अथ
नानार्थवर्गः
।
नानार्थाः
केऽपि
कान्तादिवर्गेष्वेवात्रकीर्तिताः
।
भूरिप्रयोगा
ये
येषु
पर्यायेष्वपि
तेषु
ते
॥३.३.१॥
आकाशे
त्रिदिवे
नाको
लोकस्तु
भुवने
जने
।
पद्ये
यशसि
च
श्लोकः
शरे
खड्गे
च
सायकः
॥३.३.२॥
जम्बुकौ
क्रोष्टुवरुणौ
पृथुकौ
चिपिटार्भकौ
।
आलोकौ
दर्शनद्योतौ
भेरीपटगहमानकौ
॥३.३.३॥
उत्सङ्गचिह्नयोरङ्कः
कलङ्कोऽङ्कापवादयोः
।
तक्षको
नागवर्द्धक्योरर्कः
स्फटिकसूर्ययोः
॥३.३.४॥
मारुते
वेधसि
ब्रघ्ने
पुंसि
कः
कं
शिरोऽम्बुनोः
।
स्यात्पुलाकस्तुच्छधान्ये
संक्षेपे
भक्तसिक्थके
॥३.३.५॥
उलूके
करिणः
पुच्छमूलोपान्ते
च
पेचकः
।
कमण्डलौ
च
करकः
सुगते
च
विनायकः
॥३.३.६॥
किष्कुर्हस्ते
वितस्तौ
च
शूककीटे
च
वृश्चिकः
।
प्रतिकूले
प्रतीकस्त्रिष्वेकदेशे
तु
पुंस्ययम्
॥३.३.७॥
स्याद्भूतिकं
तु
भूनिम्बे
कत्तृणे
भूस्तृणेऽपि
च
।
ज्योत्स्निकायां
च
घोषे
च
कोशातक्यथ
कट्फले
॥३.३.८॥
सिते
च
खदिरे
सोमवल्कः
स्यादथ
सिह्लके
।
तिलकल्के
च
पिण्याको
बाह्लीकं
रामठेऽपि
च
॥३.३.९॥
महेन्द्र
गुग्गुलूलूकव्यालग्राहिषु
कौशिकः
।
रुक्तापशङ्कास्वातङ्कः
स्वल्पेऽपि
क्षुल्लकस्त्रिषु
॥३.३.१०॥
जैवातृकः
शशाङ्केऽपि
खुरेऽप्यश्वस्य
वर्तकः
।
व्याघ्रेऽपि
पुण्डरीको
ना
यवान्यामपि
दीपकः
॥३.३.११॥
शालावृकाः
कपिक्रोष्टुश्वानः
स्वर्णेऽपि
गैरिकम्
।
पीडार्थेऽपि
व्यलीकं
स्यादलीकं
त्वप्रियेऽनृते
॥३.३.१२॥
शीलान्वयावनूके
द्वे
शल्के
शकलवल्कले
।
साष्टे
शते
सुवर्णानां
हेम्न्युरोभूषणे
पले
॥३.३.१३॥
दीनारेऽपि
च
निष्कोऽस्त्री
कल्कोऽस्त्री
शमलैनसोः
।
दम्भेऽप्यथ
पिनाकोऽस्त्री
शूलशङ्करधन्वनोः
॥३.३.१४॥
धेनुका
तु
करेण्वां
च
मेघजाले
च
कालिका
।
कारिका
यातनावृत्त्योः
कर्णिका
कर्णभूषणे
॥३.३.१५॥
करिहस्तेऽङ्गुलौ
पद्मबीजकोश्यां
त्रिषूत्तरे
।
वृन्दारकौ
रूपिमुख्यावेके
मुख्यान्यकेवलाः
॥३.३.१६॥
स्याद्दाम्भिकः
कौक्कुटिको
यश्चादूरेरितेक्षणः
।
ललाटिकः
प्रभोर्भालदर्शी
कार्याक्षमश्च
यः
॥३.३.१७॥
भूभृन्नितम्बवलयचक्रेषु
कटकोऽस्त्रियाम्
।
सूच्यग्रे
क्षुद्रशत्रौ
च
रोमहर्षे
च
कण्टकः
॥३.३.१८॥
पाकौ
पक्तिशिशू
मध्यरत्ने
नेतरि
नायकः
।
पर्यङ्कः
स्यात्परिकरे
स्याद्व्याघ्रेऽपि
च
लुब्धकः
॥३.३.१९॥
पेटकस्त्रिषु
वृन्देऽपि
गुरौ
देश्ये
च
देशिकः
।
खेटकौ
ग्रामफलकौ
धीवरेऽपिच
जालिकः
॥३.३.२०॥
पुष्परेणौ
च
किञ्जल्कः
शुल्कोऽस्त्री
स्त्रीधनेऽपि
च
।
स्यात्कल्लोलेऽप्युत्कलिका
वार्धकं
भाववृन्दयोः
॥३.३.२१॥
करिण्यां
चापि
गणिका
दारकौ
बालभेदकौ
।
अन्धेऽप्यनेडमूकः
स्याट्टङ्कौ
दर्पाश्मदारणौ
॥३.३.२२॥
मृद्भाण्डेऽप्युष्ट्रिका
मन्थे
खजको
रसदर्वके
।
मयूखस्त्विट्करज्वालास्वलिबाणौ
शिलीमुखौ
॥३.३.२३॥
शङ्खो
निधौ
ललटास्थ्निकम्बौ
न
स्त्रीन्द्रियेऽपि
खम्
।
धृणिज्वाले
अपि
शिखे
शैलवृक्षौ
नगावगौ
॥३.३.२४॥
आशुगौ
वायुविशिखौ
शरार्कविहगाः
खगाः
।
पतङ्गौ
पक्षिसूर्यौ
च
पूगः
क्रमुकवृन्दयोः
॥३.३.२५॥
पशवोऽपि
मृगा
वेगः
प्रवाहजवयोरपि
।
परागः
कौसुमे
रेणौ
स्नानीयादौ
रजस्यपि
॥३.३.२६॥
गजेऽपि
नागमातङ्गावपाङ्गस्तिलकेऽपि
च
।
सर्गः
स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु
॥३.३.२७॥
योगः
सन्नहनोपायध्यानसङ्गतियुक्तिषु
।
भोगः
सुखे
स्त्र्यादिभृतावहेश्च
फणकाययोः
॥३.३.२८॥
चातके
हरिणे
पुंसि
सारङ्गः
शबले
त्रिषु
।
कपौ
च
प्लवगः
शापे
त्वभिषङ्गः
पराभवे
॥३.३.२९॥
यानाद्यङ्गे
युगः
पुंसि
युगं
युग्मे
कृतादिषु
।
स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रधृणिभूजले
॥३.३.३०॥
लक्ष्यदृष्ट्या
स्त्रियां
पुंसि
गौर्लिङ्गं
चिह्नशेफसोः
।
शृङ्गं
प्राधान्यसान्वोश्च
वराङ्गं
मूर्धगुह्ययोः
॥३.३.३१॥
भगं
श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु
।
परिघः
परिघातेऽस्त्रेऽप्योघो
वृन्देऽम्भसां
रये
॥३.३.३२॥
मूल्ये
पूजाविधावर्घोऽहोदुःखव्यसनेष्वघम्
।
त्रिष्विष्टेऽल्पे
लघुः
काचाः
शिक्यभृद्भेददृग्रुजः
॥३.३.३३॥
विपर्यासे
विस्तरे
च
प्रपञ्चः
पावके
शुचिः
।
मास्यमात्ये
चाप्युपधे
पुंसि
मेध्ये
सिते
त्रिषु
॥३.३.३४॥
अभिष्वङ्गे
स्पृहायां
च
गभस्तौ
च
रुचिः
