अथ
मनुष्यवर्गः
।
मनुष्या
मानुषा
मर्त्या
मनुजा
मानवा
नराः
।
स्युः
पुमांसः
पञ्चजनाः
पुरुषाः
पूरुषा
नरः
॥२.६.१॥
स्त्री
योषिदबला
योषा
नारी
सीमन्तिनी
वधूः
।
प्रतीपदर्शिनी
वामा
वनिता
महिला
तथा
॥२.६.२॥
विशेषास्त्वङ्गना
भीरुः
कामिनी
वामलोचना
।
प्रमदा
मानिनी
कान्ता
ललना
च
नितम्बिनी
॥२.६.३॥
सुन्दरी
रमणी
रामा
कोपना
सैव
भामिनी
।
वरारोहा
मत्तकाशिन्युत्तमा
वरवर्णिनी
॥२.६.४॥
कृताभिषेका
महिषी
भोगिन्योऽन्या
नृपस्त्रियः
।
पत्नी
पाणिगृहीती
च
द्वितीया
सहधर्मिणी
॥२.६.५॥
भार्या
जायाथ
पुंभूम्नि
दाराः
स्यात्तु
कुटुम्बिनी
।
पुरन्ध्री
सुचरित्रा
तु
सती
साध्वी
पतिव्रता
॥२.६.६॥
कृतसापत्निकाध्यूढाधिविन्नाथ
स्वयंवरा
।
पतिंवरा
च
वर्याथ
कुलस्त्री
कुलपालिका
॥२.६.७॥
कन्या
कुमारी
गौरी
तु
नग्निकानागतार्तवा
।
स्यान्मध्यमा
दृष्टरजास्तरुणी
युवतिः
समे
॥२.६.८॥
समाः
स्नुषाजनीवध्वश्चिरिण्टी
तु
सुवासिनी
।
इच्छावती
कामुका
स्याद्वृषस्यन्ती
तु
कामुकी
॥२.६.९॥
कान्तार्थिनी
तु
या
याति
संकेतं
साभिसारिका
।
पुंश्चली
धर्षिणी
बन्धक्यसती
कुलटेत्वरी
॥२.६.१०॥
स्वैरिणी
पांसुला
च
स्यादशिश्वी
शिशुना
विना
।
अवीरा
निष्पतिसुता
विश्वस्ताविधवे
समे
॥२.६.११॥
आलिः
सखी
वयस्याथ
पतिवत्नी
सभर्तृका
।
वृद्धा
पलिक्नी
प्राज्ञी
तु
प्रज्ञा
प्राज्ञा
तु
धीमती
॥२.६.१२॥
शूद्री
शूद्रस्य
भार्या
स्याच्छूद्रा
तज्जातिरेव
च
।
आभीरी
तु
महाशूद्री
जातिपुंयोगयोः
समा
॥२.६.१३॥
अर्याणी
स्वयमर्या
स्यात्क्षत्रिया
क्षत्रियाण्यपि
।
उपाध्यायाप्युपाध्यायी
स्यादाचार्यापि
च
स्वतः
॥२.६.१४॥
आचार्यानी
तु
पुंयोगे
स्यादर्यी
क्षत्रियी
तथा
।
उपाध्यायान्युपाध्यायी
पोटा
स्त्रीपुंसलक्षणा
॥२.६.१५॥
वीरपत्नी
वीरभार्या
वीरमाता
तु
वीरसूः
।
जातापत्या
प्रजाता
च
प्रसूता
च
प्रसूतिका
॥२.६.१६॥
स्त्री
नग्निका
कोटवी
स्याद्दूतीसंचारिके
समे
।
कात्यायन्यर्धवृद्धा
या
काषायवसनाधवा
॥२.६.१७॥
सैरन्ध्री
परवेश्मस्था
स्ववशा
शिल्पकारिका
।
असिक्नी
स्यादवृद्धा
या
प्रेष्यान्तःपुरचारिणी
