अथ
अव्ययवर्गः
।
चिराय
चिररात्राय
चिरस्याद्याश्चिरार्थकाः
।
मुहुः
पुनः
पुनः
शश्वदभीक्ष्णमसकृत्समाः
॥३.४.१॥
द्राग्झटित्यञ्जसाह्नाय
द्राङ्मङ्क्षु
सपदि
द्रुते
।
बलवत्सुष्ठु
किमुत
स्वत्यतीव
च
निर्भरे
॥३.४.२॥
पृथग्विनान्तरेणर्ते
हिरुङ्नाना
च
वर्जने
।
यत्तद्यतस्ततो
हेतावसाकल्ये
तु
चिच्चन
॥३.४.३॥
कदाचिज्जातु
सार्धं
तु
साकं
सत्रा
समं
सह
।
आनुकूल्यार्थकं
प्राध्वं
व्यर्थके
तु
वृथा
मुधा
॥३.४.४॥
आहो
उताहो
किमुत
विकल्पे
किं
किमूत
च
।
तु
हि
च
स्म
ह
वै
पादपूरणे
पूजने
स्वति
॥३.४.५॥
दिवाह्नीत्यथ
दोषा
च
नक्तं
च
रजनावपि
।
तिर्यगर्थे
साचि
तिरोऽप्यथ
सम्बोधनार्थकाः
॥३.४.६॥
स्युः
प्याट्पाडङ्ग
हे
है
भोः
समया
निकषा
हिरुक्
।
अतर्किते
तु
सहसा
स्यात्पुरः
पुरतोऽग्रतः
॥३.४.७॥
स्वाहा
हा
देवहविर्दाने
श्रौषट्वौषट्वषट्स्वधा
।
किञ्चिदीषन्मनागल्पे
प्रेत्यामुत्र
भवान्तरे
॥३.४.८॥
व
वा
यथा
तथेवैवं
साम्येऽहो
ही
च
विस्मये
।
मौने
तु
तूष्णीं
तूष्णीकां
सद्यः
सपदि
तत्क्षणे
॥३.४.९॥
दिष्ट्या
समुपजोषं
चेत्यानन्देऽथान्तरेऽन्तरा
।
अन्तरेण
च
मध्ये
स्युः
प्रसह्य
तु
हठार्थकम्
॥३.४.१०॥
युक्ते
द्वे
सांप्रतं
स्थानेऽभीक्ष्णं
शश्वदनारते
।
अभावे
नह्य
नो
नापि
मास्म
मालं
च
वारणे
॥३.४.११॥
पक्षान्तरे
चेद्यदि
च
तत्त्वे
त्वद्धाञ्जसा
द्वयम्
।
प्राकाश्ये
प्रादुराविः
स्यादोमेवं
परमं
मते
॥३.४.१२॥
समन्ततस्तु
परितः
सर्वतो
विष्वगित्यपि
।
अकामानुमतौ
काममसूयोपगमेऽस्तु
च
॥३.४.१३॥
ननु
च
स्याद्विरोधोक्तौ
कश्चित्कामप्रवेदने
।
निष्षमं
दुष्षमं
गर्ह्ये
यथास्वं
तु
यथायथम्
॥३.४.१४॥
मृषा
मिथ्या
च
वितथे
यथार्थं
तु
यथातथम्
।
स्युरेवं
तु
पुनर्वै
वेत्यवधारणवाचकाः
॥३.४.१५॥
प्रागतीतार्थकं
नूनमवश्यं
निश्चये
द्वयम्
।
संवद्वर्षेऽवरे
त्वर्वागामेवं
स्वयमात्मना
॥३.४.१६॥
अल्पे
नीचैर्महत्युच्चैः
प्रायो
भूम्न्यद्रुते
शनैः
।
सना
नित्ये
बहिर्बाह्ये
स्मातीतेऽस्तमदर्शने
॥३.४.१७॥
अस्ति
सत्वे
रुषोक्तावु
ऊं
प्रश्नेऽनुनये
त्वयि
।
हुं
तर्के
स्यादुषा
रात्रेरवसाने
नमो
नतौ
॥३.४.१८॥
पुनरर्थेऽङ्ग
निन्दायां
दुष्ठु
सुष्ठु
प्रशंसने
।
सायं
साये
प्रगे
प्रातः
प्रभाते
निकषान्तिके
॥३.४.१९॥
परुत्परार्यैषमोऽब्दे
पूर्वे
पूर्वतरे
यति
।
अद्यात्राह्न्यथ
पूर्वेऽह्नीत्यादौ
पूर्वोत्तरापरात्
॥३.४.२०॥
तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः
।
उभयद्युश्चोभयेद्युः
परेत्वह्नि
परेद्यवि
॥३.४.२१॥
ह्यो
गतेऽनागतेऽह्नि
श्वः
परश्वस्तु
परेऽहनि
।
तदा
तदानीं
युगपदेकदा
सर्वदा
सदा
॥३.४.२२॥
एतर्हि
संप्रतीदानीमधुना
साम्प्रतं
तथा
।
दिग्देशकाले
पूर्वादौ
प्रागुदक्प्रत्यगादयः
॥३.४.२३॥
इति
अव्ययवर्गः
।