श्री-अमरसिंहविरचितं
नामलिङ्गानुशासनम्
।
तृतीयं
काण्डम्
।
वर्गभेदाः
।
विशेष्यनिघ्नैः
सङ्कीर्णैर्नानार्थैरव्ययैरपि
।
लिङ्गादिसङ्ग्रहैर्वर्गाः
सामान्ये
वर्गसंश्रयाः
॥३.१.१॥
परिभाषा
।
स्त्रीदाराद्यैर्यद्विशेष्यं
यादृशैः
प्रस्तुतं
पदैः
।
गुणद्रव्यक्रियाशब्दास्तथा
स्युस्तस्यभेदकाः
॥३.१.२॥
अथ
विशेष्यनिघ्नवर्गः
।
सुकृती
पुण्यवान्धन्यो
महेच्छस्तु
महाशयः
।
हृदयालुः
सुहृदयो
महोत्साहो
महोद्यमः
॥३.१.३॥
प्रवीणे
निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः
।
वैज्ञानिकः
कृतमुखः
कृती
कुशल
इत्यपि
॥३.१.४॥
पूज्यः
प्रतीक्ष्यः
सांशयिकः
संशयापन्नमानसः
।
दक्षिणीयो
दक्षिणार्हस्तत्र
दक्षिण्य
इत्यपि
॥३.१.५॥
स्युर्वदान्यस्थूललक्ष्यदानशौण्डा
बहुप्रदे
।
जैवातृकः
स्यादायुष्मानन्तर्वाणिस्तु
शास्त्रवित्
॥३.१.६॥
परीक्षकः
कारणिको
वरदस्तु
समर्धकः
।
हर्षमाणो
विकुर्वाणः
प्रमना
हृष्टमानसः
॥३.१.७॥
दुर्मना
विमना
अन्तर्मनाः
स्यादुत्क
उन्मनाः
।
दक्षिणे
सरलोदारौ
सुकलो
दातृभोक्तरि
॥३.१.८॥
तत्परे
प्रसितासक्ताविष्टार्थोद्युक्त
उत्सुकः
।
प्रतीते
प्रथितख्यातवित्तविज्ञातविश्रुताः
॥३.१.९॥
गुणैः
प्रतीते
तु
कृतलक्षणाहतलक्षणौ
।
इभ्य
आढ्यो
धनी
स्वामी
त्वीश्वरः
पतिरीशिता
॥३.१.१०॥
अधिभूर्नायको
नेता
प्रभुः
परिवृढोऽधिपः
।
अधिकर्द्धिः
समृद्धः
स्यात्कुटुम्बव्यापृतस्तु
यः
॥३.१.११॥
स्यादभ्यागारिकस्तस्मिन्नुपाधिश्च
पुमानयम्
।
वराङ्गरूपोपेतो
यस्सिंहसंहननो
हि
सः
॥३.१.१२॥
निवार्यः
कार्यकर्ता
यः
सम्पन्नः
सत्वसम्पदा
।
अवाचि
मूकोऽथ
मनोजवसः
पितृसन्निभः
॥३.१.१३॥
सत्कृत्यालङ्कृतां
कन्यां
यो
ददाति
स
कूकुदः
।
लक्ष्मीवान्लक्ष्मणः
श्रीलः
श्रीमान्स्निग्धस्तु
वत्सलः
॥३.१.१४॥
स्याद्दयालुः
कारुणिकः
कृपालुः
सूरतस्समाः
।
स्वतन्त्रोऽपावृतः
स्वैरी
स्वच्छन्दो
निरवग्रहः
॥३.१.१५॥
परतन्त्रः
पराधीनः
परवान्नाथवानपि
।
अधीनो
निघ्न
आयत्तोऽस्वच्छन्दो
गृह्यकोऽप्यसौ
॥३.१.१६॥
खलपूः
स्याद्बहुकरो
दीर्घसूत्रश्चिरक्रियः
।
जाल्मोऽसमीक्ष्यकारी
स्यात्कुण्ठो
मन्दः
क्रियासु
यः
॥३.१.१७॥
कर्मक्षमोऽलङ्कर्माणः
क्रियावान्कर्मसूद्यतः
।
स
कार्मः
कर्मशीलो
यः
कर्मशूरस्तु
कर्मठः