॥२.६.१८॥
वारस्त्री
गणिका
वेश्या
रूपाजीवाथ
सा
जनैः
।
सत्कृता
वारमुख्या
स्यात्कुट्टनी
शम्भली
समे
॥२.६.१९॥
विप्रश्निका
त्वीक्षणिका
दैवज्ञाथ
रजस्वला
।
स्त्रीधर्मिण्यविरात्रेयी
मलिनी
पुष्पवत्यपि
॥२.६.२०॥
ऋतुमत्यप्युदक्यापि
स्याद्रजः
पुष्पमार्तवम्
।
श्रद्धालुर्दोहदवती
निष्कला
विगतार्तवा
॥२.६.२१॥
आपन्नसत्त्वा
स्याद्गुर्विण्यन्तर्वत्नी
च
गर्भिणी
।
गणिकादेस्तु
गाणिक्यं
गार्भिणं
यौवतं
गणे
॥२.६.२२॥
पुनर्भूर्दिधिषूरूढा
द्विस्तस्या
दिधिषुः
पतिः
।
स
तु
द्विजोऽग्रे
दिधिषूः
सैव
यस्य
कुटुम्बिनी
॥२.६.२३॥
कानीनः
कन्यकाजातः
सुतोऽथ
सुभगासुतः
।
सौभागिनेयः
स्यात्पारस्त्रैणेयस्तु
परस्त्रियाः
॥२.६.२४॥
पैतृष्वसेयः
स्यात्पैतृष्वस्रीयश्च
पितृष्वसुः
।
सुता
मातृष्वसुश्चैवं
वैमात्रेयो
विमातृजः
॥२.६.२५॥
अथ
बान्धकिनेयः
स्याद्बन्धुलश्चासतीसुतः
।
कौलटेरः
कौलटेयो
भिक्षुकी
तु
सती
यदि
॥२.६.२६॥
तदा
कौलटिनेयोऽस्याः
कौलटेयोऽपि
चात्मजः
।
आत्मजस्तनयः
सूनुः
सुतः
पुत्रः
स्त्रियां
त्वमी
॥२.६.२७॥
आहुर्दुहितरं
सर्वेऽपत्यं
तोकं
तयोः
समे
।
स्वजाते
त्वौरसोरस्यौ
तातस्तु
जनकः
पिता
॥२.६.२८॥
जनयित्री
प्रसूर्माता
जननी
भगिनी
स्वसा
।
ननान्दा
तु
स्वसा
पत्युर्नप्त्री
पौत्री
सुतात्मजा
॥२.६.२९॥
भार्यास्तु
भ्रातृवर्गस्य
यातरः
स्युः
परस्परम्
।
प्रजावती
भ्रातृजाया
मातुलानी
तु
मातुली
॥२.६.३०॥
पतिपत्न्योः
प्रसूः
श्वश्रूः
श्वशुरस्तु
पिता
तयोः
।
पितुर्भ्राता
पितृव्यः
स्यान्मातुर्भ्राता
तु
मातुलः
॥२.६.३१॥
श्यालाः
स्युर्भ्रातरः
पत्न्याः
स्वामिनो
देवृदेवरौ
।
स्वस्रीयो
भागिनेयः
स्याज्जामाता
दुहितुः
पतिः
॥२.६.३२॥
पितामहः
पितृपिता
तत्पिता
प्रपितामहः
।
मातुर्मातामहाद्येवं
सपिण्डास्तु
सनाभयः
॥२.६.३३॥
समानोदर्यसोदर्यसगर्भ्यसहजाः
समाः
।
सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः
समाः
॥२.६.३४॥
ज्ञातेयं
बन्धुता
तेषां
क्रमाद्भावसमूहयोः
।
धवः
प्रियः
पतिर्भर्ता
जारस्तूपपतिः
समौ
॥२.६.३५॥
अमृते
जारजः
कुण्डो
मृते
