अथ
षष्ठोध्यायः
।
अथ
प्रथमः
पादः
।
एकाचो
द्वे
प्रथमस्य
॥६.१.१॥
अजादेर्द्वितीयस्य
॥६.१.२॥
न
न्द्राः
संयोगादयः
॥६.१.३॥
पूर्वोऽभ्यासः
॥६.१.४॥
उभे
अभ्यस्तम्
॥६.१.५॥
जक्षित्यादयः
षट्
॥६.१.६॥
तुजादीनां
दीर्घोऽभ्यासस्य
॥६.१.७॥
लिटि
धातोरनभ्यासस्य
॥६.१.८॥
सन्यङोः
॥६.१.९॥
श्लौ
॥६.१.१०॥
चङि
॥६.१.११॥
दाश्वान्
साह्वान्
मीढ्वांश्च
॥६.१.१२॥
ष्यङः
सम्प्रसारणं
पुत्रपत्योस्तत्पुरुषे
॥६.१.१३॥
बन्धुनि
बहुव्रीहौ
॥६.१.१४॥
वचिस्वपियजादीनां
किति
॥६.१.१५॥
ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां
ङिति
च
॥६.१.१६॥
लिट्यभ्यासस्योभयेषाम्
॥६.१.१७॥
स्वापेश्चङि
॥६.१.१८॥
स्वपिस्यमिव्येञां
यङि
॥६.१.१९॥
न
वशः
॥६.१.२०॥
चायः
की
॥६.१.२१॥
स्फायः
स्फी
निष्ठायाम्
॥६.१.२२॥
स्त्यः
प्रपूर्वस्य
॥६.१.२३॥
द्रवमूर्तिस्पर्शयोः
श्यः
॥६.१.२४॥
प्रतेश्च
॥६.१.२५॥
विभाषाऽभ्यवपूर्वस्य
॥६.१.२६॥
शृतं
पाके
॥६.१.२७॥
प्यायः
पी
॥६.१.२८॥
लिड्यङोश्च
॥६.१.२९॥
विभाषा
श्वेः
॥६.१.३०॥
णौ
च
संश्चङोः
॥६.१.३१॥
ह्वः
सम्प्रसारणम्
॥६.१.३२॥
अभ्यस्तस्य
च
॥६.१.३३॥
बहुलं
छन्दसि
॥६.१.३४॥
चायः
की
॥६.१.३५॥
अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताःश्रितमाशीराशीर्त्ताः
॥६.१.३६॥
न
सम्प्रसारणे
सम्प्रसारणम्
॥६.१.३७॥
लिटि
वयो
यः
॥६.१.३८॥
वश्चास्यान्यतरस्याम्
किति
॥६.१.३९॥
वेञः
॥६.१.४०॥
ल्यपि
च
॥६.१.४१॥
ज्यश्च
॥६.१.४२॥
व्यश्च
॥६.१.४३॥
विभाषा
परेः
॥६.१.४४॥
आदेच
उपदेशेऽशिति
॥६.१.४५॥
न
व्यो
लिटि
॥६.१.४६॥
स्फुरतिस्फुलत्योर्घञि
॥६.१.४७॥
क्रीङ्जीनां
णौ
॥६.१.४८॥
सिध्यतेरपारलौकिके
॥६.१.४९॥
मीनातिमिनोतिदीङां
ल्यपि
च
॥६.१.५०॥
विभाषा
लीयतेः
॥६.१.५१॥
खिदेश्छन्दसि
॥६.१.५२॥
अपगुरो
णमुलि
॥६.१.५३॥
चिस्फुरोर्णौ
॥६.१.५४॥
प्रजने
वीयतेः
॥६.१.५५॥
बिभेतेर्हेतुभये
॥६.१.५६॥
नित्यं
स्मयतेः
॥६.१.५७॥
सृजिदृशोर्झल्यमकिति
॥६.१.५८॥
अनुदात्तस्य
