अथ
द्वितीयः
पादः
।
बहुव्रीहौ
प्रकृत्या
पूर्वपदम्
॥६.२.१॥
तत्पुरुषे
तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः
॥६.२.२॥
वर्णो
वर्णेष्वनेते
॥६.२.३॥
गाधलवणयोः
प्रमाणे
॥६.२.४॥
दायाद्यं
दायादे
॥६.२.५॥
प्रतिबन्धि
चिरकृच्छ्रयोः
॥६.२.६॥
पदेऽपदेशे
॥६.२.७॥
निवाते
वातत्राणे
॥६.२.८॥
शारदेऽनार्तवे
॥६.२.९॥
अध्वर्युकषाययोर्जातौ
॥६.२.१०॥
सदृशप्रतिरूपयोः
सादृश्ये
॥६.२.११॥
द्विगौ
प्रमाणे
॥६.२.१२॥
गन्तव्यपण्यं
वाणिजे
॥६.२.१३॥
मात्रोपज्ञोपक्रमच्छाये
नपुंसके
॥६.२.१४॥
सुखप्रिययोर्हिते
॥६.२.१५॥
प्रीतौ
च
॥६.२.१६॥
स्वं
स्वामिनि
॥६.२.१७॥
पत्यावैश्वर्ये
॥६.२.१८॥
न
भूवाक्चिद्दिधिषु
॥६.२.१९॥
वा
भुवनम्
॥६.२.२०॥
आशङ्काबाधनेदीयस्सु
संभावने
॥६.२.२१॥
पूर्वे
भूतपूर्वे
॥६.२.२२॥
सविधसनीडसमर्यादसवेशसदेशेषु
सामीप्ये
॥६.२.२३॥
विस्पष्टादीनि
गुणवचनेषु
॥६.२.२४॥
श्रज्याऽवमकन्पापवत्सु
भावे
कर्मधारये
॥६.२.२५॥
कुमारश्च
॥६.२.२६॥
आदिः
प्रत्येनसि
॥६.२.२७॥
पूगेष्वन्यतरस्याम्
॥६.२.२८॥
इगन्तकालकपालभगालशरावेषु
द्विगौ
॥६.२.२९॥
बह्वन्यतरस्याम्
॥६.२.३०॥
दिष्टिवितस्त्योश्च
॥६.२.३१॥
सप्तमी
सिद्धशुष्कपक्वबन्धेष्वकालात्
॥६.२.३२॥
परिप्रत्युपापा
वर्ज्यमानाहोरात्रावयवेषु
॥६.२.३३॥
राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु
॥६.२.३४॥
संख्या
॥६.२.३५॥
आचार्योपसर्जनश्चान्तेवासी
॥६.२.३६॥
कार्तकौजपादयश्च
॥६.२.३७॥
महान्
व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु
॥६.२.३८॥
क्षुल्लकश्च
वैश्वदेवे
॥६.२.३९॥
उष्ट्रः
सादिवाम्योः
॥६.२.४०॥
गौः
सादसादिसारथिषु
॥६.२.४१॥
कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूःपण्यकम्बलो
दासीभाराणां
च
॥६.२.४२॥
चतुर्थी
तदर्थे
॥६.२.४३॥
अर्थे
॥६.२.४४॥
क्ते
च
॥६.२.४५॥
कर्मधारयेऽनिष्ठा
॥६.२.४६॥
अहीने
द्वितीया
॥६.२.४७॥
तृतीया
कर्मणि
॥६.२.४८॥
गतिरनन्तरः
॥६.२.४९॥
तादौ
च
निति
कृत्यतौ
॥६.२.५०॥
तवै
चान्तश्च
युगपत्
॥६.२.५१॥
अनिगन्तोऽञ्चतौ
वप्रत्यये
॥६.२.५२॥
न्यधी
च
॥६.२.५३॥
ईषदन्यतरस्याम्
॥६.२.५४॥
हिरण्यपरिमाणं
धने
॥६.२.५५॥
प्रथमोऽचिरोपसम्पत्तौ
॥६.२.५६॥
कतरकतमौ
कर्मधारये
॥६.२.५७॥
आर्यो
ब्राह्मणकुमारयोः
॥६.२.५८॥
राजा
च
॥६.२.५९॥
षष्ठी
प्रत्येनसि
॥६.२.६०॥
क्ते
नित्यार्थे
॥६.२.६१॥
ग्रामः
शिल्पिनि
॥६.२.६२॥
राजा
च
प्रशंसायाम्
॥६.२.६३॥
आदिरुदात्तः
॥६.२.६४॥
सप्तमीहारिणौ
धर्म्येऽहरणे
॥६.२.६५॥
युक्ते
च
॥६.२.६६॥
विभाषाऽध्यक्षे
॥६.२.६७॥
पापं
च
