अथ
क्षत्रियवर्गः
।
मूर्धाभिषिक्तो
राजन्यो
बाहुजः
क्षत्रियो
विराट्
।
राजा
राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः
॥२.८.१॥
राजा
तु
प्रणताशेषसामन्तः
स्यादधीश्वरः
।
चक्रवर्ती
सार्वभौमो
नृपोऽन्यो
मण्डलेश्वरः
॥२.८.२॥
येनेष्टं
राजसूयेन
मण्डलस्येश्वरश्च
यः
।
शास्ति
यश्चाज्ञया
राज्ञः
स
सम्राडथ
राजकम्
॥२.८.३॥
राजन्यकं
च
नृपतिक्षत्रियाणां
गणे
क्रमात्
।
मन्त्री
धीसचिवोऽमात्योऽन्ये
कर्मसचिवास्ततः
॥२.८.४॥
महामात्राः
प्रधानानि
पुरोधास्तु
पुरोहितः
।
द्रष्टरि
व्यवहाराणां
प्राड्विवाकाक्षदर्शकौ
॥२.८.५॥
प्रतीहारो
द्वारपालद्वास्थद्वास्थितदर्शकाः
।
रक्षिवर्गस्त्वनीकस्थोऽथाध्यक्षाधिकृतौ
समौ
॥२.८.६॥
स्थायुकोऽधिकृतो
ग्रामे
गोपो
ग्रामेषु
भूरिषु
।
भौरिकः
कनकाध्यक्षो
रूप्याध्यक्षस्तु
नैष्किकः
॥२.८.७॥
अन्तःपुरे
त्वधिकृतः
स्यादन्तर्वंशिको
जनः
।
सौविदल्लाः
कञ्चुकिनः
स्थापत्याः
सौविदाश्च
ते
॥२.८.८॥
शण्ढो
वर्षवरस्तुल्यौ
सेवकार्थ्यनुजीविनः
।
विषयानन्तरो
राजा
शत्रुर्मित्रमतः
परम्
॥२.८.९॥
उदासीनः
परतरः
पार्ष्णिग्राहस्तु
पृष्ठतः
।
रिपौ
वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः
॥२.८.१०॥
द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः
।
अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः
॥२.८.११॥
वयस्यः
स्निग्धः
सवया
अथ
मित्रं
सखा
सुहृत्
।
सख्यं
साप्तपदीनं
स्यादनुरोधोऽनुवर्तनम्
॥२.८.१२॥
यथार्हवर्णः
प्रणिधिरपसर्पश्चरः
स्पशः
।
चारश्च
गूढपुरुषश्चाप्तप्रत्ययितौ
समौ
॥२.८.१३॥
सांवत्सरो
ज्यौतिषिको
दैवज्ञगणकावपि
।
स्युर्मौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका
अपि
॥२.८.१४॥
तान्त्रिको
ज्ञातसिद्धान्तः
सत्री
गृहपतिः
समौ
।
लिपिकारोऽक्षरचरणोऽक्षरचुञ्चुश्च
लेखके
॥२.८.१५॥
लिखिताक्षरविन्यासे
लिपिर्लिबिरुभे
स्त्रियौ
।
स्यात्सन्देशहरो
दूतो
दूत्यं
तद्भावकर्मणी
॥२.८.१६॥
अध्वनीनोऽध्वगोऽध्वन्यः
पान्थः
पथिक
इत्यपि
।
स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि
च
॥२.८.१७॥
राज्याङ्गानि
प्रकृतयः
पौराणां
श्रेणयोऽपि
च
।
सन्धिर्ना
विग्रहो
यानमासनं
द्वैधमाश्रयः
॥२.८.१८॥
षड्गुणा:
शक्तयस्तिस्रः
प्रभावोत्साहमन्त्रजाः
।
क्षयः
स्थानं
च
वृद्धिश्च