भर्तरि
गोलकः
।
भ्रात्रीयो
भ्रातृजो
भ्रातृभगिन्यौ
भ्रातरावुभौ
॥२.६.३६॥
मातापितरौ
पितरौ
मातरपितरौ
प्रसूजनयितारौ
।
श्वश्रूश्वशुरौ
श्वशुरौ
पुत्रौ
पुत्रश्च
दुहिता
च
॥२.६.३७॥
दम्पती
जम्पती
जायापती
भार्यापती
च
तौ
।
गर्भाशयो
जरायुः
स्यादुल्बं
च
कललोऽस्त्रियाम्
॥२.६.३८॥
सूतिमासो
वैजननो
गर्भो
भ्रूण
इमौ
समौ
।
तृतीया
प्रकृतिः
शण्ढः
क्लीबः
पण्डो
नपुंसके
॥२.६.३९॥
शिशुत्वं
शैशवं
बाल्यं
तारुण्यं
यौवनं
समे
।
स्यात्स्थाविरं
तु
वृद्धत्वं
वृद्धसंघेऽपि
वार्धकम्
॥२.६.४०॥
पलितं
जरसा
शौक्ल्यं
केशादौ
विस्रसा
जरा
।
स्यादुत्तानशया
डिम्भा
स्तनपा
च
स्तनन्धयी
॥२.६.४१॥
बालस्तु
स्यान्माणवको
वयस्थस्तरुणो
युवा
।
प्रवयाः
स्थविरो
वृद्धो
जीनो
जीर्णो
जरन्नपि
॥२.६.४२॥
वर्षीयान्दशमी
ज्यायान्पूर्वजस्त्वग्रियोऽग्रजः
।
जघन्यजे
स्युः
कनिष्ठयवीयोऽवरजानुजाः
॥२.६.४३॥
अमांसो
दुर्बलश्छातो
बलवान्मांसलोंऽसलः
।
तुन्दिलस्तुन्दिभस्तुन्दी
बृहत्कुक्षिः
पिचण्डिलः
॥२.६.४४॥
अवटीटोऽवनाटश्चावभ्रटो
नतनासिके
।
केशवः
केशिकः
केशी
वलिनो
वलिभः
समौ
॥२.६.४५॥
विकलाङ्गस्त्वपोगण्डः
खर्वो
ह्रस्वश्च
वामनः
।
खरणाः
स्यात्खरणसो
विग्रस्तु
गतनासिकः
॥२.६.४६॥
खुरणाः
स्यात्खुरणसः
प्रज्ञुः
प्रगतजानुकः
।
ऊर्ध्वज्ञुरूर्ध्वजानुः
स्यात्संज्ञुः
संहतजानुकः
॥२.६.४७॥
स्यादेडे
बधिरः
कुब्जे
गडुलः
कुकरे
कुणिः
।
पृश्निरल्पतनौ
श्रोणः
पङ्गौ
मुण्डस्तु
मुण्डिते
॥२.६.४८॥
वलिरः
केकरे
खोडे
खञ्जस्त्रिषु
जरावराः
।
जडुलः
कालकः
पिप्लुस्तिलकस्तिलकालकः
॥२.६.४९॥
अनामयं
स्यादारोग्यं
चिकित्सा
रुक्प्रतिक्रिया
।
भेषजौषधभैषज्यान्यगदो
जायुरित्यपि
॥२.६.५०॥
स्त्री
रुग्रुजा
चोपतापरोगव्याधिगदामयाः
।
क्षयः
शोषश्च
यक्ष्मा
च
प्रतिश्यायस्तु
पीनसः
॥२.६.५१॥
स्त्री
क्षुत्क्षुतं
क्षवः
पुंसि
कासस्तु
क्षवथुः
पुमान्
।
शोफस्तु
श्वयथुः
शोथः
पादस्फोटो
विपादिका
॥२.६.५२॥
किलाससिध्मे
कच्छ्वां
तु
पाम
पामा
विचर्चिका
।
कण्डूः
खर्जूश्च
कण्डूया
विस्फोटः
पिटकः
स्त्रियाम्
॥२.६.५३॥