शिल्पिनि
॥६.२.६८॥
गोत्रान्तेवासिमाणवब्राह्मणेषु
क्षेपे
॥६.२.६९॥
अङ्गानि
मैरेये
॥६.२.७०॥
भक्ताख्यास्तदर्थेषु
॥६.२.७१॥
गोबिडालसिंहसैन्धवेषूपमाने
॥६.२.७२॥
अके
जीविकाऽर्थे
॥६.२.७३॥
प्राचां
क्रीडायाम्
॥६.२.७४॥
अणि
नियुक्ते
॥६.२.७५॥
शिल्पिनि
चाकृञः
॥६.२.७६॥
संज्ञायां
च
॥६.२.७७॥
गोतन्तियवं
पाले
॥६.२.७८॥
णिनि
॥६.२.७९॥
उपमानं
शब्दार्थप्रकृतावेव
॥६.२.८०॥
युक्तारोह्यादयश्च
॥६.२.८१॥
दीर्घकाशतुषभ्राष्ट्रवटं
जे
॥६.२.८२॥
अन्त्यात्
पूर्वं
बह्वचः
॥६.२.८३॥
ग्रामेऽनिवसन्तः
॥६.२.८४॥
घोषादिषु
च
॥६.२.८५॥
छात्र्यादयः
शालायाम्
॥६.२.८६॥
प्रस्थेऽवृद्धमकर्क्यादीनाम्
॥६.२.८७॥
मालादीनां
च
॥६.२.८८॥
अमहन्नवं
नगरेऽनुदीचाम्
॥६.२.८९॥
अर्मे
चावर्णं
द्व्यच्त्र्यच्
॥६.२.९०॥
न
भूताधिकसंजीवमद्राश्मकज्जलम्
॥६.२.९१॥
अन्तः
॥६.२.९२॥
सर्वं
गुणकार्त्स्न्ये
॥६.२.९३॥
संज्ञायां
गिरिनिकाययोः
॥६.२.९४॥
कुमार्यां
वयसि
॥६.२.९५॥
उदकेऽकेवले
॥६.२.९६॥
द्विगौ
क्रतौ
॥६.२.९७॥
सभायां
नपुंसके
॥६.२.९८॥
पुरे
प्राचाम्
॥६.२.९९॥
अरिष्टगौडपूर्वे
च
॥६.२.१००॥
न
हास्तिनफलकमार्देयाः
॥६.२.१०१॥
कुसूलकूपकुम्भशालं
बिले
॥६.२.१०२॥
दिक्शब्दा
ग्रामजनपदाख्यानचानराटेषु
॥६.२.१०३॥
आचार्योपसर्जनश्चान्तेवासिनि
॥६.२.१०४॥
उत्तरपदवृद्धौ
सर्वं
च
॥६.२.१०५॥
बहुव्रीहौ
विश्वं
संज्ञायाम्
॥६.२.१०६॥
उदराश्वेषुषु
॥६.२.१०७॥
क्षेपे
॥६.२.१०८॥
नदी
बन्धुनि
॥६.२.१०९॥
निष्ठोपसर्गपूर्वमन्यतरस्याम्
॥६.२.११०॥
उत्तरपदादिः
॥६.२.१११॥
कर्णो
वर्णलक्षणात्
॥६.२.११२॥
संज्ञौपम्ययोश्च
॥६.२.११३॥
कण्ठपृष्ठग्रीवाजंघं
च
॥६.२.११४॥
शृङ्गमवस्थायां
च
॥६.२.११५॥
नञो
जरमरमित्रमृताः
॥६.२.११६॥
सोर्मनसी
अलोमोषसी
॥६.२.११७॥
क्रत्वादयश्च
॥६.२.११८॥
आद्युदात्तं
द्व्यच्
छन्दसि
॥६.२.११९॥
वीरवीर्यौ
च
॥६.२.१२०॥
कूलतीरतूलमूलशालाऽक्षसममव्ययीभावे
॥६.२.१२१॥
कंसमन्थशूर्पपाय्यकाण्डं
द्विगौ
॥६.२.१२२॥
तत्पुरुषे
शालायां
नपुंसके
॥६.२.१२३॥
कन्था
च
॥६.२.१२४॥
आदिश्चिहणादीनाम्
॥६.२.१२५॥
चेलखेटकटुककाण्डं
गर्हायाम्
॥६.२.१२६॥
चीरमुपमानम्
॥६.२.१२७॥
पललसूपशाकं
मिश्रे
॥६.२.१२८॥
कूलसूदस्थलकर्षाः
संज्ञायाम्
॥६.२.१२९॥
अकर्मधारये
राज्यम्
॥६.२.१३०॥
वर्ग्यादयश्च
॥६.२.१३१॥
पुत्रः
पुंभ्यः
॥६.२.१३२॥
नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः
॥६.२.१३३॥
चूर्णादीन्यप्राणिषष्ठ्याः
॥६.२.१३४॥
षट्
च
काण्डादीनि
॥६.२.१३५॥
कुण्डं
वनम्
॥६.२.१३६॥
प्रकृत्या
भगालम्
॥६.२.१३७॥
शितेर्नित्याबह्वज्बहुव्रीहावभसत्