॥३.१.१८॥
भरण्यभुक्कर्मकरः
कर्मकारस्तु
तत्क्रियः
।
अपस्नातो
मृतस्नात
आमिषाशी
तु
शौष्कुलः
॥३.१.१९॥
बुभुक्षितः
स्यात्क्षुधितो
जिघत्सुरशनायितः
।
परान्नः
परपिण्डादो
भक्षको
घस्मरोऽद्भरः
॥३.१.२०॥
आद्यूनः
स्यादौदरिको
विजिगीषाविवर्जिते
।
उभौ
त्वात्मम्भरिः
कुक्षिम्भरिः
स्वोदरपूरके
॥३.१.२१॥
सर्वान्नीनस्तु
सर्वान्नभोजी
गृध्नुस्तु
गर्धनः
।
लुब्धोऽभिलाषुकस्तृष्णक्समौ
लोलुपलोलुभौ
॥३.१.२२॥
सोन्मादस्तून्मदिष्णुः
स्यादविनीतः
समुद्धतः
।
मत्ते
शौण्डोत्कटक्षीबाः
कामुके
कमितानुकः
॥३.१.२३॥
कम्रः
कामयिताभीकः
कमनः
कामनोऽभिकः
।
विधेयो
विनयग्राही
वचनेस्थित
आश्रवः
॥३.१.२४॥
वश्यः
प्रणेयो
निभृतविनीतप्रश्रिताः
समाः
।
धृष्टे
धृष्णग्वियातश्च
प्रगल्भः
प्रतिभान्विते
॥३.१.२५॥
स्यादधृष्टे
तु
शालीनो
विलक्षो
विस्मयान्विते
।
अधीरे
कातरस्त्रस्ते
भीरुभीरुकभीलुकाः
॥३.१.२६॥
आशंसुराशंसितरि
गृहयालुर्ग्रहीतरि
।
श्रद्धालुः
श्रद्धया
युक्ते
पतयालुस्तु
पातुके
॥३.१.२७॥
लज्जाशीलेऽपत्रपिष्णुर्वन्दारुरभिवादके
।
शरारुर्घातुको
हिंस्रः
स्याद्वर्धिष्णुस्तु
वर्द्धनः
॥३.१.२८॥
उत्पतिष्णुस्तूत्पतितालङ्करिष्णुस्तु
मण्डनः
।
भूष्णुर्भविष्णुर्भविता
वर्तिष्णुर्वर्तनः
समौ
॥३.१.२९॥
निराकरिष्णुः
क्षिप्नुः
स्यात्सान्द्रस्निग्धस्तु
मेदुरः
।
ज्ञाता
तु
विदुरो
विन्दुर्विकासी
तु
विकस्वरः
॥३.१.३०॥
विसृत्वरो
विसृमरः
प्रसारी
च
विसारिणि
।
सहिष्णुः
सहनः
क्षन्ता
तितिक्षुः
क्षमिता
क्षमी
॥३.१.३१॥
क्रोधनोऽमर्षणः
कोपी
चण्डस्त्वत्यन्तकोपनः
।
जागरूको
जागरिता
घूर्णितः
प्रचलायितः
॥३.१.३२॥
स्वप्नक्शयालुर्निद्रालुर्निद्राणशयितौ
समौ
।
पराङ्मुखः
पराचीनः
स्यादवाङप्यधोमुखः
॥३.१.३३॥
देवानञ्चति
देवद्र्यङ्विष्वद्र्यङ्विष्वगञ्चति
।
यस्सहाञ्चति
सध्र्यङ्स
स
तिर्यङ्यस्तिरोऽञ्चति
॥३.१.३४॥
वदो
वदावदो
वक्ता
वागीशो
वाक्पतिस्समौ
।
वाचोयुक्तिपटुर्वाग्मी
वावदूकोऽतिवक्तरि
॥३.१.३५॥
स्याज्जल्पाकस्तु
वाचालो
वाचाटो
बहुगर्ह्यवाक्
।
दुर्मुखे
मुखराबद्धमुखौ
शक्लः
प्रियम्वदे
॥३.१.३६॥
लोहलः
स्यादस्फुटवाग्गर्ह्यवादी
तु
कद्वदः
।
समौ
कुवादकुचरौ
स्यादसौम्यस्वरोऽस्वरः
॥३.१.३७॥
रवणः
शब्दनो
नान्दीवादी
नान्दीकरः
