अथ
तृतीयः
पादः
।
अलुगुत्तरपदे
॥६.३.१॥
पञ्चम्याः
स्तोकादिभ्यः
॥६.३.२॥
ओजःसहोऽम्भस्तमसः
तृतीयायाः
॥६.३.३॥
मनसः
संज्ञायाम्
॥६.३.४॥
आज्ञायिनि
च
॥६.३.५॥
आत्मनश्च
पूरणे
॥६.३.६॥
वैयाकरणाख्यायां
चतुर्थ्याः
॥६.३.७॥
परस्य
च
॥६.३.८॥
हलदन्तात्
सप्तम्याः
संज्ञायाम्
॥६.३.९॥
कारनाम्नि
च
प्राचां
हलादौ
॥६.३.१०॥
मध्याद्गुरौ
॥६.३.११॥
अमूर्धमस्तकात्
स्वाङ्गादकामे
॥६.३.१२॥
बन्धे
च
विभाषा
॥६.३.१३॥
तत्पुरुषे
कृति
बहुलम्
॥६.३.१४॥
प्रावृट्शरत्कालदिवां
जे
॥६.३.१५॥
विभाषा
वर्षक्षरशरवरात्
॥६.३.१६॥
घकालतनेषु
कालनाम्नः
॥६.३.१७॥
शयवासवासिष्वकालात्
॥६.३.१८॥
नेन्सिद्धबध्नातिषु
॥६.३.१९॥
स्थे
च
भाषायाम्
॥६.३.२०॥
षष्ठ्या
आक्रोशे
॥६.३.२१॥
पुत्रेऽन्यतरस्याम्
॥६.३.२२॥
ऋतो
विद्यायोनिसम्बन्धेभ्यः
॥६.३.२३॥
विभाषा
स्वसृपत्योः
॥६.३.२४॥
आनङ्
ऋतो
द्वन्द्वे
॥६.३.२५॥
देवताद्वन्द्वे
च
॥६.३.२६॥
ईदग्नेः
सोमवरुणयोः
॥६.३.२७॥
इद्वृद्धौ
॥६.३.२८॥
दिवो
द्यावा
॥६.३.२९॥
दिवसश्च
पृथिव्याम्
॥६.३.३०॥
उषासोषसः
॥६.३.३१॥
मातरपितरावुदीचाम्
॥६.३.३२॥
पितरामातरा
च
च्छन्दसि
॥६.३.३३॥
स्त्रियाः
पुंवद्भाषितपुंस्कादनूङ्
समानाधिकरणे
स्त्रियामपूरणीप्रियाऽऽदिषु
॥६.३.३४॥
तसिलादिष्वाकृत्वसुचः
॥६.३.३५॥
क्यङ्मानिनोश्च
॥६.३.३६॥
न
कोपधायाः
॥६.३.३७॥
संज्ञापूरण्योश्च
॥६.३.३८॥
वृद्धिनिमित्तस्य
च
तद्धितस्यारक्तविकारे
॥६.३.३९॥
स्वाङ्गाच्चेतोऽमानिनि
॥६.३.४०॥
जातेश्च
॥६.३.४१॥
पुंवत्
कर्मधारयजातीयदेशीयेषु
॥६.३.४२॥
घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु
ङ्योऽनेकाचो
ह्रस्वः
॥६.३.४३॥
नद्याः
शेषस्यान्यतरस्याम्
॥६.३.४४॥
उगितश्च
॥६.३.४५॥
आन्महतः
समानाधिकरणजातीययोः
॥६.३.४६॥
द्व्यष्टनः
संख्यायामबहुव्रीह्यशीत्योः
॥६.३.४७॥
त्रेस्त्रयः
॥६.३.४८॥
विभाषा
चत्वारिंशत्प्रभृतौ
सर्वेषाम्
॥६.३.४९॥
हृदयस्य
हृल्लेखयदण्लासेषु
॥६.३.५०॥
वा
शोकष्यञ्रोगेषु
॥६.३.५१॥
पादस्य
पदाज्यातिगोपहतेषु
॥६.३.५२॥
पद्
यत्यतदर्थे
॥६.३.५३॥
हिमकाषिहतिषु
च
॥६.३.५४॥
ऋचः
शे
॥६.३.५५॥
वा
घोषमिश्रशब्देषु
॥६.३.५६॥
उदकस्योदः
संज्ञायाम्
॥६.३.५७॥
पेषंवासवाहनधिषु
च
॥६.३.५८॥
एकहलादौ
पूरयितव्येऽन्यतरस्याम्
॥६.३.५९॥
मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु
च
॥६.३.६०॥
इको
ह्रस्वोऽङ्यो
गालवस्य
॥६.३.६१॥
एक
तद्धिते
च
॥६.३.६२॥
ङ्यापोः
संज्ञाछन्दसोर्बहुलम्
॥६.३.६३॥
त्वे
च
॥६.३.६४॥
इष्टकेषीकामालानां
चिततूलभारिषु
॥६.३.६५॥
खित्यनव्ययस्य
॥६.३.६६॥
अरुर्द्विषदजन्तस्य
मुम्
॥६.३.६७॥
इच
एकाचोऽम्प्रत्ययवच्च
॥६.३.६८॥
वाचंयमपुरंदरौ
च
॥६.३.६९॥
कारे
सत्यागदस्य
॥६.३.७०॥
श्येनतिलस्य