॥६.२.१३८॥
गतिकारकोपपदात्
कृत्
॥६.२.१३९॥
उभे
वनस्पत्यादिषु
युगपत्
॥६.२.१४०॥
देवताद्वन्द्वे
च
॥६.२.१४१॥
नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु
॥६.२.१४२॥
अन्तः
॥६.२.१४३॥
थाथघञ्क्ताजबित्रकाणाम्
॥६.२.१४४॥
सूपमानात्
क्तः
॥६.२.१४५॥
संज्ञायामनाचितादीनाम्
॥६.२.१४६॥
प्रवृद्धादीनां
च
॥६.२.१४७॥
कारकाद्दत्तश्रुतयोरेवाशिषि
॥६.२.१४८॥
इत्थम्भूतेन
कृतमिति
च
॥६.२.१४९॥
अनो
भावकर्मवचनः
॥६.२.१५०॥
मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः
॥६.२.१५१॥
सप्तम्याः
पुण्यम्
॥६.२.१५२॥
ऊनार्थकलहं
तृतीयायाः
॥६.२.१५३॥
मिश्रं
चानुपसर्गमसंधौ
॥६.२.१५४॥
नञो
गुणप्रतिषेधे
सम्पाद्यर्हहितालमर्थास्तद्धिताः
॥६.२.१५५॥
ययतोश्चातदर्थे
॥६.२.१५६॥
अच्कावशक्तौ
॥६.२.१५७॥
आक्रोशे
च
॥६.२.१५८॥
संज्ञायाम्
॥६.२.१५९॥
कृत्योकेष्णुच्चार्वादयश्च
॥६.२.१६०॥
विभाषा
तृन्नन्नतीक्ष्णशुचिषु
॥६.२.१६१॥
बहुव्रीहाविदमेतत्तद्भ्यः
प्रथमपूरणयोः
क्रियागणने
॥६.२.१६२॥
संख्यायाः
स्तनः
॥६.२.१६३॥
विभाषा
छन्दसि
॥६.२.१६४॥
संज्ञायां
मित्राजिनयोः
॥६.२.१६५॥
व्यवायिनोऽन्तरम्
॥६.२.१६६॥
मुखं
स्वाङ्गम्
॥६.२.१६७॥
नाव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः
॥६.२.१६८॥
निष्ठोपमानादन्यतरस्याम्
॥६.२.१६९॥
जातिकालसुखादिभ्योऽनाच्छादनात्
क्तोऽकृतमितप्रतिपन्नाः
॥६.२.१७०॥
वा
जाते
॥६.२.१७१॥
नञ्सुभ्याम्
॥६.२.१७२॥
कपि
पूर्वम्
॥६.२.१७३॥
ह्रस्वान्तेऽन्त्यात्
पूर्वम्
॥६.२.१७४॥
बहोर्नञ्वदुत्तरपदभूम्नि
॥६.२.१७५॥
न
गुणादयोऽवयवाः
॥६.२.१७६॥
उपसर्गात्
स्वाङ्गं
ध्रुवमपर्शु
॥६.२.१७७॥
वनं
समासे
॥६.२.१७८॥
अन्तः
॥६.२.१७९॥
अन्तश्च
॥६.२.१८०॥
न
निविभ्याम्
॥६.२.१८१॥
परेरभितोभाविमण्डलम्
॥६.२.१८२॥
प्रादस्वाङ्गं
संज्ञायाम्
॥६.२.१८३॥
निरुदकादीनि
च
॥६.२.१८४॥
अभेर्मुखम्
॥६.२.१८५॥
अपाच्च
॥६.२.१८६॥
स्फिगपूतवीणाऽञ्जोऽध्वकुक्षिसीरनामनाम
च
॥६.२.१८७॥
अधेरुपरिस्थम्
॥६.२.१८८॥
अनोरप्रधानकनीयसी
॥६.२.१८९॥
पुरुषश्चान्वादिष्टः
॥६.२.१९०॥
अतेरकृत्पदे
॥६.२.१९१॥
नेरनिधाने
॥६.२.१९२॥
प्रतेरंश्वादयस्तत्पुरुषे
॥६.२.१९३॥
उपाद्
द्व्यजजिनमगौरादयः
॥६.२.१९४॥
सोरवक्षेपणे
॥६.२.१९५॥
विभाषोत्पुच्छे
॥६.२.१९६॥
द्वित्रिभ्यां
पाद्दन्मूर्धसु
बहुव्रीहौ
॥६.२.१९७॥
सक्थं
चाक्रान्तात्
॥६.२.१९८॥
परादिश्छन्दसि
बहुलम्
॥६.२.१९९॥
बहुव्रीहौ-आशङ्का-गौःसाद-क्तेनित्यार्थे-युक्ता-नहास्तिन-कूलतीर-देवता-विभाषा-ननिवि-एकोनविंशतिः
॥
इति
द्वितीयः
पादः
॥