स्त्रियाम्
।
प्रसन्ने
भल्लुकेऽप्यच्छो
गुच्छः
स्तबकहारयोः
॥३.३.३५॥
परिधानाञ्चले
कच्छो
जलप्रान्ते
त्रिलिङ्गकः
।
केकि
तार्क्ष्यावहिभुजौ
दन्तविप्राण्डजा
द्विजाः
॥३.३.३६॥
अजा
विष्णुहरच्छागा
गोष्ठाध्वनिवहा
व्रजाः
।
धर्मराजौ
जिनयमौ
कुञ्जो
दन्तेऽपि
न
स्त्रियाम्
॥३.३.३७॥
वलजे
क्षेत्रपूर्द्वारे
वलजा
वल्गुदर्शना
।
समे
क्ष्मांशे
रणेऽप्याजिः
प्रजा
स्यात्सन्ततौ
जने
॥३.३.३८॥
अब्जौ
शङ्खशशाङ्कौ
च
स्वके
नित्ये
निजं
त्रिषु
।
पुंस्यात्मनि
प्रवीणे
च
क्षेत्रज्ञो
वाच्यलिङ्गकः
॥३.३.३९॥
संज्ञा
स्याच्चेतना
नाम
हस्ताद्यैश्चार्थसूचना
।
काकेभगण्डौ
करटौ
गजगण्डकटी
कटौ
॥३.३.४०॥
शिपिविष्टस्तु
खलतौ
दुश्चर्मणि
महेश्वरे
।
देवशिल्पिन्यपि
त्वष्टा
दिष्टं
दैवेऽपि
न
द्वयोः
॥३.३.४१॥
रसे
कटुः
कट्वकार्ये
त्रिषु
मत्सरतीक्ष्णयोः
।
रिष्टं
क्षेमाशुभाभावेष्वरिष्टे
तु
शुभाशुभे
॥३.३.४२॥
मायानिश्चलयन्त्रेषु
कैतवानृतराशिषु
।
अयोघने
शैलशृङ्गे
सीराङ्गे
कूटमस्त्रियाम्
॥३.३.४३॥
सूक्ष्मैलायां
त्रुटिः
स्त्री
स्यात्कालेऽल्पे
संशयेऽपि
सा
।
आर्त्युत्कर्षाश्रयः
कोट्यो
मूले
लग्नकचे
जटा
॥३.३.४४॥
व्युष्टिः
फले
समृद्धौ
च
दृष्टिर्ज्ञानेऽक्ष्णि
दर्शने
।
इष्टिर्यागेच्छयोः
सृष्टं
निश्चिते
बहुनि
त्रिषु
॥३.३.४५॥
कष्टे
तु
कृच्छ्रगहने
दक्षामन्दागदेषु
तु
।
पटुर्द्वौ
वाच्यलिङ्गौ
च
नीलकण्ठः
शिवेऽपि
च
॥३.३.४६॥
पुंसि
कोष्ठोऽन्तर्जठरं
कुसूलोऽन्तर्गृहं
तथा
।
निष्ठा
निष्पत्तिनाशान्ताः
काष्ठोत्कर्षे
स्थितौ
दिशि
॥३.३.४७॥
त्रिषु
ज्येष्ठोऽतिशस्तेऽपि
कनिष्ठोऽतियुवाल्पयोः
।
दण्डोऽस्त्री
लगुडेऽपि
स्याद्गुडो
गोलेक्षुपाकयोः
॥३.३.४८॥
सर्प
मांसात्पशू
व्याडौ
गोभूवाचस्त्विडा
इलाः
।
क्ष्वेडा
वंशशलाकापि
नाडी
कालेऽपि
षट्क्षणे
॥३.३.४९॥
काण्डोऽस्त्री
दण्डबाणार्ववर्गावसरवारिषु
।
स्याद्भाण्डमश्वाभरणेऽमत्रे
मूलवणिग्धने
॥३.३.५०॥
भृशप्रतिज्ञयोर्बाढं
प्रगाढं
भृशकृच्छ्रयोः
।
शक्तस्थूलौ
त्रिषु
दृढौ
व्यूढौ
विन्यस्तसंहतौ
॥३.३.५१॥
भ्रूणोऽर्भके
स्त्रैणगर्भे
बाणो
बलिसुते
शरे
।
कणोऽतिसूक्ष्मे
धान्यांशे
सङ्घाते
प्रमथे
गणः
॥३.३.५२॥
पणो
द्यूतादिषूत्सृष्टे
भृतौ
मूल्ये
धनेऽपि
च
।
मौर्व्यां
द्रव्याश्रिते
सत्वशौर्यसन्ध्यादिके
गुणः
॥३.३.५३॥
निर्व्यापारस्थितौ
कालविशेषोत्सवयोः
क्षणः
।
वर्णो
द्विजादौ
शुक्लादौ
स्तुतौ
वर्णं
तु
वाक्षरे
॥३.३.५४॥
अरुणो
भास्करेऽपि
स्याद्वर्णभेदेऽपि
च
त्रिषु
।
स्थाणुः
शर्वेऽप्यथ
द्रोणः
काकेऽप्याजौ
रवे
रणः
॥३.३.५५॥
ग्रामणीर्नापिते
पुंसि
श्रेष्ठे
ग्रामाधिपे
त्रिषु
।
ऊर्णा
मेषादिलोम्नि
स्यादावर्ते
चान्तरा
भ्रुवोः
॥३.३.५६॥
हरिणी
स्यान्मृगी
हेमप्रतिमा
हरिता
च
या
।
त्रिषु
पाण्डौ
च
हरिणः
स्थूणा
स्तम्भेऽपि
वेश्मनः
॥३.३.५७॥
तृष्णे
स्पृहापिपासे
द्वे
जुगुप्साकरुणे
घृणे
।
वणिक्पथे
च
विपणिः
सुरा
प्रत्यक्च
वारुणी
॥३.३.५८॥
करेणुरिभ्यां
स्त्री
नेभे
द्रविणं
तु
बलं
धनम्
।
शरणं
गृहरक्षित्रोः
श्रीपर्णं
कमलेऽपि
च
॥३.३.५९॥
विषाभिमरलोहेषु
तीक्ष्णं
क्लीबे
खरे
त्रिषु
।
प्रमाणं
हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु
॥३.३.६०॥
करणं
साधकतमं
क्षेत्रगात्रेन्द्रियेष्वपि
।
प्राण्युत्पादे
संसरणमसंबाधचमूगतौ
॥३.३.६१॥
घण्टापथेऽथ
वान्तान्ने
समुद्गिरणमुन्नये
।
अतस्त्रिषु
विषाणं
स्यात्पशुशृङ्गेभदन्तयोः
॥३.३.६२॥
प्रवणं
क्रमनिम्नोर्व्यां
प्रह्वे
ना
तु
चतुष्पथे
।
सङ्कीर्णौ
निचिताशुद्धाविरिणं
शून्यमूषरम्
॥३.३.६३॥
सेतौ
च
वरणो
वेणी
नदीभेदे
कचोच्चये
।
देवसूर्यौ
विवस्वन्तौ
सरस्वन्तौनदार्णवौ
॥३.३.६४॥
पक्षितार्क्ष्यौ
गरुत्मन्तौ
शकुन्तौ
भासपक्षिणौ
।
अग्न्युत्पातौ
धूमकेतू
जीमूतौ
मेघपर्वतौ
॥३.३.६५॥
हस्तौ
तु
पाणिनक्षत्रे
मरुतौ
पवनामरौ
।
यन्ता
हस्तिपके
सूते
भर्ता
धातरि
पोष्टरि
॥३.३.६६॥
यानपात्रे
शिशौ
पोतः
प्रेतः
प्राण्यन्तरे
मृते
।
ग्रहभेदे
ध्वजे
केतुः
पार्थिवे
तनये
सुतः
॥३.३.६७॥
स्थपतिः
कारुभेदेऽपि
भूभृद्भूमिधरे
नृपे
।
मूर्धाभिषिक्तो
भूपेऽपि
ऋतुः
स्त्री
कुसुमेऽपि
च
॥३.३.६८॥