चर्दुपधस्यान्यतरस्याम्
॥६.१.५९॥
शीर्षंश्छन्दसि
॥६.१.६०॥
ये
च
तद्धिते
॥६.१.६१॥
अचि
शीर्षः
॥६.१.६२॥
पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु
॥६.१.६३॥
धात्वादेः
षः
सः
॥६.१.६४॥
णो
नः
॥६.१.६५॥
लोपो
व्योर्वलि
॥६.१.६६॥
वेरपृक्तस्य
॥६.१.६७॥
हल्ङ्याब्भ्यो
दीर्घात्
सुतिस्यपृक्तं
हल्
॥६.१.६८॥
एङ्ह्रस्वात्
सम्बुद्धेः
॥६.१.६९॥
शेश्छन्दसि
बहुलम्
॥६.१.७०॥
ह्रस्वस्य
पिति
कृति
तुक्
॥६.१.७१॥
संहितायाम्
॥६.१.७२॥
छे
च
॥६.१.७३॥
आङ्माङोश्च
॥६.१.७४॥
दीर्घात्
॥६.१.७५॥
पदान्ताद्वा
॥६.१.७६॥
इको
यणचि
॥६.१.७७॥
एचोऽयवायावः
॥६.१.७८॥
वान्तो
यि
प्रत्यये
॥६.१.७९॥
धातोस्तन्निमित्तस्यैव
॥६.१.८०॥
क्षय्यजय्यौ
शक्यार्थे
॥६.१.८१॥
क्रय्यस्तदर्थे
॥६.१.८२॥
भय्यप्रवय्ये
च
च्छन्दसि
॥६.१.८३॥
एकः
पूर्वपरयोः
॥६.१.८४॥
अन्तादिवच्च
॥६.१.८५॥
षत्वतुकोरसिद्धः
॥६.१.८६॥
आद्गुणः
॥६.१.८७॥
वृद्धिरेचि
॥६.१.८८॥
एत्येधत्यूठ्सु
॥६.१.८९॥
आटश्च
॥६.१.९०॥
उपसर्गादृति
धातौ
॥६.१.९१॥
वा
सुप्यापिशलेः
॥६.१.९२॥
औतोऽम्शसोः
॥६.१.९३॥
एङि
पररूपम्
॥६.१.९४॥
ओमाङोश्च
॥६.१.९५॥
उस्यपदान्तात्
॥६.१.९६॥
अतो
गुणे
॥६.१.९७॥
अव्यक्तानुकरणस्यात
इतौ
॥६.१.९८॥
नाम्रेडितस्यान्त्यस्य
तु
वा
॥६.१.९९॥
नित्यमाम्रेडिते
डाचि
॥६.१.१००॥
अकः
सवर्णे
दीर्घः
॥६.१.१०१॥
प्रथमयोः
पूर्वसवर्णः
॥६.१.१०२॥
तस्माच्छसो
नः
पुंसि
॥६.१.१०३॥
नादिचि
॥६.१.१०४॥
दीर्घाज्जसि
च
॥६.१.१०५॥
वा
छन्दसि
॥६.१.१०६॥
अमि
पूर्वः
॥६.१.१०७॥
सम्प्रसारणाच्च
॥६.१.१०८॥
एङः
पदान्तादति
॥६.१.१०९॥
ङसिङसोश्च
॥६.१.११०॥
ऋत
उत्
॥६.१.१११॥
ख्यत्यात्
परस्य
॥६.१.११२॥
अतो
रोरप्लुतादप्लुते
॥६.१.११३॥
हशि
च
॥६.१.११४॥
प्रकृत्याऽन्तःपादमव्यपरे
॥६.१.११५॥
अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु
च
॥६.१.११६॥
यजुष्युरः
॥६.१.११७॥
आपोजुषाणोवृष्णोवर्षिष्ठेऽम्बेऽम्बालेऽम्बिकेपूर्वे
॥६.१.११८॥
अङ्ग
इत्यादौ
च
॥६.१.११९॥
