अथ
सिंहादिवर्गः
।
सिंहो
मृगेन्द्रः
पञ्चास्यो
हर्यक्षः
केसरी
हरिः
।
कण्ठीरवो
मृगारिपुर्मृगदृष्टिर्मृगाशनः
॥२.५.१॥
पुण्डरीकः
पञ्चनखचित्रकायमृगद्विषः
।
शार्दूलद्वीपिनौ
व्याघ्रे
तरक्षुस्तु
मृगादनः
॥२.५.२॥
वराहः
सूकरो
घृष्टिः
कोलः
पोत्री
किरिः
किटिः
।
दंष्ट्री
घोणी
स्तब्धरोमा
क्रोडो
भूदार
इत्यपि
॥२.५.३॥
कपिप्लवङ्गप्लवगशाखामृगवलीमुखाः
।
मर्कटो
वानरः
कीशो
वनौका
अथ
भल्लुके
॥२.५.४॥
ऋक्षाच्छभल्लभल्लूका
गण्डके
खड्गखड्गिनौ
।
लुलायो
महिषो
वाहद्विषत्कासरसैरिभाः
॥२.५.५॥
स्त्रियां
शिवा
भूरिमायगोमायुमृगधूर्तकाः
।
शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः
॥२.५.६॥
ओतुर्बिडालो
मार्जारो
वृषदंशक
आखुभुक्
।
त्रयो
गौधारगौधेरगौधेया
गोधिकात्मजे
॥२.५.७॥
श्वावित्तु
शल्यस्तल्लोम्नि
शलली
शललं
शलम्
।
वातप्रमीर्वातमृगः
कोकस्त्वीहामृगो
वृकः
॥२.५.८॥
मृगे
कुरङ्गवातायुहरिणाजिनयोनयः
।
ऐणेयमेण्याश्चर्माद्यमेणस्यैणमुभे
त्रिषु
॥२.५.९॥
कदली
कन्दली
चीनश्चमूरुप्रियकावपि
।
समूरुश्चेति
हरिणा
अमी
अजिनयोनयः
॥२.५.१०॥
कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः
।
गोकर्णपृषतैणर्श्यरोहिताश्चमरो
मृगाः
॥२.५.११॥
गन्धर्वः
शरभो
रामः
सृमरो
गवयः
शशः
।
इत्यादयो
मृगेन्द्राद्या
गवाद्याः
पशुजातयः
॥२.५.१२॥
अधोगन्ता
तु
खनको
वृकः
पुंध्वज
उन्दुरः
।
उन्दुरुर्मूषकोऽप्याखुर्गिरिका
बालमूषिका
॥२.५.१३॥
सरटः
कृकलासः
स्यान्मुसली
गृहगोधिका
।
लूता
स्त्री
तन्तुवायोर्णनाभमर्कटकाः
समाः
॥२.५.१४॥
नीलङ्गुस्तु
कृमिः
कर्णजलौकाः
शतपद्युभे
।
वृश्चिकः
शूककीटः
स्यादलिद्रुणौ
तु
वृश्चिके
॥२.५.१५॥
पारावतः
कलरवः
कपोतोऽथ
शशादनः
।
पत्री
श्येन
उलूकस्तु
वायसारातिपेचकौ
॥२.५.१६॥
दिवान्धः
कौशिको
घूको
दिवाभीतो
निशाटनः
।
व्याघ्राटः
स्याद्भरद्वाजः
खञ्जरीटस्तु
खञ्जनः
॥२.५.१७॥
लोहपृष्ठस्तु
कङ्कः
स्यादथ
चाषः
किकीदिविः
।
कलिङ्गभृङ्गधूम्याटा
अथ
स्याच्छतपत्रकः
॥२.५.१८॥
दार्वाघाटोऽथ
सारङ्गस्तोककश्चातकः
समाः
।
कृकवाकुस्ताम्रचूडः
कुक्कुटश्चरणायुधः
॥२.५.१९॥
चटकः
कलविङ्कः
स्यात्तस्य
स्त्री
चटका
तयोः
।
पुमपत्ये
चाटकैरः
स्त्र्यपत्ये
चटकैव
सा
॥२.५.२०॥
कर्करेटुः
करेटुः
स्यात्कृकणक्रकरौ
समौ
।
वनप्रियः
परभृतः
कोकिलः
पिक
इत्यपि
॥२.५.२१॥
काके
तु
करटारिष्टबलिपुष्टसकृत्प्रजाः
।
ध्वाङ्क्षात्मघोषपरभृद्बलिभुग्वायसा
अपि
॥२.५.२२॥
स
एव
च
चिरञ्जीवी
चैकदृष्टिश्च
मौकुलिः
।
द्रोणकाकस्तु
काकोलो
दात्यूहः
कालकण्ठकः
॥२.५.२३॥
आतायिचिल्लौ
दाक्षाय्यगृध्रौ
कीरशुकौ