विष्णावप्यजिताव्यक्तौ
सूतस्त्वष्टरि
सारथौ
।
व्यक्तः
प्राज्ञेऽपि
दृष्टान्तावुभौ
शास्त्रनिदर्शने
॥३.३.६९॥
क्षत्ता
स्यात्सारथौ
द्वाःस्थे
क्षत्रियायां
च
शूद्रजे
।
वृत्तान्तः
स्यात्प्रकरणे
प्रकारे
कार्त्स्न्यवार्तयोः
॥३.३.७०॥
आनर्तः
समरे
नृत्यस्थाननीवृद्विशेषयोः
।
कृतान्तो
यमसिद्धान्तदैवाकुशलकर्मसु
॥३.३.७१॥
श्लेष्मादि
रसरक्तादि
महाभूतानि
तद्गुणाः
।
इन्द्रियाण्यश्मविकृतिः
शब्दयोनिश्च
धातवः
॥३.३.७२॥
कक्षान्तरेऽपि
शुद्धान्तो
नृपस्यासर्वगोचरे
।
कासूसामर्थ्ययोः
शक्तिर्मूर्तिः
काठिन्यकाययोः
॥३.३.७३॥
विस्तारवल्लयोर्व्रततिर्वसती
रात्रिवेश्मनोः
।
क्षयार्चयोरपचितिः
सातिर्दानावसानयोः
॥३.३.७४॥
आर्तिः
पीडा
धनुष्कोट्योर्जातिः
सामान्यजन्मनोः
।
प्रचारस्यन्दयो
रीतिर्डिम्बप्रवासयोः
॥३.३.७५॥
उदयेऽधिगमे
प्राप्तिस्त्रेता
त्वग्नित्रये
युगे
।
वीणाभेदेऽपि
महती
भूतिर्भस्मनि
सम्पदि
॥३.३.७६॥
नदी
नगर्योर्नागानां
भोगवत्यथ
सङ्गरे
।
सङ्गे
सभायां
समितिः
क्षयवासावपि
क्षिती
॥३.३.७७॥
रवेरर्चिश्च
शस्त्रं
च
वह्निज्वाला
च
हेतयः
।
जगती
जगति
च्छन्दोविशेषेऽपि
क्षितावपि
॥३.३.७८॥
पङ्क्तिश्छन्दोऽपि
दशमं
स्यात्प्रभावेऽपि
चायतिः
।
पत्तिर्गतौ
च
मूले
तु
पक्षतिः
पक्षभेदयोः
॥३.३.७९॥
प्रकृतिर्योनिलिङ्गे
च
कैशिक्याद्याश्च
वृत्तयः
।
सिकताः
स्युर्वालुकापि
वेदे
श्रवसि
च
श्रुतिः
॥३.३.८०॥
वनिता
जनितात्यर्थानुरागायां
च
योषिति
।
गुप्तिः
क्षितिव्युदासेऽपि
धृतिर्धारणधैर्ययोः
॥३.३.८१॥
बृहती
क्षुद्रवार्ताकी
छन्दोभेदे
महत्यपि
।
वासिता
स्त्री
करिण्योश्च
वार्ता
वृत्तौ
जनश्रुतौ
॥३.३.८२॥
वार्तं
फल्गुन्यरोगे
च
त्रिष्वप्सु
च
घृतामृते
।
कलधौतं
रूप्यहेम्नोर्निमित्तं
हेतुलक्ष्मणोः
॥३.३.८३॥
श्रुतं
शास्त्रावधृतयोर्युगपर्याप्तयोः
कृतम्
।
अत्याहितं
महाभीतिः
कर्म
जीवानपेक्षि
च
॥३.३.८४॥
युक्ते
क्ष्मादावृते
भूतं
प्राण्यतीते
समे
त्रिषु
।
वृत्तं
पद्ये
चरित्रे
त्रिष्वतीते
दृढनिस्तले
॥३.३.८५॥
महद्राज्यं
चावगीतं
जन्ये
स्याद्गर्हिते
त्रिषु
।
श्वेतं
रूप्येऽपि
रजतं
हेम्नि
रूप्ये
सिते
त्रिषु
॥३.३.८६॥
त्रिष्वितो
जगदिङ्गेऽपि
रक्तं
नील्यादि
रागि
च
।
अवदातः
सिते
पीते
शुद्धे
बद्धार्जुनौ
सितौ
॥३.३.८७॥
युक्तेऽतिसंस्कृतेऽमर्षिण्यभिनीतोऽथ
संस्कृतम्
।
कृत्रिमे
लक्षणोपेतेऽप्यनन्तोऽनवधावपि
॥३.३.८८॥
ख्याते
हृष्टे
प्रतीतोऽभिजातस्तु
कुलजे
बुधे
।
विविक्तौ
पूतविजनौ
मूर्छितौ
मूढसोच्छ्रयौ
॥३.३.८९॥
द्वौ
चाम्लपरुषौ
शुक्तौ
शिती
धवलमेचकौ
।
सत्ये
साधौ
विद्यमाने
प्रशस्तेऽभ्यर्हिते
च
सत्
॥३.३.९०॥
पुरस्कृतः
पूजितेऽरात्यभियुक्तेऽग्रतः
कृते
।
निवातावाश्रयावातौ
शस्त्राभेद्यं
च
वर्म
यत्
॥३.३.९१॥
जातोन्नद्धप्रवृद्धाः
स्युरुच्छ्रिता
उत्थितास्त्वमी
।
वृद्धिमत्प्रोद्यतोत्पन्ना
आदृतौ
सादरार्चितौ
॥३.३.९२॥
अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु
।
निपानागमयोस्तीर्थमृषिजुष्टे
जले
गुरौ
॥३.३.९३॥
समर्थस्त्रिषु
शक्तिस्थे
सम्बद्धार्थे
हितेऽपि
च
।
दशमीस्थौ
क्षीणरागवृद्धौ
वीथी
पदव्यपि
॥३.३.९४॥
आस्थानी
यत्नयोरास्था
प्रस्थोऽस्त्री
सानुमानयोः
।
शास्त्रद्रविणयोर्ग्रन्थः
संस्थाधारे
स्थितौ
मृतौ
॥३.३.९५॥
अभिप्रायवशौ
छन्दावब्दौ
जीमूतवत्सरौ
।
अपवादौ
तु
निन्दाज्ञे
दायादौ
सुतबान्धवौ
॥३.३.९६॥
पादा
रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः
।
निर्वादो
जनवादेऽपि
शादो
जम्बालशष्पयोः
॥३.३.९७॥
आरावे
रुदिते
त्रातर्याक्रन्दो
दारुणे
रणे
।
स्यात्प्रसादोऽनुरागेऽपि
सूदः
स्याद्व्यञ्जनेऽपि
च
॥३.३.९८॥
गोष्ठाध्यक्षेऽपि
गोविन्दो
हर्षेऽप्यामोदवन्मदः
।
प्राधान्ये
राजलिङ्गे
च
वृषाङ्गे
ककुदोऽस्त्रियाम्
॥३.३.९९॥
स्त्री
संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु
।
धर्मे
रहस्युपनिषत्स्यादृतौ
वत्सरे
शरत्
॥३.३.१००॥
पदं
व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु
।
गोष्पदं
सेविते
माने
प्रतिष्ठाकृत्यमास्पदम्
॥३.३.१०१॥
त्रिष्विष्टमधुरौ
स्वादू
मृदू
चातीक्ष्णकोमलौ
।
मूढाल्पापटुनिर्भाग्या