समौ
।
जडोऽज्ञ
एडमूकस्तु
वक्तुं
श्रोतुमशिक्षिते
॥३.१.३८॥
तूष्णींशीलस्तु
तूष्णीको
नग्नोऽवासा
दिगम्बरे
।
निष्कासितोऽवकृष्टः
स्यादपध्वस्तस्तु
धिक्कृतः
॥३.१.३९॥
आत्तगर्वोऽभिभूतः
स्याद्दापितः
साधितः
समौ
।
प्रत्यादिष्टो
निरस्तः
स्यात्प्रत्याख्यातो
निराकृतः
॥३.१.४०॥
निकृतः
स्याद्विप्रकृतो
विप्रलब्धस्तु
वञ्चितः
।
मनोहतः
प्रतिहतः
प्रतिबद्धो
हतश्च
सः
॥३.१.४१॥
अधिक्षिप्तः
प्रतिक्षिप्तो
बद्धे
कीलितसंयतौ
।
आपन्न
आपत्प्राप्तः
स्यात्कान्दिशीको
भयद्रुतः
॥३.१.४२॥
आक्षारितः
क्षारितोऽभिशस्ते
सङ्कसुकोऽस्थिरे
।
व्यसनार्तोपरक्तौ
द्वौ
विहस्तव्याकुलौ
समौ
॥३.१.४३॥
विक्लवो
विह्वलः
स्यात्तु
विवशोऽरिष्टदुष्टधीः
।
कश्यः
कश्यार्हे
सन्नद्धे
त्वाततायी
वधोद्यते
॥३.१.४४॥
द्वेष्ये
त्वक्षिगतो
वध्यः
शीर्षच्छेद्य
इमौ
समौ
।
विष्यो
विषेण
यो
वध्यो
मुसल्यो
मुसलेन
यः
॥३.१.४५॥
शिश्विदानोऽकृष्णकर्मा
चपलश्चिकुरः
समौ
।
दोषैकदृक्पुरोभागी
निकृतस्त्वनृजुः
शठः
॥३.१.४६॥
कर्णेजपः
सूचकः
स्यात्पिशुनो
दुर्जनः
खलः
।
नृशंसो
घातुकः
क्रूरः
पापो
धूर्तस्तु
वञ्चकः
॥३.१.४७॥
अज्ञे
मूढयथाजातमूर्खवैधेयबालिशाः
।
कदर्ये
कृपणक्षुद्रकिम्पचानमितम्पचाः
॥३.१.४८॥
निःस्वस्तु
दुर्विधो
दीनो
दरिद्रो
दुर्गतोऽपि
सः
।
वनीयको
याचनको
मार्गणो
याचकार्थिनौ
॥३.१.४९॥
अहङ्कारवानहंयुः
शुभंयुस्तु
शुभान्वितः
।
दिव्योपपादुका
देवा
नृगवाद्या
जरायुजाः
॥३.१.५०॥
स्वेदजाः
कृमिदंशाद्याः
पक्षिसर्पादयोऽण्डजाः
।
उद्भिदस्तरुगुल्माद्या
उद्भिदुद्भिज्जमुद्भिदम्
॥३.१.५१॥
सुन्दरं
रुचिरं
चारु
सुषमं
साधु
शोभनम्
।
कान्तं
मनोरमं
रुच्यं
मनोज्ञं
मञ्जु
मञ्जुलम्
॥३.१.५२॥
तदासेचनकं
तृप्तेर्नास्त्यन्तो
यस्य
दर्शनात्
।
अभीष्टेऽभीप्सितं
हृद्यं
दयितं
वल्लभं
प्रियम्
॥३.१.५३॥
निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः
।
कुपूयकुत्सितावद्यखेटगर्ह्याणकाः
समाः
॥३.१.५४॥
मलीमसं
तु
मलिनं
कच्चरं
मलदूषितम्
।
पूतं
पवित्रं
मेध्यं
च
वीध्रं
तु
विमलार्थकम्
॥३.१.५५॥
निर्णिक्तं
शोधितं
मृष्टं
निःशोध्यमनवस्करम्
।
अवसारं
फल्गु
शून्यं
तु
वशिकं
तुच्छरिक्तके
॥३.१.५६॥
क्लीबे
प्रधानं
प्रमुखप्रवेकानुत्तमोत्तमाः