व्रणोऽस्त्रियामीर्ममरुः
क्लीबे
नाडीव्रणः
पुमान्
।
कोठो
मण्डलकं
कुष्ठश्वित्रे
दुर्नामकार्शसी
॥२.६.५४॥
आनाहस्तु
निबन्धः
स्याद्ग्रहणीरुक्प्रवाहिका
।
प्रच्छर्दिका
वमिश्च
स्त्री
पुमांस्तु
वमथुः
समाः
॥२.६.५५॥
व्याधिभेदा
विद्रधिः
स्त्री
ज्वरमेहभगन्दराः
।
श्लीपदं
पादवल्मीकं
केशघ्नस्त्विन्द्रलुप्तकः
॥२.६.५६॥
अश्मरी
मूत्रकृच्छ्रं
स्यात्पूर्वे
शुक्रावधेस्त्रिषु
।
रोगहार्यगदङ्कारो
भिषग्वैद्यौ
चिकित्सके
॥२.६.५७॥
वार्तो
निरामयः
कल्य
उल्लाघो
निर्गतो
गदात्
।
ग्लानग्लास्नू
आमयावी
विकृतो
व्याधितोऽपटुः
॥२.६.५८॥
आतुरोऽभ्यमितोऽभ्यान्तः
समौ
पामनकच्छुरौ
।
दद्रुणो
दद्रुरोगी
स्यादर्शोरोगयुतोऽर्शसः
॥२.६.५९॥
वातकी
वातरोगी
स्यात्सातिसारोऽतिसारकी
।
स्युः
क्लिन्नाक्षे
चुल्लचिल्लपिल्लाः
क्लिन्नेऽक्ष्णि
चाप्यमी
॥२.६.६०॥
उन्मत्त
उन्मादवति
श्लेष्मलः
श्लेष्मणः
कफी
।
न्युब्जो
भुग्ने
रुजा
वृद्धनाभौ
तुन्दिलतुन्दिभौ
॥२.६.६१॥
किलासी
सिध्मलोऽन्धोऽदृङ्मूर्च्छाले
मूर्तमूर्च्छितौ
।
शुक्रं
तेजोरेतसी
च
बीजवीर्येन्द्रियाणि
च
॥२.६.६२॥
मायुः
पित्तं
कफः
श्लेष्मा
स्त्रियां
तु
त्वगसृग्धरा
।
पिशितं
तरसं
मांसं
पललं
क्रव्यमामिषम्
॥२.६.६३॥
उत्ततप्तं
शुष्कमांसं
स्यात्तद्वल्लूरं
त्रिलिङ्गकम्
।
रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्
॥२.६.६४॥
बुक्काग्रमांसं
हृदयं
हृन्मेदस्तु
वपा
वसा
।
पश्चाद्ग्रीवाशिरा
मन्या
नाडी
तु
धमनिः
शिरा
॥२.६.६५॥
तिलकं
क्लोम
मस्तिष्कं
गोर्दं
किट्टं
मलोऽस्त्रियाम्
।
अन्त्रं
पुरीतद्गुल्मस्तु
प्लीहा
पुंस्यथ
वस्नसा
॥२.६.६६॥
स्नायुः
स्त्रियां
कालखण्डयकृती
तु
समे
इमे
।
सृणिका
स्यन्दिनी
लाला
दूषिका
नेत्रयोर्मलम्
॥२.६.६७॥
नासामलं
तु
सिङ्घाणं
पिञ्जूषं
कर्णयोर्मलम्
।
मूत्रं
प्रस्राव
उच्चारावस्करौ
शमलं
शकृत्
॥२.६.६८॥
पुरीषं
गूथवर्चस्कमस्त्री
विष्ठाविशौ
स्त्रियौ
।
स्यात्कर्परः
कपालोऽस्त्री
कीकसं
कुल्यमस्थि
च
॥२.६.६९॥
स्याच्छरीरास्थ्नि
कङ्कालः
पृष्ठास्थ्नि
तु
कशेरुका
।
शिरोस्थनि