समौ
।
क्रुङ्क्रौञ्चोऽथ
बकः
कह्वः
पुष्कराह्वस्तु
सारसः
॥२.५.२४॥
कोकश्चक्रश्चक्रवाको
रथाङ्गाह्वयनामकः
।
कादम्बः
कलहंसः
स्यादुत्क्रोशकुररौ
समौ
॥२.५.२५॥
हंसास्तु
श्वेतगरुतश्चक्राङ्गा
मानसौकसः
।
राजहंसास्तु
ते
चञ्चुचरणैर्लोहितैः
सिताः
॥२.५.२६॥
मलिनैर्मल्लिकाक्षास्ते
धार्तराष्ट्राः
सितेतरैः
।
शरारिराटिराडिश्च
बलाका
बिसकण्ठिका
॥२.५.२७॥
हंसस्य
योषिद्वरटा
सारसस्य
तु
लक्ष्मणा
।
जतुकाजिनपत्रा
स्यात्परोष्णी
तैलपायिका
॥२.५.२८॥
वर्वणा
मक्षिका
नीला
सरघा
मधुमक्षिका
।
पतङ्गिका
पुत्तिका
स्याद्दंशस्तु
वनमक्षिका
॥२.५.२९॥
दंशी
तज्जातिरल्पा
स्याद्गन्धोली
वरटा
द्वयोः
।
भृङ्गारी
झीरुका
चीरी
झिल्लिका
च
समा
इमाः
॥२.५.३०॥
समौ
पतङ्गशलभौ
खद्योतो
ज्योतिरिङ्गणः
।
मधुव्रतो
मधुकरो
मधुलिण्मधुपालिनः
॥२.५.३१॥
द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः
।
मयूरो
बर्हिणो
बर्ही
नीलकण्ठो
भुजङ्गभुक्
॥२.५.३२॥
शिखावलः
शिखी
केकी
मेघनादानुलास्यपि
।
केका
वाणी
मयूरस्य
समौ
चन्द्रकमेचकौ
॥२.५.३३॥
शिखा
चूडा
शिखण्डस्तु
पिच्छबर्हे
नपुंसके
।
खगे
विहङ्गविहगविहङ्गमविहायसः
॥२.५.३४॥
शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः
।
पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः
॥२.५.३५॥
नगौकोवाजिविकिरविविष्किरपतत्रयः
।
नीडोद्भवाः
गरुत्मन्तः
पित्सन्तो
नभसङ्गमाः
॥२.५.३६॥
तेषां
विशेषा
हारीतो
मद्गुः
कारण्डवः
प्लवः
।
तित्तिरिः
कुक्कुभो
लावो
जीवञ्जीवश्च
कोरकः
॥२.५.३७॥
कोयष्टिकष्टिट्टिभको
वर्तको
वर्तिकादयः
।
गरुत्पक्षच्छदाः
पत्रं
पतत्रं
च
तनूरुहम्
॥२.५.३८॥
स्त्री
पक्षतिः
पक्षमूलं
चञ्चुस्त्रोटिरुभे
स्त्रियौ
।
प्रडीनोड्डीनसंडीनान्येताः
खगगतिक्रियाः
॥२.५.३९॥
पेशी
कोशो
द्विहीनेऽण्डं
कुलायो
नीडमस्त्रियाम्
।
पोतः
पाकोऽर्भको
डिम्भः
पृथुकः
शावकः
शिशुः
॥२.५.४०॥
स्त्रीपुंसौ
मिथुनं
द्वन्द्वं
युग्मं
तु
युगुलं
युगम्
।
समूहे
निवहव्यूहसंदोहविसरव्रजाः
॥२.५.४१॥
स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः
।
समुदायः
समुदयः
समवायश्चयो
गणः
॥२.५.४२॥
स्त्रियां
तु
संहतिर्वृन्दं
निकुरम्बं
कदम्बकम्
।
वृन्दभेदाः
समैर्वर्गः
सङ्घसार्थौ
तु
जन्तुभिः
॥२.५.४३॥
सजातीयैः
कुलं
यूथं
तिरश्चां
पुन्नपुंसकम्
।
पशूनां
समजोऽन्येषां
समाजोऽथ
सधर्मिणाम्
॥२.५.४४॥
स्यान्निकायः
पुञ्जराशी
तूत्करः
कूटमस्त्रियाम्
।
कापोतशौकमायूरतैत्तिरादीनि
तद्गणे
॥२.५.४५॥
गृहासक्ताः
पक्षिमृगाश्छेकास्ते
गृह्यकाश्च
ते
।
इति
सिंहादिवर्गः
।