त्रिवर्गो
नीतिवेदिनाम्
॥२.८.१९॥
स
प्रतापः
प्रभावश्च
यत्तेजः
कोशदण्डजम्
।
भेदो
दण्डः
साम
दानमित्युपायचतुष्टयम्
॥२.८.२०॥
साहसं
तु
दमो
दण्डः
साम
सान्त्वमथो
समौ
।
भेदोपजापावुपधा
धर्माद्यैर्यत्परीक्षणम्
॥२.८.२१॥
पञ्च
त्रिष्वषडक्षीणो
यस्तृतीयाद्यगोचरः
।
विविक्तविजनच्छन्ननिःशलाकास्तथा
रहः
॥२.८.२२॥
रहश्चोपांशु
चालिङ्गे
रहस्यं
तद्भवे
त्रिषु
।
समौ
विस्रम्भविश्वासौ
भ्रेषो
भ्रंशो
यथोचितात्
॥२.८.२३॥
अभ्रेषन्यायकल्पास्तु
देशरूपं
समञ्जसम्
।
युक्तमौपयिकं
लभ्यं
भजमानाभिनीतवत्
॥२.८.२४॥
न्याय्यं
च
त्रिषु
षट्संप्रधारणा
तु
समर्थनम्
।
अववादस्तु
निर्देशो
निदेशः
शासनं
च
सः
॥२.८.२५॥
शिष्टिश्चाज्ञा
च
संस्था
तु
मर्यादा
धारणा
स्थितिः
।
आगोऽपराधो
मन्तुश्च
समे
तूद्दानबन्धने
॥२.८.२६॥
द्विपाद्यो
द्विगुणो
दण्डो
भागधेयः
करो
बलिः
।
घट्टादिदेयं
शुल्कोऽस्त्री
प्राभृतं
तु
प्रदेशनम्
॥२.८.२७॥
उपायनमुपग्राह्यमुपहारस्तथोपदा
।
यौतकादि
तु
यद्देयं
सुदायो
हरणं
च
तत्
॥२.८.२८॥
तत्कालस्तु
तदात्वं
स्यादुत्तरः
काल
आयतिः
।
सांदृष्टिकं
फलं
सद्य
उदर्कः
फलमुत्तरम्
॥२.८.२९॥
अदृष्टं
वह्नितोयादि
दृष्टं
स्वपरचक्रजम्
।
महीभुजामहिभयं
स्वपक्षप्रभवं
भयम्
॥२.८.३०॥
प्रक्रिया
त्वधिकारः
स्याच्चामरं
तु
प्रकीर्णकम्
।
नृपासनं
यत्तद्भद्रासनं
सिंहासनं
तु
तत्
॥२.८.३१॥
हैमं
छत्रं
त्वातपत्रं
राज्ञस्तु
नृपलक्ष्म
तत्
।
भद्रकुम्भः
पूर्णकुम्भो
भृङ्गारः
कनकालुका
॥२.८.३२॥
निवेशः
शिबिरं
षण्ढे
सज्जनं
तूपरक्षणम्
।
हस्त्यश्वरथपादातं
सेनाङ्गं
स्याच्चतुष्टयम्
॥२.८.३३॥
दन्ती
दन्तावलो
हस्ती
द्विरदोऽनेकपो
द्विपः
।
मतङ्गजो
गजो
नागः
कुञ्जरो
वारणः
करी
॥२.८.३४॥
इभः
स्तम्बेरमः
पद्मी
यूथनाथस्तु
यूथपः
।
मदोत्कटो
मदकलः
कलभः
करिशावकः
॥२.८.३५॥
प्रभिन्नो
गर्जितो
मत्तः
समावुद्वान्तनिर्मदौ
।
हास्तिकं
गजता
वृन्दे
करिणी
धेनुका
वशा
॥२.८.३६॥
गण्डः
कटो
मदो
दानं
वमथुः
करशीकरः
।
कुम्भौ
तु
पिण्डौ
शिरसस्तयोर्मध्ये
विदुः
पुमान्
॥२.८.३७॥
अवग्रहो
ललाटं
स्यादीषिका
त्वक्षिकूटकम्
।
अपाङ्गदेशो
निर्याणं
कर्णमूलं
तु
चूलिका
॥२.८.३८॥
अधः
कुम्भस्य
वाहित्थं
प्रतिमानमधोऽस्य
यत्
।
आसनं
स्कन्धदेशः
स्यात्पद्मकं
बिन्दुजालकम्
॥२.८.३९॥
पार्श्वभागः
पक्षभागो
दन्तभागस्तु
