खरमञ्जरी
।
हञ्जिका
ब्राम्हणी
पद्मा
भर्गी
ब्राह्मणयष्टिका
॥२.४.८९॥
अङ्गारवल्ली
बालेयशाकबर्बरवर्धकाः
।
मञ्जिष्टा
विकसा
जिङ्गी
समङ्गा
कालमेषिका
॥२.४.९०॥
मण्डूकपर्णी
भण्डीरी
भण्डी
योजनवल्ल्यपि
।
यासो
यवासो
दुःस्पर्शो
धन्वयासः
कुनाशकः
॥२.४.९१॥
रोदनी
कच्छुरानन्ता
समुद्रान्ता
दुरालभा
।
पृश्निपर्णी
पृथक्पर्णी
चित्रपर्ण्यङ्घ्रिवल्लिका
॥२.४.९२॥
क्रोष्टुविन्ना
सिंहपुच्छी
कलशिर्धावनिर्गुहा
।
निदिग्धिका
स्पृशी
व्याघ्री
बृहती
कण्टकारिका
॥२.४.९३॥
प्रचोदनी
कुली
क्षुद्रा
दुःस्पर्शा
राष्ट्रिकेत्यपि
।
नीली
काला
क्लीतकिका
ग्रामीणा
मधुपर्णिका
॥२.४.९४॥
रञ्जनी
श्रीफली
तुत्था
द्रोणी
दोला
च
नीलिनी
।
अवल्गुजः
सोमराजी
सुवल्लिः
सोमवल्लिका
॥२.४.९५॥
कालमेषी
कृष्णफली
बाकुची
पूतिफल्यपि
।
कृष्णोपकुल्या
वैदेही
मागधी
चपला
कणा
॥२.४.९६॥
उषणा
पिप्पली
शौण्डी
कोलाथ
करिपिप्पली
।
कपिवल्ली
कोलवल्ली
श्रेयसी
वशिरः
पुमान्
॥२.४.९७॥
चव्यं
तु
चविका
काकचिञ्चीगुञ्जे
तु
कृष्णला
।
पलङ्कषा
त्विक्षुगन्धा
श्वदंष्ट्रा
स्वादुकण्टकः
॥२.४.९८॥
गोकण्टको
गोक्षुरको
वनशृङ्गाट
इत्यपि
।
विश्वा
विषा
प्रतिविषातिविषोपविषारुणा
॥२.४.९९॥
शृङ्गी
महौषधं
चाथ
क्षीरावी
दुग्धिका
समे
।
शतमूली
बहुसुताभीरूरिन्दीवरी
वरी
॥२.४.१००॥
ऋष्यप्रोक्ताभीरुपत्रीनारायण्यः
शतावरी
।
अहेरुरथ
पीतद्रुकालीयकहरिद्रवः
॥२.४.१०१॥
दार्वी
पचम्पचा
दारुहरिद्रा
पर्जनीत्यपि
।
वचोग्रगन्धा
षड्ग्रन्था
गोलोमी
शतपर्विका
॥२.४.१०२॥
शुक्ला
हैमवती
वैद्यमातृसिंह्यौ
तु
वाशिका
।
वृषोऽटरूषः
सिंहास्यो
वासको
वाजिदन्तकः
॥२.४.१०३॥
आस्फोटा
गिरिकर्णी
स्याद्विष्णुक्रान्तापराजिता
।
इक्षुगन्धा
तु
काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः
॥२.४.१०४॥
शालेयः
स्याच्छीतशिवश्छत्रा
मधुरिका
मिसिः
।
मिश्रेयाप्यथ
सीहुण्डो
वज्रः
स्नुक्स्त्री
स्नुही
गुडा
॥२.४.१०५॥
समन्तदुग्धाथो
वेल्लममोघा
चित्रतण्डुला
।
तण्डुलश्च
कृमिघ्नश्च
विडङ्गं
पुन्नपुंसकम्
॥२.४.१०६॥
बला
वाट्यालका
घण्टारवा
तु
शणपुष्पिका
।
मृद्वीका
गोस्तनी
द्राक्षा
स्वाद्वी
मधुरसेति
च
॥२.४.१०७॥
सर्वानुभूतिः
सरला
त्रिपुटा
त्रिवृता
त्रिवृत्
।
त्रिभण्डी
रोचनी
श्यामापालिन्द्यौ
तु
सुषेणिका
॥२.४.१०८॥
काला
मसूरविदलार्धचन्द्रा
कालमेषिका
