अथ
द्वितीयः
पादः
।
कर्मण्यण्
॥३.२.१॥
ह्वावामश्च
॥३.२.२॥
आतोऽनुपसर्गे
कः
॥३.२.३॥
सुपि
स्थः
॥३.२.४॥
तुन्दशोकयोः
परिमृजापनुदोः
॥३.२.५॥
प्रे
दाज्ञः
॥३.२.६॥
समि
ख्यः
॥३.२.७॥
गापोष्टक्
॥३.२.८॥
हरतेरनुद्यमनेऽच्
॥३.२.९॥
वयसि
च
॥३.२.१०॥
आङि
ताच्छील्ये
॥३.२.११॥
अर्हः
॥३.२.१२॥
स्तम्बकर्णयो
रमिजपोः
॥३.२.१३॥
शमि
धातोः
संज्ञायाम्
॥३.२.१४॥
अधिकरणे
शेतेः
॥३.२.१५॥
चरेष्टः
॥३.२.१६॥
भिक्षासेनादायेषु
च
॥३.२.१७॥
पुरोऽग्रतोऽग्रेषु
सर्तेः
॥३.२.१८॥
पूर्वे
कर्तरि
॥३.२.१९॥
कृञो
हेतुताच्छील्यानुलोम्येषु
॥३.२.२०॥
दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिम्लिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तत्धनुररुष्षु
॥३.२.२१॥
कर्मणि
भृतौ
॥३.२.२२॥
न
शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु
॥३.२.२३॥
स्तम्बशकृतोरिन्
॥३.२.२४॥
हरतेर्दृतिनाथयोः
पशौ
॥३.२.२५॥
फलेग्रहिरात्मम्भरिश्च
॥३.२.२६॥
छन्दसि
वनसनरक्षिमथाम्
॥३.२.२७॥
एजेः
खश्
॥३.२.२८॥
नासिकास्तनयोर्ध्माधेटोः
॥३.२.२९॥
नाडीमुष्ट्योश्च
॥३.२.३०॥
उदि
कूले
रुजिवहोः
॥३.२.३१॥
वहाभ्रे
लिहः
॥३.२.३२॥
परिमाणे
पचः
॥३.२.३३॥
मितनखे
च
॥३.२.३४॥
विध्वरुषोस्तुदः
॥३.२.३५॥
असूर्यललाटयोर्दृशितपोः
॥३.२.३६॥
उग्रम्पश्येरम्मदपाणिन्धमाश्च
॥३.२.३७॥
प्रियवशे
वदः
खच्
॥३.२.३८॥
द्विषत्परयोस्तापेः
॥३.२.३९॥
वाचि
यमो
व्रते
॥३.२.४०॥
पूःसर्वयोर्दारिसहोः
॥३.२.४१॥
सर्वकूलाभ्रकरीषेषु
कषः
॥३.२.४२॥
मेघर्तिभयेषु
कृञः
॥३.२.४३॥
क्षेमप्रियमद्रेऽण्
च
॥३.२.४४॥
आशिते
भुवः
करणभावयोः
॥३.२.४५॥
संज्ञायां
भृतॄवृजिधारिसहितपिदमः
॥३.२.४६॥
गमश्च
॥३.२.४७॥
अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु
डः
॥३.२.४८॥
आशिषि
हनः
॥३.२.४९॥
अपे
क्लेशतमसोः
॥३.२.५०॥
कुमारशीर्षयोर्णिनिः
॥३.२.५१॥
लक्षणे
जायापत्योष्टक्
॥३.२.५२॥
अमनुष्यकर्तृके
च
॥३.२.५३॥
शक्तौ
हस्तिकपाटयोः
॥३.२.५४॥
पाणिघताडघौ
शिल्पिनि
॥३.२.५५॥
आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु
च्व्यर्थेष्वच्वौ
कृञः
करणे
ख्युन्
॥३.२.५६॥
कर्तरि
भुवः
खिष्णुच्खुकञौ
॥३.२.५७॥
स्पृशोऽनुदके
क्विन्
॥३.२.५८॥
ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां
च
॥३.२.५९॥
त्यदादिषु
दृशोऽनालोचने
कञ्
च
॥३.२.६०॥
सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि
क्विप्
॥३.२.६१॥
भजो
ण्विः
॥३.२.६२॥
छन्दसि
सहः
॥३.२.६३॥
वहश्च
॥३.२.६४॥
कव्यपुरीषपुरीष्येषु
ञ्युट्
॥३.२.६५॥
हव्येऽनन्तः
पादम्
॥३.२.६६॥
जनसनखनक्रमगमो
विट्
॥३.२.६७॥
अदोऽनन्ने
॥३.२.६८॥
क्रव्ये
च
॥३.२.६९॥
दुहः
कब्
घश्च
॥३.२.७०॥
मन्त्रे
श्वेतवहोक्थशस्पुरोडाशो
ण्विन्
॥३.२.७१॥
अवे
यजः
॥३.२.७२॥
विजुपे
छन्दसि
॥३.२.७३॥
आतो
मनिन्क्वनिब्वनिपश्च
॥३.२.७४॥
अन्येभ्योऽपि
दृश्यन्ते
॥३.२.७५॥
क्विप्
च
॥३.२.७६॥
स्थः
क
च
॥३.२.७७॥
सुप्यजातौ
णिनिस्ताच्छील्ये
॥३.२.७८॥
कर्तर्युपमाने
॥३.२.७९॥
व्रते
॥३.२.८०॥
बहुलमाभीक्ष्ण्ये
॥३.२.८१॥
मनः
॥३.२.८२॥
आत्ममाने
खश्च
॥३.२.८३॥
भूते
॥३.२.८४॥
करणे
यजः
॥३.२.८५॥
कर्मणि
हनः
॥३.२.८६॥
ब्रह्मभ्रूणवृत्रेषु
क्विप्
॥३.२.८७॥
बहुलं
छन्दसि
॥३.२.८८॥
सुकर्मपापमन्त्रपुण्येषु
कृञः
॥३.२.८९॥
सोमे
सुञः
॥३.२.९०॥
अग्नौ
चेः
॥३.२.९१॥
कर्मण्यग्न्याख्यायाम्
॥३.२.९२॥
कर्मणीनिविक्रियः
॥३.२.९३॥
दृशेः
क्वनिप्
॥३.२.९४॥
राजनि
युधिकृञः
॥३.२.९५॥
सहे
च
॥३.२.९६॥
सप्तम्यां
जनेर्डः
॥३.२.९७॥
पञ्चम्यामजातौ
॥३.२.९८॥
उपसर्गे
च
संज्ञायाम्
॥३.२.९९॥
अनौ
कर्मणि
॥३.२.१००॥
अन्येष्वपि
दृश्यते
॥३.२.१०१॥
निष्ठा
॥३.२.१०२॥
सुयजोर्ङ्वनिप्
॥३.२.१०३॥
जीर्यतेरतृन्
॥३.२.१०४॥
छन्दसि
लिट्
॥३.२.१०५॥
लिटः
कानज्वा
॥३.२.१०६॥
क्वसुश्च
॥३.२.१०७॥
भाषायां
सदवसश्रुवः
॥३.२.१०८॥
उपेयिवाननाश्वाननूचानश्च
॥३.२.१०९॥
लुङ्
॥३.२.११०॥
अनद्यतने
लङ्
॥३.२.१११॥
अभिज्ञावचने
लृट्
॥३.२.११२॥
न
यदि
॥३.२.११३॥
विभाषा
साकाङ्क्षे
॥३.२.११४॥
परोक्षे
लिट्
॥३.२.११५॥
हशश्वतोर्लङ्
च
॥३.२.११६॥
प्रश्ने
चासन्नकाले
॥३.२.११७॥
लट्
स्मे
॥३.२.११८॥
अपरोक्षे
च
॥३.२.११९॥
ननौ
पृष्टप्रतिवचने
॥३.२.१२०॥
नन्वोर्विभाषा
॥३.२.१२१॥
पुरि
लुङ्
चास्मे
॥३.२.१२२॥
वर्तमाने
लट्
॥३.२.१२३॥
लटः
शतृशानचावप्रथमासमानाधिकरणे
॥३.२.१२४॥
सम्बोधने
च
॥३.२.१२५॥
लक्षणहेत्वोः
क्रियायाः
॥३.२.१२६॥
तौ
सत्
॥३.२.१२७॥
पूङ्यजोः
शानन्
॥३.२.१२८॥
ताच्छील्यवयोवचनशक्तिषु
चानश्
॥३.२.१२९॥
इङ्धार्योः
शत्रकृच्छ्रिणि
॥३.२.१३०॥
द्विषोऽमित्रे
॥३.२.१३१॥
सुञो
यज्ञसंयोगे
॥३.२.१३२॥
अर्हः
प्रशंसायाम्
॥३.२.१३३॥
आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु
॥३.२.१३४॥
तृन्
॥३.२.१३५॥
अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर
इष्णुच्
॥३.२.१३६॥
णेश्छन्दसि
॥३.२.१३७॥
भुवश्च
॥३.२.१३८॥
ग्लाजिस्थश्च
क्स्नुः
॥३.२.१३९॥
त्रसिगृधिधृषिक्षिपेः
क्नुः
॥३.२.१४०॥
शमित्यष्टाभ्यो
घिनुण्
॥३.२.१४१॥
संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च
॥३.२.१४२॥
वौ
कषलसकत्थस्रम्भः
॥३.२.१४३॥
अपे
च
लषः
॥३.२.१४४॥
प्रे
लपसृद्रुमथवदवसः
॥३.२.१४५॥
निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूञो
वुञ्
॥३.२.१४६॥
देविक्रुशोश्चोपसर्गे
॥३.२.१४७॥
चलनशब्दार्थादकर्मकाद्युच्
॥३.२.१४८॥
अनुदात्तेतश्च
हलादेः
॥३.२.१४९॥
जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः
॥३.२.१५०॥
क्रुधमण्डार्थेभ्यश्च
॥३.२.१५१॥
न
यः
॥३.२.१५२॥
सूददीपदीक्षश्च
॥३.२.१५३॥
लषपतपदस्थाभूवृषहनकमगमशॄभ्य
उकञ्
॥३.२.१५४॥
जल्पभिक्षकुट्टलुण्टवृङः
षाकन्
॥३.२.१५५॥
प्रजोरिनिः
॥३.२.१५६॥
जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च
॥३.२.१५७॥
स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य
आलुच्
॥३.२.१५८॥
दाधेट्सिशदसदो
रुः
॥३.२.१५९॥
सृघस्यदः
क्मरच्
॥३.२.१६०॥
भञ्जभासमिदो
घुरच्
॥३.२.१६१॥
विदिभिदिच्छिदेः
कुरच्
॥३.२.१६२॥
इण्नश्जिसर्त्तिभ्यः
क्वरप्
॥३.२.१६३॥
गत्वरश्च
॥३.२.१६४॥
जागुरूकः
॥३.२.१६५॥
यजजपदशां
यङः
॥३.२.१६६॥
नमिकम्पिस्म्यजसकमहिंसदीपो
रः
॥३.२.१६७॥
सनाशंसभिक्ष
उः
॥३.२.१६८॥
विन्दुरिच्छुः
॥३.२.१६९॥
क्याच्छन्दसि
॥३.२.१७०॥
आदृगमहनजनः
किकिनौ
लिट्
च
॥३.२.१७१॥
स्वपितृषोर्नजिङ्
॥३.२.१७२॥
शॄवन्द्योरारुः
॥३.२.१७३॥
भियः
क्रुक्लुकनौ
॥३.२.१७४॥
स्थेशभासपिसकसो
वरच्
॥३.२.१७५॥
यश्च
यङः
॥३.२.१७६॥
भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः
क्विप्
॥३.२.१७७॥
अन्येभ्योऽपि
दृश्यते
॥३.२.१७८॥
भुवः
संज्ञाऽन्तरयोः
॥३.२.१७९॥
विप्रसम्भ्यो
ड्वसंज्ञायाम्
॥३.२.१८०॥
धः
कर्मणि
ष्ट्रन्
॥३.२.१८१॥
दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः
करणे
॥३.२.१८२॥
हलसूकरयोः
पुवः
॥३.२.१८३॥
अर्तिलूधूसूखनसहचर
इत्रः
॥३.२.१८४॥
पुवः
संज्ञायाम्
॥३.२.१८५॥
कर्तरि
चर्षिदेवतयोः
॥३.२.१८६॥
ञीतः
क्तः
॥३.२.१८७॥
मतिबुद्धिपूजार्थेभ्यश्च
॥३.२.१८८॥
कर्मणि-दिवा-पूःसर्व-सत्सू-बहुलम्-अन्येष्वपि-नन्वोः-शमिति-भञ्जभास-धःकर्मणि-अष्टौ
॥
इति
द्वितीयः
पादः
॥