करोटिः
स्त्री
पार्श्वास्थनि
तु
पर्शुका
॥२.६.७०॥
अङ्गं
प्रतीकोऽवयवोऽपघनोऽथ
कलेवरम्
।
गात्रं
वपुः
संहननं
शरीरं
वर्ष्म
विग्रहः
॥२.६.७१॥
कायो
देहः
क्लीबपुंसोः
स्त्रियां
मूर्तिस्तनुस्तनूः
।
पादाग्रं
प्रपदं
पादः
पदङ्घ्रिश्चरणोऽस्त्रियाम्
॥२.६.७२॥
तद्ग्रन्थी
घुटिके
गुल्फौ
पुमान्पार्ष्णिस्तयोरधः
।
जङ्घा
तु
प्रसृता
जानूरुपर्वाष्ठीवदस्त्रियाम्
॥२.६.७३॥
सक्थि
क्लीबे
पुमानूरुस्तत्सन्धिः
पुंसि
वङ्क्षणः
।
गुदं
त्वपानं
पायुर्ना
वस्तिर्नाभेरधो
द्वयोः
॥२.६.७४॥
कटो
ना
श्रोणिफलकं
कटिः
श्रोणिः
ककुद्मती
।
पश्चान्नितम्बः
स्त्रीकट्याः
क्लीबे
तु
जघनं
पुरः
॥२.६.७५॥
कूपकौ
तु
नितम्बस्थौ
द्वयहीने
ककुन्दरे
।
स्त्रियाम्स्फिचौ
कटिप्रोथावुपस्थो
वक्ष्यमाणयोः
॥२.६.७६॥
भगं
योनिर्द्वयोः
शिश्नो
मेढ्रो
मेहनशेफसी
।
मुष्कोऽण्डकोशो
वृषणः
पृष्ठवंशाधरे
त्रिकम्
॥२.६.७७॥
पिचण्डकुक्षी
जठरोदरं
तुन्दं
स्तनौ
कुचौ
।
चूचुकं
तु
कुचाग्रं
स्यान्न
ना
क्रोडं
भुजान्तरम्
॥२.६.७८॥
उरो
वत्सं
च
वक्षश्च
पृष्ठं
तु
चरमं
तनोः
।
स्कन्धो
भुजशिरोंऽसोऽस्त्री
सन्धी
तस्यैव
जत्रुणी
॥२.६.७९॥
बाहुमूले
उभे
कक्षौ
पार्श्वमस्त्री
तयोरधः
।
मध्यमं
चावलग्नं
च
मध्योऽस्त्री
द्वौ
परौ
द्वयोः
॥२.६.८०॥
भुजबाहू
प्रवेष्टो
दोः
स्यात्कफोणिस्तु
कूर्परः
।
अस्योपरि
प्रगण्डः
स्यात्प्रकोष्ठस्तस्य
चाप्यधः
॥२.६.८१॥
मणीबन्धादाकनिष्ठं
करस्य
करभो
बहिः
।
पञ्चशाखः
शयः
पाणिस्तर्जनी
स्यात्प्रदेशिनी
॥२.६.८२॥
अङ्गुल्यः
करशाखाः
स्युः
पुंस्यङ्गुष्ठः
प्रदेशिनी
।
मध्यमानामिका
चापि
कनिष्ठा
चेति
ताः
क्रमात्
॥२.६.८३॥
पुनर्भवः
कररुहो
नखोऽस्त्री
नखरोऽस्त्रियाम्
।
प्रादेशतालगोकर्णास्तर्जन्यादियुते
तते
॥२.६.८४॥
अङ्गुष्ठे
सकनिष्ठे
स्याद्वितस्तिर्द्वादशाङ्गुलः
।
पाणौ
चपेटप्रतलप्रहस्ता
विस्तृताङ्गुलौ
॥२.६.८५॥
द्वौ
संहतौ
संहतलप्रतलौ
वामदक्षिणौ
।
पाणिर्निकुब्जः
प्रसृतिस्तौ
युतावञ्जलिः
पुमान्
॥२.६.८६॥
प्रकोष्ठे
विस्तृतकरे
हस्तो
मुष्ट्या
तु
बद्धया
।
स
रत्निः
स्यादरत्निस्तु