मन्दाः
स्युर्द्वौ
तु
शारदौ
॥३.३.१०२॥
प्रत्यग्राप्रतिभौ
विद्वत्सुप्रगल्भौ
विशारदौ
।
व्यामो
वटश्च
न्यग्रोधावुत्सेधः
काय
उन्नतिः
॥३.३.१०३॥
पर्याहारश्च
मार्गश्च
विवधौ
वीवधौ
च
तौ
।
परिधिर्यज्ञियतरोः
शाखायामुपसूर्यके
॥३.३.१०४॥
बन्धकं
व्यसनं
चेतः
पीडाधिष्ठानमाधयः
।
स्युः
समर्थननीवाकनियमाश्च
समाधयः
॥३.३.१०५॥
दोषोत्पादेऽनुबन्धः
स्यात्प्रकृतस्यादिविनश्वरे
।
मुख्यानुयायिनि
शिशौ
प्रकृतस्यानुवर्तने
॥३.३.१०६॥
विधुर्विष्णौ
चन्द्रमसि
परिच्छेदे
बिलेऽवधिः
।
विधिर्विधाने
दैवेऽपि
प्रणिधिः
प्रार्थने
चरे
॥३.३.१०७॥
बुधवृद्धौ
पण्डितेऽपि
स्कन्धः
समुदयेऽपि
च
।
देशे
नदविशेषेऽब्धौ
सिन्धुर्ना
सरिति
स्त्रियाम्
॥३.३.१०८॥
विधा
विधौ
प्रकारे
च
साधू
रम्येऽपि
च
त्रिषु
।
वधूर्जाया
स्नुषा
स्त्री
च
सुधा
लेपोऽमृतं
स्नुही
॥३.३.१०९॥
सन्धा
प्रतिज्ञा
मर्यादा
श्रद्धासम्प्रत्ययः
स्पृहा
।
मधु
मद्ये
पुष्परसे
क्षौद्रेऽप्यन्धं
तमस्यपि
॥३.३.११०॥
अतस्त्रिषु
समुन्नद्धौ
पण्डितम्मन्यगर्वितौ
।
ब्रह्मबन्धुरधिक्षेपे
निर्देशेऽथावलम्बितः
॥३.३.१११॥
अविदूरोऽप्यवष्टब्धः
प्रसिद्धौ
ख्यातभूषितौ
।
सूर्यवह्नी
चित्रभानू
भानू
रश्मिदिवाकरौ
॥३.३.११२॥
भूतात्मानौ
धातृदेहौ
मूर्खनीचौ
पृथग्जनौ
।
ग्रावाणौ
शैलपाषाणौ
पत्रिणौ
शरपक्षिणौ
॥३.३.११३॥
तरुशैलौ
शिखरिणौ
शिखिनौ
वह्निबर्हिणौ
।
प्रतियत्नावुभौ
लिप्सोपग्रहावथ
सादिनौ
॥३.३.११४॥
द्वौ
सारथिहयारोहौ
वाजिनोऽश्वेषु
पक्षिणः
।
कुलेऽप्यभिजनो
जन्मभूम्यामप्यथ
हायनाः
॥३.३.११५॥
वर्षार्चिर्व्रीहिभेदाश्च
चन्द्राग्न्यर्का
विरोचनाः
।
क्लेशेऽपि
वृजिनो
विश्वकर्मार्कसुरशिल्पिनोः
॥३.३.११६॥
आत्मायत्नो
धृतिर्बुद्धिः
स्वभावो
ब्रह्म
वर्ष्म
च
।
शक्रो
घातुकमत्तेभो
वर्षुकाब्दो
घनाघनः
॥३.३.११७॥
अभिमानोऽर्थादिदर्पे
ज्ञाने
प्रणयहिंसयोः
।
घनो
मेघे
मूर्तिगुणे
त्रिषु
मूर्ते
निरन्तरे
॥३.३.११८॥
इनः
सूर्ये
प्रभौ
राजा
मृगाङ्के
क्षत्रिये
नृपे
।
वाणिन्यौ
नर्तकीदूत्यौ
स्रवन्त्यामपि
वाहिनी
॥३.३.११९॥
ह्लादिन्यौ
वज्रतडितौ
वन्दायामपि
कामिनी
।
त्वग्देहयोरपि
तनुः
सूनाधो
जिह्विकापि
च
॥३.३.१२०॥
क्रतुविस्तारयोरस्त्री
वितानं
त्रिषु
तुच्छके
।
मन्देऽथ
केतनं
कृत्ये
केतावुपनिमन्त्रणे
॥३.३.१२१॥
वेदस्तत्त्वं
तपो
ब्रह्म
ब्रह्मा
विप्रः
प्रजापतिः
।
उत्साहने
च
हिंसायां
सूचने
चापि
गन्धनम्
॥३.३.१२२॥
आतञ्चनं
प्रतीवापजवनाप्यायनार्थकम्
।
व्यञ्जनं
लाञ्छनं
श्मश्रु
निष्ठानावयवेष्वपि
॥३.३.१२३॥
स्यात्कौलीनं
लोकवादे
युद्धे
पश्वहि
पक्षिणाम्
।
स्यादुद्यानं
निःसरणे
वनभेदे
प्रयोजने
॥३.३.१२४॥
अवकाशे
स्थितौ
स्थानं
क्रीडादावपि
देवनम्
।
उत्थानं
पौरुषे
तन्त्रे
सन्निविष्टोद्गमेऽपि
च
॥३.३.१२५॥
व्युत्थानं
प्रतिरोधे
च
विरोधाचरणेऽपि
च
।
मारणे
मृतसंस्कारे
गतौ
द्रव्येऽर्थदापने
॥३.३.१२६॥
निर्वर्तनोपकरणानुव्रज्यासु
च
साधनम्
।
निर्यातनं
वैरशुद्धौ
दाने
न्यासार्पणेऽपि
च
॥३.३.१२७॥
व्यसनं
विपदि
भ्रंशे
दोषे
कामजकोपजे
।
पक्ष्माक्षिलोम्नि
किञ्जल्के
तन्त्वाद्यम्शेऽप्यणीयसि
॥३.३.१२८॥
तिथिभेदे
क्षणे
पर्व
वर्त्म
नेत्रच्छदेऽध्वनि
।
अकार्यगुह्ये
कौपीनं
मैथुनं
सङ्गतौ
रते
॥३.३.१२९॥
प्रधानं
परमात्मा
धीः
प्रज्ञानं
बुद्धिचिह्नयोः
।
प्रसूनं
पुष्पफलयोर्निधनं
कुलनाशयोः
॥३.३.१३०॥
क्रन्दने
रोदनाह्वाने
वर्ष्म
देहप्रमाणयोः
।
गृहदेहत्विट्प्रभावा
धामान्यथ
चतुष्पथे
॥३.३.१३१॥
सन्निवेशे
च
संस्थानं
लक्ष्म
चिह्नप्रधानयोः
।
आच्छादने
संपिधानमपवारणमित्युभे
॥३.३.१३२॥
आराधनं
साधने
स्यादवाप्तौ
तोषणेऽपि
च
।
अधिष्ठानं
चक्रपुरप्रभावाध्यासनेष्वपि
॥३.३.१३३॥
रत्नं
स्वजातिश्रेष्ठेऽपि
वने
सलिलकानने
।
तलिनं
विरले
स्तोके
वाच्यलिङ्गं
तथोत्तरे
॥३.३.१३४॥
समानाः
सत्समैकेस्युः
पिशुनौ
खलसूचकौ
।
हीनन्यूनावूनगर्ह्यौ
वेगिशूरौ
तरस्विनौ
॥३.३.१३५॥
अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्गतावपि
।
कलापो
भूषणे
बर्हे
तूणीरे
संहतावपि
॥३.३.१३६॥
परिच्छदे
परीवापः
पर्युप्तौ
सलिलस्थितौ
।
गोधुग्गोष्ठपती
गोपौ
हरविष्णू
वृषाकपी