योऽग्रतः
।
द्वौ
पूर्वपश्चाज्जङ्घादिदेशौ
गात्रावरे
क्रमात्
॥२.८.४०॥
तोत्रं
वेणुकमालानं
बन्धस्तम्भेऽथ
शृङ्खले
।
अन्दुको
निगडोऽस्त्री
स्यादङ्कुशोऽस्त्री
सृणिः
स्त्रियाम्
॥२.८.४१॥
दूष्या
कक्ष्या
वरत्रा
स्यात्कल्पना
सज्जना
समे
।
प्रवेण्यास्तरणं
वर्णः
परिस्तोमः
कुथो
द्वयोः
॥२.८.४२॥
वीतं
त्वसारं
हस्त्यश्वं
वारी
तु
गजबन्धनी
।
घोटके
वीतितुरगतुरङ्गाश्वतुरङ्गमाः
॥२.८.४३॥
वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः
।
आजानेयाः
कुलीनाः
स्युर्विनीताः
साधुवाहिनः
॥२.८.४४॥
वनायुजाः
पारसीकाः
काम्बोजाः
बाह्लिका
हयाः
।
ययुरश्वोऽश्वमेधीयो
जवनस्तु
जवाधिकः
॥२.८.४५॥
पृष्ठ्यः
स्थौरी
सितः
कर्को
रथ्यो
वोढा
रथस्य
यः
।
बालः
किशोरो
वाम्यश्वा
वडवा
वाडवं
गणे
॥२.८.४६॥
त्रिष्वाश्वीनं
यदश्वेन
दिनेनैकेन
गम्यते
।
कश्यं
तु
मध्यमश्वानां
हेषा
ह्रेषा
च
निस्वनः
॥२.८.४७॥
निगालस्तु
गलोद्देशो
वृन्दे
त्वश्वीयमश्ववत्
।
आस्कन्दितं
धौरितकं
रेचितम्वल्गितं
प्लुतम्
॥२.८.४८॥
गतयोऽमूः
पञ्च
धारा
घोणा
तु
प्रोथमस्त्रियाम्
।
कविका
तु
खलीनोऽस्त्री
शफं
क्लीबे
खुरः
पुमान्
॥२.८.४९॥
पुच्छोऽस्त्री
लूमलाङ्गूले
वालहस्तश्च
वालधिः
।
त्रिषूपावृत्तलुठितौ
परावृत्ते
मुहुर्भुवि
॥२.८.५०॥
याने
चक्रिणि
युद्धार्थे
शताङ्गः
स्यन्दनो
रथः
।
असौ
पुष्परथश्चक्रयानं
न
समराय
यत्
॥२.८.५१॥
कर्णीरथः
प्रवहणं
डयनं
च
समं
त्रयम्
।
क्लीबेऽनः
शकटोऽस्त्री
स्याद्गन्त्री
कम्बलिवाह्यकम्
॥२.८.५२॥
शिबिका
याप्ययानं
स्याद्दोला
प्रेङ्खादिका
स्त्रियाम्
।
उभौ
तु
द्वैपवैयाघ्रौ
द्वीपिचर्मावृते
रथे
॥२.८.५३॥
पाण्डुकम्बलसंवीतः
स्यन्दनः
पाण्डुकम्बली
।
रथे
काम्बलवास्त्राद्याः
कम्बलादिभिरावृते
॥२.८.५४॥
त्रिषु
द्वैपादयो
रथ्या
रथकट्या
रथव्रजे
।
धूः
स्त्री
क्लीबे
यानमुखं
स्याद्रथाङ्गमपस्करः
॥२.८.५५॥
चक्रं
रथाङ्गं
तस्यान्ते
नेमिः
स्त्री
स्यात्प्रधिः
पुमान्
।
पिण्डिका
नाभिरक्षाग्रकीलके
तु
द्वयोरणिः
॥२.८.५६॥
रथगुप्तिर्वरूथो
ना
कूबरस्तु
युगन्धरः
।
अनुकर्षो
दार्वधःस्थं
प्रासङ्गो
ना
युगाद्युगः
॥२.८.५७॥
सर्वं
स्याद्वाहनं
यानं
युग्यं
पत्रं
च
धोरणम्
।
परम्परावाहनं
यत्तद्वैनीतकमस्त्रियाम्
॥२.८.५८॥
आधोरणा
हस्तिपका
हस्त्यारोहा
निषादिनः
।
नियन्ता
प्राजिता
यन्ता