।
मुख्यवर्यवरेण्याश्च
प्रवर्होऽनवरार्ध्यवत्
॥३.१.५७॥
परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम्
।
श्रेयाञ्श्रेष्ठः
पुष्कलः
स्यात्सत्तमश्चातिशोभने
॥३.१.५८॥
अप्राग्र्यं
द्वयहीने
द्वे
अप्रधानोपसर्जने
।
विशङ्कटं
पृथु
बृहद्विशालं
पृथुलं
महत्
॥३.१.५९॥
वड्रोरुविपुलं
पीनपीव्नी
तु
स्थूलपीवरे
।
स्तोकाल्पक्षुल्लकाः
सूक्ष्मं
श्लक्ष्णं
दभ्रं
कृशं
तनु
॥३.१.६०॥
स्त्रियां
मात्रा
त्रुटिः
पुंसि
लवलेशकणाणवः
।
अत्यल्पेऽल्पिष्ठमल्पीयः
कनीयोऽणीय
इत्यपि
॥३.१.६१॥
प्रभूतं
प्रचुरं
प्राज्यमदभ्रं
बहुलं
बहु
।
पुरुहूः
पुरु
भूयिष्ठं
स्फारं
भूयश
च
भूरि
च
॥३.१.६२॥
परः
शताद्यास्ते
येषां
परा
संख्या
शतादिकात्
।
गणनीये
तु
गणेयं
संख्याते
गणितमथ
समं
सर्वम्
॥३.१.६३॥
विश्वमशेषं
कृत्स्नं
समस्तनिखिलाखिलानि
निःशेषम्
।
समग्रं
सकलं
पूर्णमखण्डं
स्यादनूनके
॥३.१.६४॥
घनं
निरन्तरं
सान्द्रं
पेलवं
विरलं
तनु
।
समीपे
निकटासन्नसन्निकृष्टसनीडवत्
॥३.१.६५॥
सदेशाभ्याशसविधसमर्यादसवेशवत्
।
उपकण्ठान्तिकाभ्यर्णाभ्यग्रा
अप्यभितोऽव्ययम्
॥३.१.६६॥
संसक्ते
त्वव्यवहितमपदान्तरमित्यपि
।
नेदिष्ठमन्तिकतमं
स्याद्दूरं
विप्रकृष्टकम्
॥३.१.६७॥
दवीयश्च
दविष्ठं
च
सुदूरं
दीर्घमायतम्
।
वर्तुलं
निस्तलं
वृत्तं
बन्धुरं
तून्नतानतम्
॥३.१.६८॥
उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ
वामने
।
न्यङ्नीचखर्वह्रस्वाः
स्युरवाग्रेऽवनतानते
॥३.१.६९॥
अरालं
वृजिनं
जिह्ममूर्मिमत्कुञ्चितं
नतम्
।
आविद्धं
कुटिलं
भुग्नं
वेल्लितं
वक्रमित्यपि
॥३.१.७०॥
ऋजावजिह्मप्रगुणौ
व्यस्ते
त्वप्रगुणाकुलौ
।
शाश्वतस्तु
ध्रुवो
नित्यसदातनसनातनाः
॥३.१.७१॥
स्थास्नुः
स्थिरतरः
स्थेयानेकरूपतया
तु
यः
।
कालव्यापी
स
कूटस्थः
स्थावरो
जङ्गमेतरः
॥३.१.७२॥
चरिष्णु
जङ्गमचरं
त्रसमिङ्गं
चराचरम्
।
चलनं
कम्पनं
कम्प्रं
चलं
लोलं
चलाचलम्
॥३.१.७३॥
चञ्चलं
तरलं
च
एव
पारिप्लवपरिप्लवे
।
अतिरिक्तः
समधिको
धृढसन्धिस्तु
संहतः
॥३.१.७४॥
खक्खटं
कठिनं
क्रूरं
कठोरं
निष्ठुरं
दृढम्
।
जरठं
मूर्तिमन्मूर्तं
प्रवृद्धं
प्रौढमेधितम्
॥३.१.७५॥
पुराणे
प्रतनप्रत्नपुरातनचिरन्तनाः
।
प्रत्यग्रोऽभिनवो
नव्यो
नवीनो
नूतनो
नवः