निष्कनिष्ठेन
मुष्टिना
॥२.६.८७॥
व्यामो
बाह्वोः
सकरयोस्ततयोस्तिर्यगन्तरम्
।
ऊर्ध्वविस्तृतदोः
पाणिनृमाने
पौरुषं
त्रिषु
॥२.६.८८॥
कण्ठो
गलोऽथ
ग्रीवायां
शिरोधिः
कन्धरेत्यपि
।
कम्बुग्रीवा
त्रिरेखा
सावटुर्घाटा
कृकाटिका
॥२.६.८९॥
वक्त्रास्ये
वदनं
तुण्डमाननं
लपनं
मुखम्
।
क्लीबे
घ्राणं
गन्धवहा
घोणा
नासा
च
नासिका
॥२.६.९०॥
ओष्ठाधरौ
तु
रदनच्छदौ
दशनवाससी
।
अधस्ताच्चिबुकं
गण्डौ
कपोलौ
तत्परा
हनुः
॥२.६.९१॥
रदना
दशना
दन्ता
रदास्तालु
तु
काकुदम्
।
रसज्ञा
रसना
जिह्वा
प्रान्तावोष्ठस्य
सृक्किणी
॥२.६.९२॥
ललाटमलिकं
गोधिरूर्ध्वे
दृग्भ्यां
भ्रुवौ
स्त्रियौ
।
कूर्चमस्त्री
भ्रुवोर्मध्यं
तारकाक्ष्णः
कनीनिका
॥२.६.९३॥
लोचनं
नयनं
नेत्रमीक्षणं
चक्षुरक्षिणी
।
दृग्दृष्टी
चास्रु
नेत्राम्बु
रोदनं
चास्रमश्रु
च
॥२.६.९४॥
अपाङ्गौ
नेत्रयोरन्तौ
कटाक्षोऽपाङ्गदर्शने
।
कर्णशब्दग्रहौ
श्रोत्रं
श्रुतिः
स्त्री
श्रवणं
श्रवः
॥२.६.९५॥
उत्तमाङ्गं
शिरः
शीर्षं
मूर्धा
ना
मस्तकोऽस्त्रियाम्
।
चिकुरः
कुन्तलो
वालः
कचः
केशः
शिरोरुहः
॥२.६.९६॥
तद्वृन्दे
कैशिकं
कैश्यमलकाश्चूर्णकुन्तलाः
।
ते
ललाटे
भ्रमरकाः
काकपक्षः
शिखण्डकः
॥२.६.९७॥
कबरी
केशवेशोऽथ
धम्मिल्लः
संयताः
कचाः
।
शिखा
चूडा
केशपाशी
व्रतिनस्तु
सटा
जटा
॥२.६.९८॥
वेणी
प्रवेणी
शीर्षण्यशिरस्यौ
विशदे
कचे
।
पाशः
पक्षश्च
हस्तश्च
कलापार्थाः
कचात्परे
॥२.६.९९॥
तनूरुहं
रोम
लोम
तद्वृद्धौ
श्मश्रु
पुम्मुखे
।
आकल्पवेषौ
नेपथ्यं
प्रतिकर्म
प्रसाधनम्
॥२.६.१००॥
दशैते
त्रिष्वलङ्कर्तालङ्करिष्णुश्च
मण्डितः
।
प्रसाधितोऽलङ्कृतश्च
भूषितश्च
परिष्कृतः
॥२.६.१०१॥
विभ्राड्भ्राजिष्णुरोचिष्णू
भूषणं
स्यादलङ्क्रिया
।
अलङ्कारस्त्वाभरणं
परिष्कारो
विभूषणम्
॥२.६.१०२॥
मण्डनं
चाथ
मुकुटं
किरीटं
पुन्नपुंसकम्
।
चूडामणिः
शिरोरत्नं
तरलो
हारमध्यमगः
॥२.६.१०३॥
वालपाश्या
पारितथ्या
पत्रपाश्या
ललाटिका
।
कर्णिका
तालपत्रं
स्यात्कुण्डलं
कर्णवेष्टनम्
॥२.६.१०४॥
ग्रैवेयकं
कण्ठभूषा
लम्बनं
स्याल्ललन्तिका
।
स्वर्णैः