पाते
ञे
॥६.३.७१॥
रात्रेः
कृति
विभाषा
॥६.३.७२॥
नलोपो
नञः
॥६.३.७३॥
तस्मान्नुडचि
॥६.३.७४॥
नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु
प्रकृत्या
॥६.३.७५॥
एकादिश्चैकस्य
चादुक्
॥६.३.७६॥
नगोऽप्राणिष्वन्यतरस्याम्
॥६.३.७७॥
सहस्य
सः
संज्ञायाम्
॥६.३.७८॥
ग्रन्थान्ताधिके
च
॥६.३.७९॥
द्वितीये
चानुपाख्ये
॥६.३.८०॥
अव्ययीभावे
चाकाले
॥६.३.८१॥
वोपसर्जनस्य
॥६.३.८२॥
प्रकृत्याऽऽशिष्यगोवत्सहलेषु
॥६.३.८३॥
समानस्य
छन्दस्यमूर्धप्रभृत्युदर्केषु
॥६.३.८४॥
ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु
॥६.३.८५॥
चरणे
ब्रह्मचारिणि
॥६.३.८६॥
तीर्थे
ये
॥६.३.८७॥
विभाषोदरे
॥६.३.८८॥
दृग्दृशवतुषु
॥६.३.८९॥
इदङ्किमोरीश्की
॥६.३.९०॥
आ
सर्वनाम्नः
॥६.३.९१॥
विष्वग्देवयोश्च
टेरद्र्यञ्चतावप्रत्यये
॥६.३.९२॥
समः
समि
॥६.३.९३॥
तिरसस्तिर्यलोपे
॥६.३.९४॥
सहस्य
सध्रिः
॥६.३.९५॥
सध
मादस्थयोश्छन्दसि
॥६.३.९६॥
द्व्यन्तरुपसर्गेभ्योऽप
ईत्
॥६.३.९७॥
ऊदनोर्देशे
॥६.३.९८॥
अषष्ठ्यतृतीयास्थस्यान्यस्य
दुगाशीराशाऽऽस्थाऽऽस्थितोत्सुकोतिकारकरागच्छेषु
॥६.३.९९॥
अर्थे
विभाषा
॥६.३.१००॥
कोः
कत्
तत्पुरुषेऽचि
॥६.३.१०१॥
रथवदयोश्च
॥६.३.१०२॥
तृणे
च
जातौ
॥६.३.१०३॥
का
पथ्यक्षयोः
॥६.३.१०४॥
ईषदर्थे
॥६.३.१०५॥
विभाषा
पुरुषे
॥६.३.१०६॥
कवं
चोष्णे
॥६.३.१०७॥
पथि
च
च्छन्दसि
॥६.३.१०८॥
पृषोदरादीनि
यथोपदिष्टम्
॥६.३.१०९॥
संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां
ङौ
॥६.३.११०॥
ढ्रलोपे
पूर्वस्य
दीर्घोऽणः
॥६.३.१११॥
सहिवहोरोदवर्णस्य
॥६.३.११२॥
साढ्यै
साढ्वा
साढेति
निगमे
॥६.३.११३॥
संहितायाम्
॥६.३.११४॥
कर्णे
लक्षणस्याविष्टाष्टपञ्चमणिभिन्नछिन्नछिद्रस्रुवस्वस्तिकस्य
॥६.३.११५॥
नहिवृतिवृषिव्यधिरुचिसहितनिषु
क्वौ
॥६.३.११६॥
वनगिर्योः
संज्ञायां
कोटरकिंशुलकादीनाम्
॥६.३.११७॥
वले
॥६.३.११८॥
मतौ
बह्वचोऽनजिरादीनाम्
॥६.३.११९॥
शरादीनां
च
॥६.३.१२०॥
इकः
वहेऽपीलोः
॥६.३.१२१॥
उपसर्गस्य
घञ्यमनुष्ये
बहुलम्
॥६.३.१२२॥
इकः
काशे
॥६.३.१२३॥
दस्ति
॥६.३.१२४॥
अष्टनः
संज्ञायाम्
॥६.३.१२५॥
छन्दसि
च
॥६.३.१२६॥
चितेः
कपि
॥६.३.१२७॥
विश्वस्य
वसुराटोः
॥६.३.१२८॥
नरे
संज्ञायाम्
॥६.३.१२९॥
मित्रे
चर्षौ
॥६.३.१३०॥
मन्त्रे
सोमाश्वेन्द्रियविश्वदेव्यस्य
मतौ
॥६.३.१३१॥
ओषधेश्च
विभक्तावप्रथमायाम्
॥६.३.१३२॥
ऋचि
तुनुघमक्षुतङ्कुत्रोरुष्याणाम्
॥६.३.१३३॥
इकः
सुञि
॥६.३.१३४॥
द्व्यचोऽतस्तिङः
॥६.३.१३५॥
निपातस्य
च
॥६.३.१३६॥
अन्येषामपि
दृश्यते
॥६.३.१३७॥
चौ
॥६.३.१३८॥
सम्प्रसारणस्य
॥६.३.१३९॥
अलुक्-षष्ठ्या-जातेर्-इको-अव्ययीभावे-कोःकत्तत्-इको-एकोनविंशतिः
॥
इति
तृतीयः
पादः
॥