॥३.३.१३७॥
बाष्पमूष्माश्रु
कशिपु
त्वन्नमाच्छादनं
द्वयम्
।
तल्पं
शय्याट्टदारेषु
स्तम्बेऽपि
विटपोऽस्त्रियाम्
॥३.३.१३८॥
प्राप्तरूपस्वरूपाभिरूपा
बुधमनोज्ञयोः
।
भेद्यलिङ्गा
अमी
कूर्मी
वीणाभेदश्च
कच्छपी
॥३.३.१३९॥
रवर्णे
पुंसि
रेफः
स्यात्कुत्सिते
वाच्यलिङ्गकः
।
कुतपो
मृगरोमोत्थपटे
चाह्नोऽष्टमेंऽशके
॥३.३.१४०॥
अन्तराभवसत्वेऽश्वे
गन्धर्वो
दिव्यगायने
।
कम्बुर्ना
वलये
शङ्खे
द्विजिह्वौ
सर्पसूचकौ
॥३.३.१४१॥
पूर्वोऽन्यलिङ्गः
प्रागाह
पुम्बहुत्वेऽपि
पूर्वजान्
।
कुम्भौ
घटेभमूर्धांशौ
डिम्भौ
तु
शिशुबालिशौ
॥३.३.१४२॥
स्तम्भौ
स्थूणाजडीभावौ
शम्भू
ब्रह्मत्रिलोचनौ
।
कुक्षिभ्रूणार्भका
गर्भा
विस्रम्भः
प्रणयेऽपि
च
॥३.३.१४३॥
स्याद्भेर्यां
दुन्दुभिः
पुंसि
स्यादक्षे
दुन्दुभिः
स्त्रियाम्
।
स्यान्महारजते
क्लीबं
कुसुम्भं
करके
पुमान्
॥३.३.१४४॥
क्षत्रियेऽपि
च
नाभिर्ना
सुरभिर्गवि
च
स्त्रियाम्
।
सभा
संसदि
सभ्ये
च
त्रिष्वध्यक्षेऽपि
वल्लभः
॥३.३.१४५॥
किरणप्रग्रहौ
रश्मी
कपिभेकौ
प्लवङ्गमौ
।
इच्छामनोभवौ
कामौ
शक्त्युद्योगौ
पराक्रमौ
॥३.३.१४६॥
धर्माः
पुण्ययमन्यायस्वभावाचारसोमपाः
।
उपायपूर्व
आरम्भ
उपधा
चाप्युपक्रमः
॥३.३.१४७॥
वणिक्पथः
पुरं
वेदो
निगमो
नागरो
वणिक्
।
नैगमौ
द्वौ
बले
रामो
नीलचारुसिते
त्रिषु
॥३.३.१४८॥
शब्दादिपूर्वो
वृन्देऽपि
ग्रामः
क्रान्तौ
च
विक्रमः
।
स्तोमः
स्तोत्रेऽध्वरे
वृन्दे
जिह्मास्तु
कुटिलेऽलसे
॥३.३.१४९॥
उष्णोऽपि
घर्मचेष्टालङ्कारे
भ्रान्तौ
च
विभ्रमः
।
गुल्मारुक्स्तम्बसेनाश्च
जामिः
स्वसृकुलस्त्रियोः
॥३.३.१५०॥
क्षितिक्षान्त्योः
क्षमायुक्ते
क्षमं
शक्ते
हिते
त्रिषु
।
त्रिषु
श्यामौ
हरित्कृष्णौ
श्यामा
स्याच्छारिवा
निशा
॥३.३.१५१॥
ललामं
पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु
।
सूक्ष्ममध्यात्ममप्याद्ये
प्रधाने
प्रथमस्त्रिषु
॥३.३.१५२॥
वामौ
वल्गुप्रतीपौ
द्वावधमौ
न्यूनकुत्सितौ
।
जीर्णं
च
परिभुक्तं
च
यातयाममिदं
द्वयम्
॥३.३.१५३॥
तुरङ्गगरुडौ
तार्क्ष्यौ
निलयापचयौ
क्षयौ
।
श्वशुर्यौ
देवरश्यालौ
भ्रातृव्यौ
भ्रातृजद्विषौ
॥३.३.१५४॥
पर्जन्यौ
रसदब्देन्द्रौ
स्यादर्यः
स्वामिवैश्ययोः
।
तिष्यः
पुष्ये
कलियुगे
पर्यायोऽवसरे
क्रमे
॥३.३.१५५॥
प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु
।
रन्ध्रे
शब्देऽथानुशयो
दीर्घद्वेषानुतापयोः
॥३.३.१५६॥
स्थूलोच्चयस्त्वसाकल्ये
नागानां
मध्यमे
गते
।
समयाः
शपथाचारकालसिद्धान्तसंविदः
॥३.३.१५७॥
व्यसनान्यशुभं
दैवं
विपदित्यनयास्त्रयः
।
अत्ययोऽतिक्रमे
कृच्छ्रेदोषे
दण्डेऽप्यथापदि
॥३.३.१५८॥
युद्धायत्योः
संपरायः
पूज्यस्तु
श्वशुरेऽपि
च
।
पस्चादवस्थायि
बलं
समवायश्च
सन्नयौ
॥३.३.१५९॥
सङ्घाते
सन्निवेशे
च
संस्त्यायः
प्रणयास्त्वमी
।
विस्रम्भयाञ्चाप्रेमाणो
विरोधेऽपि
समुच्छ्रयः
॥३.३.१६०॥
विषयो
यस्य
यो
ज्ञातस्तत्र
शब्दादिकेष्वपि
।
निर्यासेऽपि
कषायोऽस्त्री
सभायां
च
प्रतिश्रयः
॥३.३.१६१॥
प्रायो
भूम्न्यन्तगमने
मन्युर्दैन्ये
क्रतौ
युधि
।
रहस्योपस्थयोर्गुह्यं
सत्यं
शपथतथ्ययोः
॥३.३.१६२॥
वीर्यं
बले
प्रभावे
च
द्रव्यं
भव्ये
गुणाश्रये
।
धिष्ण्यं
स्थाने
गृहे
भेऽग्नौ
भाग्यं
कर्मशुभाशुभम्
॥३.३.१६३॥
कशेरुहेम्नोर्गाङ्गेयं
विशल्या
दन्तिकापि
च
।
वृषाकपायी
श्रीगौर्योरभिख्या
नामशोभयोः
॥३.३.१६४॥
आरम्भो
निष्कृतिः
शिक्षा
पूजनं
संप्रधारणम्
।
उपायः
कर्म
चेष्टा
च
चिकित्सा
च
नवक्रियाः
॥३.३.१६५॥
छाया
सूर्यप्रिया
कान्तिः
प्रतिबिम्बमनातपः
।
कक्ष्या
प्रकोष्ठे
हर्म्यादेः
काञ्च्यां
मध्येभबन्धने
॥३.३.१६६॥
कृत्या
क्रियादेवतयोस्त्रिषु
भेद्ये
धनादिभिः
।
जन्यं
स्याज्जनवादेऽपि
जघन्योऽन्त्येऽधमेऽपि
च
॥३.३.१६७॥
गृह्याधीनौ
च
वक्तव्यौ
कल्यौ
सज्जनिरामयौ
।
आत्मवाननपेतोऽर्थादर्थ्यौ
पुण्यं
तु
चार्वपि
॥३.३.१६८॥
रूप्यं
प्रशस्तरूपेऽपि
वदान्यो
वल्गुवागपि
।
न्याय्येऽपि
मध्यं
सौम्यं
तु
सुन्दरे
सोमदैवते
॥३.३.१६९॥
निवहावसरौ
वारौ
संस्तरौ
प्रस्तराध्वरौ
।
गुरू
गीर्पतिपित्राद्यौ
द्वापरौ
युगसंशयौ
॥३.३.१७०॥
प्रकारौ
भेदसादृश्ये