।
मधुकं
क्लीतकं
यष्टिमधुकं
मधुयष्टिका
॥२.४.१०९॥
विदारी
क्षीरशुक्लेक्षुगन्धा
क्रोष्टी
च
या
सिता
।
अन्या
क्षीरविदारी
स्यान्महाश्वेतर्क्षगन्धिका
॥२.४.११०॥
लाङ्गली
शारदी
तोयपिप्पली
शकुलादनी
।
खराश्वा
कारवी
दीप्यो
मयूरो
लोचमस्तकः
॥२.४.१११॥
गोपी
श्यामा
शारिवा
स्यादनन्तोत्पलशारिवा
।
योग्यमृद्धिः
सिद्धिलक्ष्म्यौ
वृद्धेरप्याह्वया
इमे
॥२.४.११२॥
कदली
वारणबुसा
रम्भा
मोचांशुमत्फला
।
काष्ठीला
मुद्गपर्णी
तु
काकमुद्गा
सहेत्यपि
॥२.४.११३॥
वार्ताकी
हिङ्गुली
सिंही
भण्टाकी
दुष्प्रधर्षिणी
।
नाकुली
सुरसा
रास्ना
सुगन्धा
गन्धनाकुली
॥२.४.११४॥
नकुलेष्टा
भुजङ्गाक्षी
छत्राकी
सुवहा
च
सा
।
विदारिगन्धांशुमती
सालपर्णी
स्थिरा
ध्रुवा
॥२.४.११५॥
तुण्डिकेरी
समुद्रान्ता
कार्पासी
बदरेति
च
।
भारद्वाजी
तु
सा
वन्या
शृङ्गी
तु
ऋषभो
वृषः
॥२.४.११६॥
गाङ्गेरुकी
नागबला
झषा
ह्रस्वगवेधुका
।
धामार्गवो
घोषकः
स्यान्महाजाली
स
पीतकः
॥२.४.११७॥
ज्योत्स्नी
पटोलिका
जाली
नादेयी
भूमिजम्बुका
।
स्याल्लाङ्गलिक्यग्निशिखा
काकाङ्गी
काकनासिका
॥२.४.११८॥
गोधापदी
तु
सुवहा
मुसली
तालमूलिका
।
अजशृङ्गी
विषाणी
स्याद्गोजिह्वादार्विके
समे
॥२.४.११९॥
ताम्बूलवल्ली
तम्बूली
नागवल्ल्यप्यथ
द्विजा
।
हरेणू
रेणुका
कौन्ती
कपिला
भस्मगन्धिनी
॥२.४.१२०॥
एलावालुकमैलेयं
सुगन्धि
हरिवालुकम्
।
वालुकं
चाथ
पालङ्क्यां
मुकुन्दः
कुन्दकुन्दुरू
॥२.४.१२१॥
बालं
ह्रीबेरबर्हिष्ठोदीच्यं
केशाम्बुनाम
च
।
कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि
तु
॥२.४.१२२॥
शैलेयं
तालपर्णी
तु
दैत्या
गन्धकुटी
मुरा
।
गन्धिनी
गजभक्ष्या
तु
सुवहा
सुरभी
रसा
॥२.४.१२३॥
महेरणा
कुन्दुरुकी
सल्लकी
ह्लादिनीति
च
।
अग्निज्वालासुभिक्षे
तु
धातकी
धातुपुष्पिका
॥२.४.१२४॥
पृथ्वीका
चन्द्रवालैला
निष्कुटिर्बहिलाथ
सा
।
सूक्ष्मोपकुञ्चिका
तुत्था
कोरङ्गी
त्रिपुटा
त्रुटिः
॥२.४.१२५॥
व्याधिः
कुष्टं
पारिभाव्यं
वाप्यं
पाकलमुत्पलम्
।
शङ्खिनी
चोरपुष्पी
स्यात्केशिन्यथ
वितुन्नकः
॥२.४.१२६॥
झटामलाज्झटा
ताली
शिवा
तामलकीति
च
।
प्रपौण्डरीकं
पौण्डर्यमथ
तुन्नः
कुबेरकः
॥२.४.१२७॥
कुणिः
कच्छः
कान्तलको
नन्दिवृक्षोऽथ
राक्षसी
।
चण्डा
धनहरी
क्षेमदुष्पत्रगणहासकाः
॥२.४.१२८॥
व्याडायुधं
व्याघ्रनखं
करजं
चक्रकारकम्
।