प्रालम्बिकाथोरः
सूत्रिका
मौक्तिकैः
कृता
॥२.६.१०५॥
हारो
मुक्तावली
देवच्छन्दोऽसौ
शतयष्टिका
।
हारभेदा
यष्टिभेदाद्गुच्छगुच्छार्धगोस्तनाः
॥२.६.१०६॥
अर्धहारो
माणवक
एकावल्येकयष्टिका
।
सैव
नक्षत्रमाला
स्यात्सप्तविंशतिमौक्तिकैः
॥२.६.१०७॥
आवापकः
पारिहार्यः
कटको
वलयोऽस्त्रियाम्
।
केयूरमङ्गदं
तुल्ये
अङ्गुलीयकमूर्मिका
॥२.६.१०८॥
साक्षराङ्गुलिमुद्रा
स्यात्कङ्कणं
करभूषणम्
।
स्त्रीकट्यां
मेखला
काञ्ची
सप्तमी
रशना
तथा
॥२.६.१०९॥
क्लीबे
सारसनं
चाथ
पुंस्कट्यां
शृङ्खलं
त्रिषु
।
पादाङ्गदं
तुलाकोटिर्मञ्जीरो
नूपुरोऽस्त्रियाम्
॥२.६.११०॥
हंसकः
पादकटकः
किङ्किणी
क्षुद्रघण्टिका
।
त्वक्फलकृमिरोमाणि
वस्त्रयोनिर्दश
त्रिषु
॥२.६.१११॥
वाल्कं
क्षौमादि
फालं
तु
कार्पासं
बादरं
च
तत्
।
कौशेयं
कृमिकोशोत्थं
राङ्कवं
मृगरोमजम्
॥२.६.११२॥
अनाहतं
निष्प्रवाणि
तन्त्रकं
च
नवाम्बरे
।
तत्स्यादुद्गमनीयं
यद्धौतयोर्वस्त्रयोर्युगम्
॥२.६.११३॥
पत्रोर्णं
धौतकौशेयं
बहुमूल्यं
महाधनम्
।
क्षौमं
दुकूलं
स्याद्द्वे
तु
निवीतं
प्रावृतं
त्रिषु
॥२.६.११४॥
स्त्रियां
बहुत्वे
वस्त्रस्य
दशाः
स्युर्वस्तयोर्द्वयोः
।
दैर्घ्यमायाम
आरोहः
परिणाहो
विशालता
॥२.६.११५॥
पटच्चरं
जीर्णवस्त्रं
समौ
नक्तककर्पटौ
।
वस्त्रमाच्छादनं
वासश्चैलं
वसनमंशुकम्
॥२.६.११६॥
सुचेलकः
पटोऽस्त्री
स्याद्वराशिः
स्थूलशाटकः
।
निचोलः
प्रच्छदपटः
समौ
रल्लककम्बलौ
॥२.६.११७॥
अन्तरीयोपसंव्यानपरिधानान्यधोंशुके
।
द्वौ
प्रावारोत्तरासङ्गौ
समौ
बृहतिका
तथा
॥२.६.११८॥
संव्यानमुत्तरीयं
च
चोलः
कूर्पासकोऽस्त्रियाम्
।
नीशारः
स्यात्प्रावरणे
हिमानिलनिवारणे
॥२.६.११९॥
अर्धोरुकं
वरस्त्रीणां
स्याच्चण्डातकमस्त्रियाम्
।
स्यात्त्रिष्वाप्रपदीनं
तत्प्राप्नोत्याप्रपदं
हि
यत्
॥२.६.१२०॥
अस्त्री
वितानमुल्लोचो
दूष्याद्यं
वस्त्रवेश्मनि
।
प्रतिसीरा
जवनिका
स्यात्तिरस्करिणी
च
सा
॥२.६.१२१॥
परिकर्माङ्गसंस्कारः
स्यान्मार्ष्टिर्मार्जना
मृजा
।
उद्वर्तनोत्सादने
द्वे
समे
आप्लाव
आप्लवः
॥२.६.१२२॥
स्नानं