अनुदात्ते
च
कुधपरे
॥६.१.१२०॥
अवपथासि
च
॥६.१.१२१॥
सर्वत्र
विभाषा
गोः
॥६.१.१२२॥
अवङ्
स्फोटायनस्य
॥६.१.१२३॥
इन्द्रे
च
॥६.१.१२४॥
प्लुतप्रगृह्या
अचि
नित्यम्
॥६.१.१२५॥
आङोऽनुनासिकश्छन्दसि
॥६.१.१२६॥
इकोऽसवर्णे
शाकल्यस्य
ह्रस्वश्च
॥६.१.१२७॥
ऋत्यकः
॥६.१.१२८॥
अप्लुतवदुपस्थिते
॥६.१.१२९॥
ई३
चाक्रवर्मणस्य
॥६.१.१३०॥
दिव
उत्
॥६.१.१३१॥
एतत्तदोः
सुलोपोऽकोरनञ्समासे
हलि
॥६.१.१३२॥
स्यश्छन्दसि
बहुलम्
॥६.१.१३३॥
सोऽचि
लोपे
चेत्
पादपूरणम्
॥६.१.१३४॥
सुट्
कात्
पूर्वः
॥६.१.१३५॥
अडभ्यासव्यवायेऽपि
॥६.१.१३६॥
सम्पर्युपेभ्यः
करोतौ
भूषणे
॥६.१.१३७॥
समवाये
च
॥६.१.१३८॥
उपात्
प्रतियत्नवैकृतवाक्याध्याहारेषु
॥६.१.१३९॥
किरतौ
लवने
॥६.१.१४०॥
हिंसायां
प्रतेश्च
॥६.१.१४१॥
अपाच्चतुष्पाच्छकुनिष्वालेखने
॥६.१.१४२॥
कुस्तुम्बुरूणि
जातिः
॥६.१.१४३॥
अपरस्पराः
क्रियासातत्ये
॥६.१.१४४॥
गोष्पदं
सेवितासेवितप्रमाणेषु
॥६.१.१४५॥
आस्पदं
प्रतिष्ठायाम्
॥६.१.१४६॥
आश्चर्यमनित्ये
॥६.१.१४७॥
वर्चस्केऽवस्करः
॥६.१.१४८॥
अपस्करो
रथाङ्गम्
॥६.१.१४९॥
विष्किरः
शकुनौ
वा
॥६.१.१५०॥
ह्रस्वाच्चन्द्रोत्तरपदे
मन्त्रे
॥६.१.१५१॥
प्रतिष्कशश्च
कशेः
॥६.१.१५२॥
प्रस्कण्वहरिश्चन्द्रावृषी
॥६.१.१५३॥
मस्करमस्करिणौ
वेणुपरिव्राजकयोः
॥६.१.१५४॥
कास्तीराजस्तुन्दे
नगरे
॥६.१.१५५॥
कारस्करो
वृक्षः
॥६.१.१५६॥
पारस्करप्रभृतीनि
च
संज्ञायाम्
॥६.१.१५७॥
अनुदात्तं
पदमेकवर्जम्
॥६.१.१५८॥
कर्षात्वतो
घञोऽन्त
उदात्तः
॥६.१.१५९॥
उञ्छादीनां
च
॥६.१.१६०॥
अनुदात्तस्य
च
यत्रोदात्तलोपः
॥६.१.१६१॥
धातोः
॥६.१.१६२॥
चितः
॥६.१.१६३॥
तद्धितस्य
॥६.१.१६४॥
कितः
॥६.१.१६५॥
तिसृभ्यो
जसः
॥६.१.१६६॥
चतुरः
शसि
॥६.१.१६७॥
सावेकाचस्तृतीयादिर्विभक्तिः
॥६.१.१६८॥
अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे
॥६.१.१६९॥
अञ्चेश्छन्दस्यसर्वनामस्थानम्
॥६.१.१७०॥
ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः
॥६.१.१७१॥
अष्टनो
दीर्घात्
॥६.१.१७२॥
शतुरनुमो
नद्यजादी
॥६.१.१७३॥
उदात्तयणो
हल्पूर्वात्
॥६.१.१७४॥
नोङ्धात्वोः
॥६.१.१७५॥
ह्रस्वनुड्भ्यां
मतुप्
॥६.१.१७६॥
नामन्यतरस्याम्
॥६.१.१७७॥
ङ्याश्छन्दसि
बहुलम्
॥६.१.१७८॥
षट्त्रिचतुर्भ्यो
हलादिः
॥६.१.१७९॥
झल्युपोत्तमम्
॥६.१.१८०॥
विभाषा
भाषायाम्
॥६.१.१८१॥
न
गोश्वन्त्साववर्णराडङ्क्रुङ्कृद्भ्यः
॥६.१.१८२॥
दिवो
झल्
॥६.१.१८३॥
नृ
चान्यतरस्याम्
॥६.१.१८४॥
तित्स्वरितम्
॥६.१.१८५॥
तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः
॥६.१.१८६॥
आदिः
सिचोऽन्यतरस्याम्
॥६.१.१८७॥
स्वपादिहिंसामच्यनिटि
॥६.१.१८८॥
अभ्यस्तानामादिः
॥६.१.१८९॥
अनुदात्ते
च
॥६.१.१९०॥
सर्वस्य
सुपि
॥६.१.१९१॥
भीह्रीभृहुमदजनधनदरिद्राजागरां
प्रत्ययात्
पूर्वम्
पिति
॥६.१.१९२॥
लिति
॥६.१.१९३॥
आदिर्णमुल्यन्यतरस्याम्
॥६.१.१९४॥
अचः
कर्तृयकि
॥६.१.१९५॥
थलि
च
सेटीडन्तो
वा
॥६.१.१९६॥
ञ्नित्यादिर्नित्यम्
॥६.१.१९७॥
आमन्त्रितस्य
च
॥६.१.१९८॥
पथिमथोः
सर्वनामस्थाने
॥६.१.१९९॥
अन्तश्च
तवै
युगपत्
॥६.१.२००॥
क्षयो
निवासे
॥६.१.२०१॥
जयः
करणम्
॥६.१.२०२॥
वृषादीनां
च
॥६.१.२०३॥
संज्ञायामुपमानम्
॥६.१.२०४॥
निष्ठा
च
द्व्यजनात्
॥६.१.२०५॥
शुष्कधृष्टौ
॥६.१.२०६॥
आशितः
कर्ता
॥६.१.२०७॥
रिक्ते
विभाषा
॥६.१.२०८॥
जुष्टार्पिते
च
छन्दसि
॥६.१.२०९॥
नित्यं
मन्त्रे
॥६.१.२१०॥
युष्मदस्मदोर्ङसि
॥६.१.२११॥
ङयि
च
॥६.१.२१२॥
यतोऽनावः
॥६.१.२१३॥
ईडवन्दवृशंसदुहां
ण्यतः
॥६.१.२१४॥
विभाषा
वेण्विन्धानयोः
॥६.१.२१५॥
त्यागरागहासकुहश्वठक्रथानाम्
॥६.१.२१६॥
उपोत्तमं
रिति
॥६.१.२१७॥
चङ्यन्यतरस्याम्
॥६.१.२१८॥
मतोः
पूर्वमात्
संज्ञायां
स्त्रियाम्
॥६.१.२१९॥
अन्तोऽवत्याः
॥६.१.२२०॥
ईवत्याः
॥६.१.२२१॥
चौ
॥६.१.२२२॥
समासस्य
॥६.१.२२३॥
एकाचश्-चायो-ल्यपिच-येच-क्षय्यजय्यौ-अकःसवर्णे-अवपथा-हिंसायाम्-अनुदात्तस्य-विभाषा-क्षय-ईवत्यास्-त्रीणि
॥
इति
प्रथमः
पादः
॥