॥३.१.७६॥
नूत्नश्च
सुकुमारं
तु
कोमलं
मृदुलम्मृदु
।
अन्वगन्वक्षमनुगेऽनुपदं
क्लीबमव्ययम्
॥३.१.७७॥
प्रत्यक्षं
स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम्
।
एकतानोऽनन्यवृत्तिरेकाग्रैकायनावपि
॥३.१.७८॥
अप्येकसर्ग
एकाग्र्योऽप्येकायनगतोऽपि
सः
।
पुंस्यादिः
पूर्वपौरस्त्यप्रथमाद्या
अथास्त्रियाम्
॥३.१.७९॥
अन्तो
जघन्यं
चरममन्त्यपाश्चात्यपश्चिमाः
।
मोघं
निरर्थकं
स्पष्टं
स्फुटं
प्रव्यक्तमुल्बणम्
॥३.१.८०॥
साधारणं
तु
सामान्यमेकाकी
त्वेक
एककः
।
भिन्नार्थका
अन्यतर
एकस्त्वोऽन्येतरावपि
॥३.१.८१॥
उच्चावचं
नैकभेदमुच्चण्डमविलम्बितम्
।
अरुन्तुदस्तु
मर्मस्पृगबाधं
तु
निरर्गलम्
॥३.१.८२॥
प्रसव्यं
प्रतिकूलं
स्यादपसव्यमपष्ठु
च
।
वामं
शरीरं
सव्यं
स्यादपसव्यं
तु
दक्षिणम्
॥३.१.८३॥
सङ्कटम्ना
तु
सम्बाधः
कलिलं
गहनं
समे
।
सङ्कीर्णे
सङ्कुलाकीर्णे
मुण्डितं
परिवापितम्
॥३.१.८४॥
ग्रन्थितं
सन्दितं
दृब्धं
विसृतं
विस्तृतं
ततम्
।
अन्तर्गतं
विस्मृतं
स्यात्प्राप्तप्रणिहिते
समे
॥३.१.८५॥
वेल्लितप्रेङ्खिताधूतचलिताकम्पिता
धुते
।
नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः
समाः
॥३.१.८६॥
परिक्षिप्तं
तु
निवृत्तं
मूषितं
मुषितार्थकम्
।
प्रवृद्धप्रसृते
न्यस्तनिसृष्टे
गुणिताहते
॥३.१.८७॥
निदिग्धोपचिते
गूढगुप्ते
गुण्ठितरूषिते
।
द्रुतावदीर्णे
उद्गूर्णोद्यते
काचितशिक्यिते
॥३.१.८८॥
घ्राणघ्राते
दिग्धलिप्ते
समुदक्तोद्धृते
समे
।
वेष्टितं
स्याद्वलयितं
संवीतं
रुद्धमावृतम्
॥३.१.८९॥
रुग्णं
भुग्नेऽथ
निशितक्ष्णुतशातानि
तेजिते
।
स्याद्विनाशोन्मुखं
पक्वं
ह्रीणह्रीतौ
तु
लज्जिते
॥३.१.९०॥
वृत्ते
तु
वृत्तव्यावृत्तौ
संयोजित
उपाहितः
।
प्राप्यं
गम्यं
समासाद्यं
स्यन्नं
रीणं
स्नुतं
स्रुतम्
॥३.१.९१॥
संगूढः
स्यात्सङ्कलितोऽवगीतः
ख्यातगर्हणः
।
विविधः
स्याद्बहुविधो
नानारूपः
पृथग्विधः
॥३.१.९२॥
अवरीणो
धिक्कृतश्चाप्यवध्वस्तोऽवचूर्णितः
।
अनायासकृतं
फाण्टं
स्वनितं
ध्वनितं
समे
॥३.१.९३॥
बद्धे
सन्दानितं
मूतमुद्दितं
सन्दितं
सितम्
।
निष्पक्वे
क्वथितं
पाके
क्षीराज्यहविषां
शृतम्
॥३.१.९४॥
निर्वाणो
मुनिवह्न्यादौ
निर्वातस्तु
गतेऽनिले
।
पक्वम्परिणते
गूनं
हन्ने