चर्चा
तु
चार्चिक्यं
स्थासकोऽथ
प्रबोधनम्
।
अनुबोधः
पत्रलेखा
पत्राङ्गुलिरिमे
समे
॥२.६.१२३॥
तमालपत्रतिलकचित्रकाणि
विशेषकम्
।
द्वितीयं
च
तुरीयं
च
न
स्त्रियामथ
कुङ्कुमम्
॥२.६.१२४॥
काश्मीरजन्माग्निशिखं
वरं
वाह्लीकपीतने
।
रक्तसंकोचपिशुनं
धीरं
लोहितचन्दनम्
॥२.६.१२५॥
लाक्षा
राक्षा
जतु
क्लीबे
यावोऽलक्तो
द्रुमामयः
।
लवङ्गं
देवकुसुमं
श्रीसंज्ञमथ
जायकम्
॥२.६.१२६॥
कालीयकं
च
कालानुसार्यं
चाथ
समार्थकम्
।
वंशिकागुरुराजार्हलोहकृमिजजोङ्गकम्
॥२.६.१२७॥
कालागुर्वगुरु
स्यात्तु
मङ्गल्या
मल्लिगन्धि
यत्
।
यक्षधूपः
सर्जरसो
रालसर्वरसावपि
॥२.६.१२८॥
बहुरूपोऽप्यथ
वृकधूपकृत्रिमधूपकौ
।
तुरुष्कः
पिण्डकः
सिह्लो
यावनोऽप्यथ
पायसः
॥२.६.१२९॥
श्रीवासो
वृकधूपोऽपि
श्रीवेष्टसरलद्रवौ
।
मृगनाभिर्मृगमदः
कस्तूरी
चाथ
कोलकम्
॥२.६.१३०॥
कक्कोलकं
कोशफलमथ
कर्पूरमस्त्रियाम्
।
घनसारश्चन्द्रसंज्ञः
सिताभ्रो
हिमवालुका
॥२.६.१३१॥
गन्धसारो
मलयजो
भद्रश्रीश्चन्दनोऽस्त्रियाम्
।
तैलपर्णिकगोशीर्षे
हरिचन्दनमस्त्रियाम्
॥२.६.१३२॥
तिलपर्णी
तु
पत्राङ्गं
रञ्जनं
रक्तचन्दनम्
।
कुचन्दनं
चाथ
जातीकोशजातीफले
समे
॥२.६.१३३॥
कर्पूरागुरुकस्तूरीकक्कोलैर्यक्षकर्दमः
।
गात्रानुलेपनी
वर्तिर्वर्णकं
स्याद्विलेपनम्
॥२.६.१३४॥
चूर्णानि
वासयोगाः
स्युर्भावितं
वासितं
त्रिषु
।
संस्कारो
गन्धमाल्याद्यैर्यः
स्यात्तदधिवासनम्
॥२.६.१३५॥
माल्यं
मालास्रजौ
मूर्ध्नि
केशमध्ये
तु
गर्भकः
।
प्रभ्रष्टकं
शिखालम्बि
पुरोन्यस्तं
ललामकम्
॥२.६.१३६॥
प्रालम्बमृजुलम्बि
स्यात्कण्ठाद्वैकक्षिकं
तु
तत्
।
यत्तिर्यक्क्षिप्तमुरसि
शिखास्वापीडशेखरौ
॥२.६.१३७॥
रचना
स्यात्परिस्यन्द
आभोगः
परिपूर्णता
।
उपधानं
तूपबर्हः
शय्यायां
शयनीयवत्
॥२.६.१३८॥
शयनं
मञ्चपर्यङ्कपल्यङ्काः
खट्वया
समाः
।
गेन्दुकः
कन्दुको
दीपः
प्रदीपः
पीठमासनम्
॥२.६.१३९॥
समुद्गकः
सम्पुटकः
प्रतिग्राहः
पतद्ग्रहः
।
प्रसाधनी
कङ्कतिका
पिष्टातः
पटवासकः
॥२.६.१४०॥
दर्पणे
मुकुरादर्शौ
व्यजनं
तालवृन्तकम्
।
इति
मनुष्यवर्गः
।