सूतः
क्षत्ता
च
सारथिः
॥२.८.५९॥
सव्येष्ठदक्षिणस्थौ
च
संज्ञा
रथकुटुम्बिनः
।
रथिनः
स्यन्दनारोहा
अश्वारोहास्तु
सादिनः
॥२.८.६०॥
भटा
योधाश्च
योद्धारः
सेना
रक्षास्तु
सैनिकाः
।
सेनायां
समवेता
ये
सैन्यास्ते
सैनिकाश्च
ते
॥२.८.६१॥
बलिनो
ये
सहस्रेण
साहस्रास्ते
सहस्रिणः
।
परिधिस्थः
परिचरः
सेनानीर्वाहिनीपतिः
॥२.८.६२॥
कञ्चुको
वारबाणोऽस्त्री
यत्तु
मध्ये
सकञ्चुकाः
।
बध्नन्ति
तत्सारसनमधिकाङ्गोऽथ
शीर्षकम्
॥२.८.६३॥
शीर्षण्यं
च
शिरस्त्रेऽथ
तनुत्रं
वर्म
दंशनम्
।
उरश्छदः
कङ्कटको
जागरः
कवचोऽस्त्रियाम्
॥२.८.६४॥
आमुक्तः
प्रतिमुक्तश्च
पिनद्धश्चापिनद्धवत्
।
संनद्धो
वर्मितः
सज्जो
दंशितो
व्युढकङ्कटः
॥२.८.६५॥
त्रिष्वामुक्तादयो
वर्मभृतां
कावचिकं
गणे
।
पदातिपत्तिपदगपादातिकपदाजयः
॥२.८.६६॥
पद्गश्च
पदिकश्चाथ
पादातं
पत्तिसंहतिः
।
शस्त्राजीवे
काण्डपृष्ठायुधीयायुधिकाः
समाः
॥२.८.६७॥
कृतहस्तः
सुप्रयोगविशिखः
कृतपुङ्खवत्
।
अपराद्धपृषत्कोऽसौ
लक्ष्याद्यश्च्युतसायकः
॥२.८.६८॥
धन्वी
धनुष्मान्धानुष्को
निषङ्ग्यस्त्री
धनुर्धरः
।
स्यात्काण्डवांस्तु
काण्डीरः
शाक्तीकः
शक्तिहेतिकः
॥२.८.६९॥
याष्टीकपारश्वधिकौ
यष्टिपर्श्वधहेतिकौ
।
नैस्त्रिंशिकोऽसिहेतिः
स्यात्समौ
प्रासिककौन्तिकौ
॥२.८.७०॥
चर्मी
फलकपाणिः
स्यात्पताकी
वैजयन्तिकः
।
अनुप्लवः
सहायश्चानुचरोऽभिचरः
समाः
॥२.८.७१॥
पुरोगाग्रेसरप्रष्ठाग्रतः
सरपुरः
सराः
।
पुरोगमः
पुरोगामी
मन्दगामी
तु
मन्थरः
॥२.८.७२॥
जङ्घालोऽतिजवस्तुल्यौ
जङ्घाकरिकजाङ्घिकौ
।
तरस्वी
त्वरितो
वेगी
प्रजवी
जवनो
जवः
॥२.८.७३॥
जय्यो
यः
शक्यते
जेतुं
जेयो
जेतव्यमात्रके
।
जैत्रस्तु
जेता
यो
गच्छत्यलं
विद्विषतः
प्रति
॥२.८.७४॥
सोऽभ्यमित्रोऽभ्यमित्रीयोऽप्यभ्यमित्रीण
इत्यपि
।
ऊर्जस्वलः
स्यादूर्जस्वी
य
ऊर्जातिशयान्वितः
॥२.८.७५॥
स्वादुरस्वानुरसिलो
रथिरो
रथिको
रथी
।
कामङ्गाम्यनुकामीनो
ह्यत्यन्तीनस्तथा
भृशम्
॥२.८.७६॥
शूरो
वीरश्च
विक्रान्तो
जेता
जिष्णुश्च
जित्वरः
।
सांयुगीनो
रणे
साधुः
शस्त्राजीवादयस्त्रिषु
॥२.८.७७॥
ध्वजिनी
वाहिनी
सेना
पृतनानीकिनी
चमूः
।
वरूथिनी
बलं
सैन्यं
चक्रं
चानीकमस्त्रियाम्
॥२.८.७८॥
व्यूहस्तु
बलविन्यासो
भेदादण्डादयो
युधि
।
प्रत्यासारो
व्यूहपार्ष्णिः
सैन्यपृष्ठे
प्रतिग्रहः
॥२.८.७९॥