मीढं
तु
मूत्रिते
॥३.१.९५॥
पुष्टे
तु
पुषितं
सोढे
क्षान्तमुद्वान्तमुद्गते
।
दान्तस्तु
दमिते
शान्तः
शमिते
प्रार्थितेऽर्दितः
॥३.१.९६॥
ज्ञप्तस्तु
ज्ञापितो
छन्नश्छादिते
पूजितेऽञ्चितः
।
पूर्णस्तु
पूरिते
क्लिष्टः
क्लिशितेऽवसिते
सितः
॥३.१.९७॥
प्रुष्टप्लुष्टोषिता
दग्धे
तष्टत्वष्टौ
तनूकृते
।
वेधितच्छिद्रितौ
विद्धे
विन्नवित्तौ
विचारिते
॥३.१.९८॥
निष्प्रभे
विगतारोकौ
विलीने
विद्रुतद्रुतौ
।
सिद्धे
निर्वृत्तनिष्पन्नौ
दारिते
भिन्नभेदितौ
॥३.१.९९॥
ऊतं
स्यूतमुतं
चेति
त्रितयं
तन्तुसन्तते
।
स्यादर्हिते
नमस्यितनमसितमपचायितार्चितापचितम्
॥३.१.१००॥
वरिवसिते
वरिवस्यितमुपासितं
चोपचरितं
च
।
सन्तापितसन्तप्तौ
धूपितधूपायितौ
च
दूनश्च
॥३.१.१०१॥
हृष्टे
मत्तस्तृप्तः
प्रह्लन्नः
प्रमुदितः
प्रीतः
।
छिन्नं
छातं
लूनं
कृत्तं
दातं
दितं
छितं
वृक्णम्
॥३.१.१०२॥
स्रस्तं
ध्वस्तं
भ्रष्टं
स्कन्नं
पन्नं
च्युतं
गलितम्
।
लब्धं
प्राप्तं
विन्नं
भावितमासादितं
च
भूतं
च
॥३.१.१०३॥
अन्वेषितं
गवेषितमन्विष्टं
मार्गितं
मृगितम्
।
आर्द्रं
सार्द्रं
क्लिन्नं
तिमितं
स्मितितं
समुन्नमुत्तं
च
॥३.१.१०४॥
त्रातं
त्राणं
रक्षितमवितं
गोपायितं
च
गुप्तं
च
।
अवगणितमवमतावज्ञातेऽवमानितं
च
परिभूते
॥३.१.१०५॥
त्यक्तं
हीनं
विधुतं
समुज्झितं
धूतमुत्सृष्टे
।
उक्तं
भाषितमुदितं
जल्पितमाख्यातमभिहितं
लपितम्
॥३.१.१०६॥
बुद्धं
बुधितं
मनितं
विदितं
प्रतिपन्नमवसितावगते
।
उरीकृतमुररीकृतमङ्गीकृतमाश्रुतं
प्रतिज्ञातम्
॥३.१.१०७॥
सङ्गीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम्
।
ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि
॥३.१.१०८॥
अपि
गीर्णवर्णिताभिष्टुतेडितानि
स्तुतार्थानि
।
भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम्
॥३.१.१०९॥
अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं
भुक्ते
।
क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः
॥३.१.११०॥
क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुलप्रकर्षार्थाः
।
साधिष्ठद्राघिष्ठस्फेष्ठगरिष्ठह्रसिष्ठवृन्दिष्ठाः
॥३.१.१११॥
बाढव्यायतबहुगुरुवामनवृन्दारकातिशये।
इति
विशेष्यनिघ्नवर्गः
।