आकाराविङ्गिताकृती
।
किंशारू
सस्यशूकेषु
मरू
धन्वधराधरौ
॥३.३.१७१॥
अद्रयो
द्रुमशैलार्काः
स्त्रीस्तनाब्दौ
पयोधरौ
।
ध्वान्तारिदानवा
वृत्रा
बलिहस्तांशवः
कराः
॥३.३.१७२॥
प्रदरा
भङ्गनारीरुक्बाणा
अस्राः
कचा
अपि
।
अजातशृङ्गो
गौः
कालेऽप्यश्मश्रुर्ना
च
तूवरौ
॥३.३.१७३॥
स्वर्णेऽपि
राः
परिकरः
पर्यङ्कपरिवारयोः
।
मुक्ताशुद्धौ
च
तारः
स्याच्छारो
वायौ
स
तु
त्रिषु
॥३.३.१७४॥
कर्बुरेऽथ
प्रतिज्ञाजिसंविदापत्सु
सङ्गरः
।
वेदभेदे
गुप्तवादे
मन्त्रो
मित्रो
रवावपि
॥३.३.१७५॥
मखेषु
यूपखण्डेऽपि
स्वरुर्गुह्येऽप्यवस्करः
।
आडम्बरस्तूर्यरवे
गजेन्द्राणां
च
गर्जिते
॥३.३.१७६॥
अभिहारोऽभियोगे
च
चौर्ये
सन्नहनेऽपि
च
।
स्याज्जङ्गमे
परीवारः
खड्गकोषे
परिच्छदे
॥३.३.१७७॥
विष्टरो
विटपी
दर्भमुष्टिः
पीठाद्यमासनम्
।
द्वारि
द्वाः
स्थे
प्रतीहारः
प्रतीहार्यप्यनन्तरे
॥३.३.१७८॥
विपुले
नकुले
विष्णौ
बभ्रुर्ना
पिङ्गले
त्रिषु
।
सारो
बले
स्थिरांशे
च
न्याय्ये
क्लीबं
वरे
त्रिषु
॥३.३.१७९॥
दुरोदरो
द्यूतकारे
पणे
द्यूते
दुरोदरम्
।
महारण्ये
दुर्गपथे
कान्तारं
पुन्नपुंसकम्
॥३.३.१८०॥
मत्सरोऽन्यशुभद्वेषे
तद्वत्कृपणयोस्त्रिषु
।
देवाद्वृते
वरः
श्रेष्ठे
त्रिषु
क्लीबं
मनाक्प्रिये
॥३.३.१८१॥
वंशाङ्कुरे
करीरोऽस्त्री
तरुभेदे
घटे
च
ना
।
ना
चमूजघने
हस्तसूत्रे
प्रतिसरोऽस्त्रियाम्
॥३.३.१८२॥
यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु
।
शुकाहिकपिभेकेषु
हरिर्ना
कपिले
त्रिषु
॥३.३.१८३॥
शर्करा
कर्परांशेऽपि
यात्रा
स्याद्यापने
गतौ
।
इरा
भूवाक्सुराप्सुस्यात्तन्द्रा
निद्राप्रमीलयोः
॥३.३.१८४॥
धात्री
स्यादुपमातापि
क्षितिरप्यामलक्यपि
।
क्षुद्रा
व्यङ्गा
नटी
वेश्या
सरघा
कण्टकारिका
॥३.३.१८५॥
त्रिषु
क्रूरेऽधमेऽल्पेऽपि
क्षुद्रं
मात्रा
परिच्छदे
।
अल्पे
च
परिमाणे
सा
मात्रं
कार्त्स्न्येऽवधारणे
॥३.३.१८६॥
आलेख्याश्चर्ययोश्चित्रं
कलत्रं
श्रोणिभार्ययोः
।
योग्यभाजनयोः
पात्रं
पत्रं
वाहनपक्षयोः
॥३.३.१८७॥
निदेशग्रन्थयोः
शास्त्रं
शस्त्रमायुधलोहयोः
।
स्याज्जटांशुकयोर्नेत्रं
क्षेत्रं
पत्नीशरीरयोः
॥३.३.१८८॥
मुखाग्रे
क्रोडहलयोः
पोत्रं
गोत्रं
तु
नाम्नि
च
।
सत्रमाच्छादने
यज्ञे
सदादाने
वनेऽपि
च
॥३.३.१८९॥
अजिरं
विषये
कायेऽप्यम्बरं
व्योम्नि
वाससि
।
चक्रं
राष्ट्रेऽप्यक्षरं
तु
मोक्षेऽपि
क्षीरमप्सु
च
॥३.३.१९०॥
स्वर्णेऽपि
भूरिचन्द्रौ
द्वौ
द्वारमात्रेऽपि
गोपुरम्
।
गुहादम्भौ
गह्वरे
द्वे
रहोऽन्तिकमुपह्वरे
॥३.३.१९१॥
पुरोऽधिकमुपर्यग्राण्यगारे
नगरे
पुरम्
।
मन्दिरं
चाथ
राष्ट्रोऽस्त्री
विषये
स्यादुपद्रवे
॥३.३.१९२॥
दरोऽस्त्रियां
भये
श्वभ्रे
वज्रोऽस्त्री
हीरके
पवौ
।
तन्त्रं
प्रधाने
सिद्धान्ते
सूत्रवाये
परिच्छदे
॥३.३.१९३॥
औशीरश्चामरे
दण्डेऽप्यौशीरं
शयनासने
।
पुष्करं
करिहस्ताग्रे
वाद्यभाण्डमुखे
जले
॥३.३.१९४॥
व्योम्नि
खड्गफले
पद्मे
तीर्थौषधिविशेषयोः
।
अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये
॥३.३.१९५॥
छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि
च
।
मुस्तेऽपि
पिठरं
राजकशेरुण्यपि
नागरम्
॥३.३.१९६॥
शार्वरं
त्वन्धतमसे
घातुके
भेद्यलिङ्गकम्
।
गौरोऽरुणे
सिते
पीते
व्रणकार्यप्यरुष्करः
॥३.३.१९७॥
जठरः
कठिनेऽपि
स्यादधस्तादपि
चाधरः
।
अनाकुलेऽपि
चैकाग्रो
व्यग्रो
व्यासक्त
आकुले
॥३.३.१९८॥
उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः
स्यादनुत्तरः
।
एषां
विपर्यये
श्रेष्ठे
दूरानात्मोत्तमाः
पराः
॥३.३.१९९॥
स्वादुप्रियौ
च
मधुरौ
क्रूरौ
कठिननिर्दयौ
।
उदारो
दातृमहतोरितरस्त्वन्यनीचयोः
॥३.३.२००॥
मन्दस्वच्छन्दयोः
स्वैरः
शुभ्रमुद्दीप्तशुक्लयोः
।
चूडा
किरीटं
केशाश्च
संयता
मौलयस्त्रयः
॥३.३.२०१॥
द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि
पीलवः
।
कृतान्तानेहसोः
कालश्चतुर्थेऽपि
युगे
कलिः
॥३.३.२०२॥
स्यात्कुरङ्गेऽपि
कमलः
प्रावारेऽपि
च
कम्बलः
।
करोपहारयोः
पुंसि
बलिः
प्राण्यङ्गजे
स्त्रियाम्
॥३.३.२०३॥
स्थौल्यसामर्थ्यसैन्येषु
बलं
ना
काकसीरिणोः
।
वातूलः
पुंसि
वात्यायामपि
वातासहे