एकेभैकरथा
त्र्यश्वा
पत्तिः
पञ्चपदातिका
।
पत्त्यङ्गैस्त्रिगुणैः
सर्वैः
क्रमादाख्या
यथोत्तरम्
॥२.८.८०॥
सेनामुखं
गुल्मगणौ
वाहिनी
पृतना
चमूः
।
अनीकिनी
दशानीकिन्यक्षौहिण्यथ
सम्पदि
॥२.८.८१॥
सम्पत्तिः
श्रीश्च
लक्ष्मीश्च
विपत्त्यां
विपदापदौ
।
आयुधं
तु
प्रहरणं
शस्त्रमस्त्रमथास्त्रियौ
॥२.८.८२॥
धनुश्चापौ
धन्वशरासनकोदण्डकार्मुकम्
।
इष्वासोऽप्यथ
कर्णस्य
कालपृष्ठं
शरासनम्
॥२.८.८३॥
कपिध्वजस्य
गाण्डीवगाण्डिवौ
पुन्नपुंसकौ
।
कोटिरस्याटनी
गोधातले
ज्याघातवारणे
॥२.८.८४॥
लस्तकस्तु
धनुर्मध्यं
मोर्वी
ज्या
शिञ्जिनी
गुणः
।
स्यात्प्रत्यालीढमालीढमित्यादि
स्थानपञ्चकम्
॥२.८.८५॥
लक्षं
लक्ष्यं
शरव्यं
च
शराभ्यास
उपासनम्
।
पृषत्कबाणविशिखा
अजिह्मगखगाशुगाः
॥२.८.८६॥
कलम्बमार्गणशराः
पत्री
रोप
इषुर्द्वयोः
।
प्रक्ष्वेडनास्तु
नाराचाः
पक्षो
वाजस्त्रिषूत्तरे
॥२.८.८७॥
निरस्तः
प्रहिते
बाणे
विषाक्ते
दिग्धलिप्तकौ
।
तूणोपासङ्गतूणीरनिषङ्गा
इषुधिर्द्वयोः
॥२.८.८८॥
तूण्यां
खड्गे
तु
निस्त्रिंशचन्द्रहासासिरिष्टयः
।
कौक्षेयको
मण्डलाग्रः
करवालः
कृपाणवत्
॥२.८.८९॥
त्सरुः
खड्गादिमुष्टौ
स्यान्मेखला
तन्निबन्धनम्
।
फलकोऽस्त्री
फलं
चर्म
संग्राहो
मुष्टिरस्य
यः
॥२.८.९०॥
द्रुघणो
मुद्गरघनौ
स्यादीली
करवालिका
।
भिन्दिपालः
सृगस्तुल्यौ
परिघः
परिघातिनः
॥२.८.९१॥
द्वयोः
कुठारः
स्वधितिः
परशुश्च
परश्वधः
।
स्याच्छ्स्त्री
चासिपुत्री
च
छुरिका
चासिधेनुका
॥२.८.९२॥
वा
पुंसि
शल्यं
शङ्कुर्ना
सर्वला
तोमरोऽस्त्रियाम्
।
प्रासस्तु
कुन्तः
कोणस्तु
स्त्रियः
पाल्यश्रिकोटयः
॥२.८.९३॥
सर्वाभिसारः
सर्वौघः
सर्वसन्नहनार्थकः
।
लोहाभिसारोऽस्त्रभृतां
राज्ञां
नीराजनाविधिः
॥२.८.९४॥
यत्सेनयाभिगमनमरौ
तदभिषेणनम्
।
यात्रा
व्रज्याभिनिर्वाणं
प्रस्थानं
गमनं
गमः
॥२.८.९५॥
स्यादासारः
प्रसरणं
प्रचक्रं
चलितार्थकम्
।
अहितान्प्रत्यभीतस्य
रणे
यानमभिक्रमः
॥२.८.९६॥
वैतालिका
बोधकराश्चाक्रिका
घाण्टिकार्थकाः
।
स्युर्मागधास्तु
मगधा
बन्दिनः
स्तुतिपाठकाः
॥२.८.९७॥
संशप्तकास्तु
समयात्संग्रामादनिवर्तिनः
।
रेणुर्द्वयोः
स्त्रियां
धूलिः
पांसुर्ना
न
द्वयो
रजः
॥२.८.९८॥
चूर्णे
क्षोदः
समुत्पिञ्जपिञ्जलौ
भृशमाकुले
।
पताका
वैजयन्ती
स्यात्केतनं
ध्वजमस्त्रियाम्
॥२.८.९९॥
सा
वीराशंसनं