सुषिरा
विद्रुमलता
कपोताङ्घ्रिर्नटी
नली
॥२.४.१२९॥
धमन्यञ्जनकेशी
च
हनुर्हट्टविलासिनी
।
शुक्तिः
शङ्खः
खुरः
कोलदलं
नखमथाढकी
॥२.४.१३०॥
काक्षी
मृत्स्ना
तुवरिका
मृत्तालकसुराष्ट्रजे
।
कुटन्नटं
दाशपुरं
वानेयं
परिपेलवम्
॥२.४.१३१॥
प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि
च
।
ग्रन्थिपर्णं
शुकं
बर्हं
पुष्पं
स्थौणेयकुक्कुरे
॥२.४.१३२॥
मरुन्माला
तु
पिशुना
स्पृक्का
देवी
लता
लघुः
।
समुद्रान्ता
वधूः
कोटिवर्षा
लङ्कोपिकेत्यपि
॥२.४.१३३॥
तपस्विनी
जटामांसी
जटिला
लोमशा
मिसी
।
त्वक्पत्रमुत्कटं
भृङ्गं
त्वचं
चोचं
वराङ्गकम्
॥२.४.१३४॥
कर्चूरको
द्राविडकः
काल्पको
वेधमुख्यकः
।
ओषध्यो
जातिमात्रे
स्युरजातौ
सर्वमौषधम्
॥२.४.१३५॥
शाकाख्यं
पत्रपुष्पादि
तण्डुलीयोऽल्पमारिषः
।
विशल्याग्निशिखानन्ता
फलिनी
शक्रपुष्पिका
॥२.४.१३६॥
स्याद्दक्षगन्धा
छगलान्त्र्यावेगी
वृद्धदारकः
।
जुङ्गो
ब्रम्ही
तु
मत्स्याक्षी
वयस्था
सोमवल्लरी
॥२.४.१३७॥
पटुपर्णी
हैमवती
स्वर्णक्षीरी
हिमावती
।
हयपुच्छी
तु
काम्बोजी
माषपर्णी
महासहा
॥२.४.१३८॥
तुण्डिकेरी
रक्तफला
बिम्बिका
पीलुपर्ण्यपि
।
बर्बरा
कबरी
तुङ्गी
खरपुष्पाजगन्धिका
॥२.४.१३९॥
एलापर्णी
तु
सुवहा
रास्ना
युक्तरसा
च
सा
।
चाङ्गेरी
चुक्रिका
दन्तशठाम्बष्ठाम्ललोणिका
॥२.४.१४०॥
सहस्रवेधी
चुक्रोऽम्लवेतसः
शतवेध्यपि
।
नमस्कारी
गण्डकारी
समङ्गा
खदिरेत्यपि
॥२.४.१४१॥
जीवन्ती
जीवनी
जीवा
जीवनीया
मधुस्रवा
।
कूर्चशीर्षो
मधुरकः
शृङ्गह्रस्वाङ्गजीवकाः
॥२.४.१४२॥
किराततिक्तो
भूनिम्बोऽनार्यतिक्तोऽथ
सप्तला
।
विमला
सातला
भूरिफेना
चर्मकषेत्यपि
॥२.४.१४३॥
वायसोली
स्वादुरसा
वयस्थाथ
मकूलकः
।
निकुम्भो
दन्तिका
प्रत्यक्श्रेण्युदुम्बरपर्ण्यपि
॥२.४.१४४॥
अजमोदा
तूग्रगन्धा
ब्रह्मदर्भा
यवानिका
।
मूले
पुष्करकाश्मीरपद्मपत्राणि
पौष्करे
॥२.४.१४५॥
अव्यथातिचरा
पद्मा
चारटी
पद्मचारिणी
।
काम्पिल्यः
कर्कशश्चन्द्रो
रक्ताङ्गो
रोचनीत्यपि
॥२.४.१४६॥
प्रपुन्नाडस्त्वेडगजो
दद्रुघ्नश्चक्रमर्दकः
।
पद्माट
उरणाख्यश्च
पलाण्डुस्तु
सुकन्दकः
॥२.४.१४७॥
लतार्कदुद्रुमौ
तत्र
हरितेऽथ
महौषधम्
।
लशुनं
गृञ्जनारिष्टमहाकन्दरसोनकाः
॥२.४.१४८॥
पुनर्नवा
तु
शोथघ्नी
वितुन्नं
सुनिषण्णकम्
।
स्याद्वातकः
शीतलोऽपराजिता
शणपर्ण्यपि
॥२.४.१४९॥