त्रिषु
॥३.३.२०४॥
भेद्यलिङ्गः
शठे
व्यालः
पुंसि
श्वापदसर्पयोः
।
मलोऽस्त्री
पापविट्किट्टान्यस्त्री
शूलं
रुगायुधम्
॥३.३.२०५॥
शङ्कावपि
द्वयोः
कीलः
पालिस्त्र्यश्र्यङ्कपङ्क्तिषु
।
कला
शिल्पे
कालभेदेप्याली
सख्यावली
अपि
॥३.३.२०६॥
अब्ध्यम्बुविकृतौ
वेला
कालमर्यादयोरपि
।
बहुलाः
कृत्तिका
गावो
बहुलोऽग्नौ
शितौ
त्रिषु
॥३.३.२०७॥
लीला
विलासक्रिययोरुपला
शर्करापि
च
।
शोणितेऽम्भसि
कीलालं
मूलमाद्ये
शिफाभयोः
॥३.३.२०८॥
जालं
समूह
आनायगवाक्षक्षारकेष्वपि
।
शीलं
स्वभावे
सद्वृत्ते
सस्ये
हेतुकृते
फलम्
॥३.३.२०९॥
छदिर्नेत्ररुजोः
क्लीबं
समूहे
पटलं
न
ना
।
अधस्स्वरूपयोरस्त्री
तलं
स्याच्चामिषे
पलम्
॥३.३.२१०॥
और्वानलेऽपि
पातालं
चेलं
वस्त्रेऽधमे
त्रिषु
।
कुकूलं
शङ्कुभिः
कीर्णे
श्वभ्रे
ना
तु
तुषानले
॥३.३.२११॥
निर्णीते
केवलमिति
त्रिलिङ्गं
त्वेककृत्स्नयोः
।
पर्याप्तिक्षेमपुण्येषु
कुशलं
शिक्षिते
त्रिषु
॥३.३.२१२॥
प्रवालमङ्कुरेऽप्यस्त्री
त्रिषु
स्थूलं
जडेऽपि
च
।
करालो
दन्तुरे
तुङ्गे
चारौ
दक्षे
च
पेशलः
॥३.३.२१३॥
मूर्खेऽर्भकेऽपि
बालः
स्याल्लोलश्चलसतृष्णयोः
।
कुलं
गृहेऽपि
तालाङ्के
कुबेरे
चैककुण्डलः
॥३.३.२१४॥
स्त्रीभावावज्ञयोर्हेला
हेलिः
सूर्ये
रणे
हिलिः
।
हालः
स्यान्नृपतौ
मद्ये
शकलच्छदयोर्दलम्
॥३.३.२१५॥
तूलिश्चित्रोपकरणशलाकातूलशय्ययोः
।
तुमुलं
व्याकुले
शब्दे
शष्कुली
कर्णपाल्यपि
॥३.३.२१६॥
दवदावौ
वनारण्यवह्नी
जन्महरौ
भवौ
।
मन्त्री
सहायः
सचिवौ
पतिशाखिनरा
धवाः
॥३.३.२१७॥
अवयः
शैलमेषार्का
आज्ञाह्वानाध्वरा
हवाः
।
भावः
सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु
॥३.३.२१८॥
स्यादुत्पादे
फले
पुष्पे
प्रसवो
गर्भमोचने
।
अविश्वासेऽपह्नवेऽपि
निकृतावपि
निह्नवः
॥३.३.२१९॥
उत्सेकामर्षयोरिच्छाप्रसरे
मह
उत्सवः
।
अनुभावः
प्रभावे
च
सतां
च
मतिनिश्चये
॥३.३.२२०॥
स्याज्जन्महेतुः
प्रभवः
स्थानं
चाद्योपलब्धये
।
शूद्रायां
विप्रतनये
शस्त्रे
पारशवो
मतः
॥३.३.२२१॥
ध्रुवो
भभेदे
क्लीबे
तु
निश्चिते
शाश्वते
त्रिषु
।
स्वो
ज्ञातावात्मनि
स्वं
त्रिष्वात्मीये
स्वोऽस्त्रियां
धने
॥३.३.२२२॥
स्त्रीकटीवस्त्रबन्धेऽपि
नीवी
परिपणेऽपि
च
।
शिवा
गौरीफेरवयोर्द्वन्द्वं
कलहयुग्मयोः
॥३.३.२२३॥
द्रव्यासु
व्यवसायेऽपि
सत्त्वमस्त्री
तु
जन्तुषु
।
क्लीबं
नपुंसकं
षण्डे
वाच्यलिङ्गमविक्रमे
॥३.३.२२४॥
द्वौ
विशौ
वैश्यमनुजौ
द्वौ
चराभिमरौ
स्पशौ
।
द्वौ
राशी
पुञ्जमेषाद्यौ
द्वौ
वंशौ
कुलमस्करौ
॥३.३.२२५॥
रहः
प्रकाशौ
वीकाशौ
निर्वेशो
भृतिभोगयोः
।
कृतान्ते
पुंसि
कीनाशः
क्षुद्रकर्षकयोस्त्रिषु
॥३.३.२२६॥
पदे
लक्ष्ये
निमित्तेऽपदेशः
स्यात्कुशमप्सु
च
।
दशावस्थानेकविधाप्याशा
तृष्णापि
चायता
॥३.३.२२७॥
वशा
स्त्री
करिणी
च
स्यात्दृग्ज्ञाने
ज्ञातरि
त्रिषु
।
स्यात्कर्कशः
साहसिकः
कठोरामसृणावपि
॥३.३.२२८॥
प्रकाशोऽतिप्रसिद्धेऽपि
शिशावज्ञे
च
बालिशः
।
कोशोऽस्त्री
कुड्मले
खड्गपिधानेऽर्थौघदिव्ययोः
॥३.३.२२९॥
नाशः
क्षये
तिरोधाने
जीवितेशः
प्रिये
यमे
।
नृशंसखड्गौ
निस्त्रिंशावंशुः
सूर्येंशवः
कराः
॥३.३.२३०॥
आश्वाख्या
शालिशीघ्रार्थे
पाशो
बन्धनशस्त्रयोः
।
सुरमत्स्यावनिमिषौ
पुरुषावात्ममानवौ
॥३.३.२३१॥
काकमत्स्यात्खगौ
ध्वाङ्क्षौ
कक्षौ
च
तृणवीरुधौ
।
अभीषुः
प्रग्रहे
रश्मौ
प्रैषः
प्रेषणमर्दने
॥३.३.२३२॥
पक्षः
सहायेऽप्युष्णीषः
शिरोवेष्टकिरीटयोः
।
शुक्रले
मूषिके
श्रेष्ठे
सुकृते
वृषभे
वृषः
॥३.३.२३३॥
कोषोऽस्त्री
कुड्मले
खड्गपिधानेऽर्थौघदिव्ययोः
।
द्यूतेऽक्षे
शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये
॥३.३.२३४॥
ना
द्यूताङ्गे
कर्षचक्रे
व्यवहारे
कलिद्रुमे
।
कर्षूर्वार्त्ता
करीषाग्निः
कर्षूः
कुल्याभिधायिनी
॥३.३.२३५॥
पुम्भावे
तत्क्रियायां
च
पौरुषं
विषमप्सु
च
।
उपादानेऽप्यामिषं
स्यादपराधेऽपि
किल्बिषम्
॥३.३.२३६॥
स्याद्वृष्टौ
लोकधात्वंशे
वत्सरे
वर्षमस्त्रियाम्
।
प्रेक्षा
नृत्येक्षणं
प्रज्ञा
भिक्षा
सेवार्थना
भृतिः
॥३.३.२३७॥
त्विट्
शोभापि
त्रिषु
परे
न्यक्षं
कार्त्स्न्यनिकृष्टयोः
।
प्रत्यक्षेऽधिकृतेऽध्यक्षो