युद्धभूमिर्यातिभयप्रदा
।
अहंपूर्वमहंपूर्वमित्यहंपूर्विका
स्त्रियाम्
॥२.८.१००॥
आहोपुरुषिका
दर्पाद्या
स्यात्संभावनात्मनि
।
अहमहमिका
तु
सा
स्यात्परस्परं
यो
भवत्यहङ्कारः
॥२.८.१०१॥
द्रविणं
तरः
सहोबलशौर्याणि
स्थाम
शुष्मं
च
।
शक्तिः
पराक्रमः
प्राणो
विक्रमस्त्वतिशक्तिता
॥२.८.१०२॥
वीरपानं
तु
यत्पानं
वृत्ते
भाविनि
वारणे
।
युद्धमायोधनं
जन्यं
प्रधनं
प्रविदारणम्
॥२.८.१०३॥
मृधमास्कन्दनं
संख्यं
समीकं
सांपरायिकम्
।
अस्त्रियां
समरानीकरणाः
कलहविग्रहौ
॥२.८.१०४॥
सम्प्रहाराभिसम्पात
कलिसंस्फोट
संयुगाः
।
अभ्यामर्द
समाघात
संग्रामाभ्यागमाहवाः
॥२.८.१०५॥
समुदायः
स्त्रियः
संयत्समित्याजिसमिद्युधः
।
नियुद्धं
बाहुयुद्धेऽथ
तुमुलं
रणसङ्कुले
॥२.८.१०६॥
क्ष्वेडा
तु
सिंहनादः
स्यात्करिणां
घटना
घटा
।
क्रन्दनं
योधसंरावो
बृंहितं
करिगर्जितम्
॥२.८.१०७॥
विस्फारो
धनुषः
स्वानः
पताहाडम्बरो
समौ
।
प्रसभं
तु
बलात्कारो
हठोऽथ
स्खलितं
छलम्
॥२.८.१०८॥
अजन्यं
क्लीबमुत्पात
उपसर्गः
समं
त्रयम्
।
मूर्छा
तु
कश्मलं
मोहोऽप्यवमर्दस्तु
पीडनम्
॥२.८.१०९॥
अभ्यवस्कन्दनं
त्वभ्यासादनं
विजयो
जयः
।
वैरशुद्धिः
प्रतीकारो
वैरनिर्यातनं
च
सा
॥२.८.११०॥
प्रद्रावोद्द्रावसंद्रावसंदावा
विद्रवो
द्रवः
।
अपक्रमोऽपयानं
च
रणे
भङ्गः
पराजयः
॥२.८.१११॥
पराजितपराभूतौ
त्रिषु
नष्टतिरोहितौ
।
प्रमापणं
निबर्हणं
निकारणं
विशारणम्
॥२.८.११२॥
प्रवासनं
परासनं
निषूदनं
निहिंसनम्
।
निर्वासनं
संज्ञपनं
निर्ग्रन्थनमपासनम्
॥२.८.११३॥
निस्तर्हणं
निहननं
क्षणनं
परिवर्जनम्
।
निर्वापणं
विशसनं
मारणं
प्रतिघातनम्
॥२.८.११४॥
उद्वासनप्रमथनक्रथनोज्जासनानि
च
।
आलम्भपिञ्जविशरघातोन्माथवधा
अपि
॥२.८.११५॥
स्यात्पञ्चता
कालधर्मो
दिष्टान्तः
प्रलयोऽत्ययः
।
अन्तो
नाशो
द्वयोर्मृत्युर्मरणं
निधनोऽस्त्रियाम्
॥२.८.११६॥
परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः
।
मृतप्रमीतौ
त्रिष्वेते
चिता
चित्या
चितिः
स्त्रियाम्
॥२.८.११७॥
कबन्धोऽस्त्री
क्रियायुक्तमपमूर्धकलेवरम्
।
श्मशानं
स्यात्पितृवनं
कुणपः
शवमस्त्रियाम्
॥२.८.११८॥
प्रग्रहोपग्रहौ
बन्द्यां
कारा
स्यात्बन्धनालये
।
पूंसि
भूम्न्यसवः
प्राणाश्चैवं
जीवोऽसुधारणम्
॥२.८.११९॥
आयुर्जीवितकालो
ना
जीवतुर्जीवनौषधम्
।
इति
क्षत्रियवर्गः
।