पारावताङ्घ्रिः
कटभी
पण्या
ज्योतिष्मती
लता
।
वार्षिकं
त्रायमाणा
स्यात्त्रायन्ती
बलभद्रिका
॥२.४.१५०॥
विष्वक्सेनप्रिया
गृष्टिर्वाराही
बदरेत्यपि
।
मार्कवो
भृङ्गराजः
स्यात्काकमाची
तु
वायसी
॥२.४.१५१॥
शतपुष्पा
सितच्छत्रातिच्छत्रा
मधुरा
मिसिः
।
अवाक्पुष्पी
कारवी
च
सरणा
तु
प्रसारिणी
॥२.४.१५२॥
तस्यां
कटम्भरा
राजबला
भद्रबलेत्यपि
।
जनी
जतूका
रजनी
जतुकृच्चक्रवर्तिनी
॥२.४.१५३॥
संस्पर्शाथ
शटी
गन्धमूली
षड्ग्रन्थिकेत्यपि
।
कर्चूरोऽपि
पलाशोऽथ
कारवेल्लः
कठिल्लकः
॥२.४.१५४॥
सुषवी
चाथ
कुलकं
पतोलस्तिक्तकः
पटुः
।
कूष्माण्डकस्तु
कर्कारुरुर्वारुः
कर्कटी
स्त्रियौ
॥२.४.१५५॥
इक्ष्वाकुः
कटुतुम्बी
स्यात्तुम्ब्यलाबूरुभे
समे
।
चित्रा
गवाक्षी
गोडुम्बा
विशाला
त्विन्द्रवारुणी
॥२.४.१५६॥
अर्शोघ्नः
सूरणः
कन्दो
गण्डीरस्तु
समष्ठिला
।
कलम्ब्युपोदिका
स्त्री
तु
मूलकं
हिलमोचिका
॥२.४.१५७॥
वास्तुकं
शाकभेदाः
स्युर्दूर्वा
तु
शतपर्विका
।
सहस्रवीर्याभार्गव्यौ
रुहानन्ताथ
सा
सिता
॥२.४.१५८॥
गोलोमी
शतवीर्या
च
गण्डाली
शकुलाक्षका
।
कुरुविन्दो
मेघनामा
मुस्ता
मुस्तकमस्त्रियाम्
॥२.४.१५९॥
स्याद्भद्रमुस्तको
गुन्द्रा
चूडाला
चक्रलोच्चटा
।
वंशे
त्वक्सारकर्मारत्वचिसारतृणध्वजाः
॥२.४.१६०॥
शतपर्वा
यवफलो
वेणुमस्करतेजनाः
।
वेणवः
कीचकास्ते
स्युर्ये
स्वनन्त्यनिलोद्धताः
॥२.४.१६१॥
ग्रन्थिर्ना
पर्वपरुषी
गुन्द्रस्तेजनकः
शरः
।
नडस्तु
धमनः
पोटगलोऽथो
काशमस्त्रियाम्
॥२.४.१६२॥
इक्षुगन्धा
पोटगलः
पुंसि
भूम्नि
तु
बल्वजाः
।
रसाल
इक्षुस्तद्भेदाः
पुण्ड्रकान्तारकादयः
॥२.४.१६३॥
स्याद्वीरणं
वीरतरं
मूलेऽस्योशीरमस्त्रियाम्
।
अभयं
नलदं
सेव्यममृणालं
जलाशयम्
॥२.४.१६४॥
लामज्जकं
लघुलयमवदाहेष्टकापथे
।
नडादयस्तृणं
गर्मुच्छ्यामाकप्रमुखा
अपि
॥२.४.१६५॥
अस्त्री
कुशं
कुथो
दर्भः
पवित्रमथ
कत्तृणम्
।
पौरसौगन्धिकध्यामदेवजग्धकरौहिषम्
॥२.४.१६६॥
छत्रातिच्छत्रपालघ्नौ
मालातृणकभूस्तृणे
।
शष्पं
बालतृणम्घासो
यवसं
तृणमर्जुनम्
॥२.४.१६७॥
तृणानां
संहतिस्तृण्या
नड्या
तु
नडसंहतिः
।
तृणराजाह्वयस्तालो
नालिकेरस्तु
लाङ्गली
॥२.४.१६८॥
घोण्टा
तु
पूगः
क्रमुको
गुवाकः
खपुरोऽस्य
तु
।
फलमुद्वेगमेते
च
हिन्तालसहितास्त्रयः
॥२.४.१६९॥
खर्जूरः
केतकी
ताली
खर्जुरी
च
तृणद्रुमाः
।
इति
वनौषधिवर्गः
।