रूक्षस्त्वप्रेम्ण्यचिक्कणे
॥३.३.२३८॥
व्याजसंख्याशरव्येषु
लक्षं
घोषौ
रवव्रजौ
।
कपिशीर्षं
भित्तिशृङ्गेऽनुतर्षश्चषकः
सुरा
॥३.३.२३९॥
दोषो
वातादिके
दोषा
रात्रौ
दक्षोऽपि
कुक्कुटे
।
शुण्डाग्रभागे
गण्डूषो
द्वयोश्च
मुखपूरणे
॥३.३.२४०॥
रविश्वेतच्छदौ
हंसौ
सूर्यवह्नी
विभावसू
।
वत्सौ
तर्णकवर्षौ
द्वौ
सारङ्गाश्च
दिवौकसः
॥३.३.२४१॥
शृङ्गारादौ
विषे
वीर्ये
गुणे
रागे
द्रवे
रसः
।
पुंस्युत्तंसावतंसौ
द्वौ
कर्णपूरेऽपि
शेखरे
॥३.३.२४२॥
देवभेदेऽनले
रश्मौ
वसू
रत्ने
धने
वसु
।
विष्णौ
च
वेधाः
स्त्री
त्वाशीर्हिताशंसाहिदंष्ट्रयोः
॥३.३.२४३॥
लालसे
प्रार्थनौत्सुक्ये
हिंसा
चौर्यादिकर्म
च
।
प्रसूरश्वापि
भूद्यावौ
रोदस्यौ
रोदसी
च
ते
॥३.३.२४४॥
ज्वालाभासौ
न
पुंस्यर्चिर्ज्योतिर्भद्योतदृष्टिषु
।
पापापराधयोरागः
खगबाल्यादिनोर्वयः
॥३.३.२४५॥
तेजः
पुरीषयोर्वर्चो
महस्तूत्सवतेजसोः
।
रजो
गुणे
च
स्त्रीपुष्पे
राहौ
ध्वान्ते
गुणे
तमः
॥३.३.२४६॥
छन्दः
पद्येऽभिलाषे
च
तपः
कृच्छ्रादिकर्म
च
।
सहो
बलं
सहा
मार्गो
नभः
खं
श्रावणो
नभाः
॥३.३.२४७॥
ओकः
सद्माश्रयश्चौकाः
पय:
क्षीरं
पयोम्बु
च
।
ओजो
दीप्तौ
बले
स्रोत
इन्द्रिये
निम्नगारये
॥३.३.२४८॥
तेजः
प्रभावे
दीप्तौ
च
बले
शुक्रेऽप्यतस्त्रिषु
।
विद्वान्विदंश्च
बीभत्सो
हिंस्रोऽप्यतिशयेत्वमी
॥३.३.२४९॥
वृद्धप्रशंसयोर्ज्यायान्कनीयांस्तु
युवाल्पयोः
।
वरीयांस्तूरुवरयोः
साधीयान्साधुबाढयोः
॥३.३.२५०॥
दलेऽपि
बर्हं
निर्बन्धोपरागार्कादयो
ग्रहाः
।
द्वार्यापीडे
क्वाथरसे
निर्यूहो
नागदन्तके
॥३.३.२५१॥
तुलासूत्रेऽश्वादिरश्मौ
प्रग्राहः
प्रग्रहोऽपि
च
।
पत्नीपरिजनादानमूलशापाः
परिग्रहाः
॥३.३.२५२॥
दारेषु
च
गृहाः
श्रोण्यामप्यारोहो
वरस्त्रियाः
।
व्यूहो
वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः
॥३.३.२५३॥
परिच्छदे
नृपार्हेऽर्थे
परिबर्होऽव्ययाः
परे
।
आङीषदर्थेऽभिव्याप्तौ
सीमार्थे
धातुयोगजे
॥३.३.२५४॥
आ
प्रगृह्यस्स्मृतौ
वाक्येऽप्यास्तु
स्यात्कोपपीडयोः
।
पापकुत्सेषदर्थे
कु
धिङ्निर्भत्सननिन्दयोः
॥३.३.२५५॥
चान्वाचयसमाहारेतरेतरसमुच्चये
।
स्वस्त्याशीः
क्षेमपुण्यादौ
प्रकर्षे
लङ्घनेऽप्यति
॥३.३.२५६॥
स्वित्प्रश्ने
च
वितर्के
च
तु
स्याद्भेदेऽवधारणे
।
सकृत्सहैकवारे
चाप्याराद्दूरसमीपयोः
॥३.३.२५७॥
प्रतीच्यां
चरमे
पश्चादुताप्यर्थविकल्पयोः
।
पुनस्सहार्थयोः
शश्वत्साक्षात्प्रत्यक्षतुल्ययोः
॥३.३.२५८॥
खेदानुकम्पासन्तोषविस्मयामन्त्रणे
बत
।
हन्त
हर्षेऽनुकम्पायां
वाक्यारम्भविषादयोः
॥३.३.२५९॥
प्रति
प्रतिनिधौ
वीप्सालक्षणादौ
प्रयोगतः
।
इति
हेतुप्रकरणप्रकर्षादिसमाप्तिषु
॥३.३.२६०॥
प्राच्यां
पुरस्तात्प्रथमे
पुरार्थेऽग्रत
इत्यपि
।
यावत्तावच्च
साकल्येऽवधौ
मानेऽवधारणे
॥३.३.२६१॥
मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो
अथ
।
वृथा
निरर्थकाविध्योर्नानानेकोभयार्थयोः
॥३.३.२६२॥
नु
पृच्छायां
विकल्पे
च
पश्चात्सादृश्ययोरनु
।
प्रश्नावधारणानुज्ञानुनयामन्त्रणे
ननु
॥३.३.२६३॥
गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि
।
उपमायां
विकल्पे
वा
सामि
त्वर्धे
जुगुप्सिते
॥३.३.२६४॥
अमा
सह
समीपे
च
कं
वारिणि
च
मूर्धनि
।
इवेत्थमर्थयोरेवं
नूनं
तर्केऽर्थनिश्चये
॥३.३.२६५॥
तूष्णीमर्थे
सुखे
जोषं
किं
पृच्छायां
जुगुप्सने
।
नाम
प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने
॥३.३.२६६॥
अलं
भूषणपर्याप्तिशक्तिवारणवाचकम्
।
हुं
वितर्के
परिप्रश्ने
समयान्तिकमध्ययोः
॥३.३.२६७॥
पुनरप्रथमे
भेदे
निर्निश्चयनिषेधयोः
।
स्यात्प्रबन्धे
चिरातीते
निकटागामिके
पुरा
॥३.३.२६८॥
ऊरर्यूरी
चोररी
च
विस्तारेऽङ्गीकृतौ
त्रयम्
।
स्वर्गे
परे
च
लोके
स्वर्वार्तासम्भाव्ययोः
किल
॥३.३.२६९॥
निषेधवाक्यालङ्कारजिज्ञासानुनये
खलु
।
समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः
॥३.३.२७०॥
नामप्राकाश्ययोः
प्रादुर्मिथोऽन्योन्यं
रहस्यपि
।
तिरोऽन्तर्धौ
तिर्यगर्थे
हा
विषादशुगर्तिषु
॥३.३.२७१॥
अहहेत्यद्भुते
खेदे
हि
हेताववधारणे
।
"
॥३.३.२७२॥
इति
नानार्थवर्गः
।