अथ
अष्टमोध्यायः
।
अथ
प्रथमः
पादः
।
सर्वस्य
द्वे
॥८.१.१॥
तस्य
परमाम्रेडितम्
॥८.१.२॥
अनुदात्तं
च
॥८.१.३॥
नित्यवीप्सयोः
॥८.१.४॥
परेर्वर्जने
॥८.१.५॥
प्रसमुपोदः
पादपूरणे
॥८.१.६॥
उपर्यध्यधसः
सामीप्ये
॥८.१.७॥
वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु
॥८.१.८॥
एकं
बहुव्रीहिवत्
॥८.१.९॥
आबाधे
च
॥८.१.१०॥
कर्मधारयवत्
उत्तरेषु
॥८.१.११॥
प्रकारे
गुणवचनस्य
॥८.१.१२॥
अकृच्छ्रे
प्रियसुखयोरन्यतरस्याम्
॥८.१.१३॥
यथास्वे
यथायथम्
॥८.१.१४॥
द्वन्द्वं
रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु
॥८.१.१५॥
पदस्य
॥८.१.१६॥
पदात्
॥८.१.१७॥
अनुदात्तं
सर्वमपादादौ
॥८.१.१८॥
आमन्त्रितस्य
च
॥८.१.१९॥
युष्मदस्मदोः
षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ
॥८.१.२०॥
बहुवचनस्य
वस्नसौ
॥८.१.२१॥
तेमयावेकवचनस्य
॥८.१.२२॥
त्वामौ
द्वितीयायाः
॥८.१.२३॥
न
चवाहाहैवयुक्ते
॥८.१.२४॥
पश्यार्थैश्चानालोचने
॥८.१.२५॥
सपूर्वायाः
प्रथमाया
विभाषा
॥८.१.२६॥
तिङो
गोत्रादीनि
कुत्सनाभीक्ष्ण्ययोः
॥८.१.२७॥
तिङ्ङतिङः
॥८.१.२८॥
न
लुट्
॥८.१.२९॥
निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम्
॥८.१.३०॥
नह
प्रत्यारम्भे
॥८.१.३१॥
सत्यं
प्रश्ने
॥८.१.३२॥
अङ्गाप्रातिलोम्ये
॥८.१.३३॥
हि
च
॥८.१.३४॥
छन्दस्यनेकमपि
साकाङ्क्षम्
॥८.१.३५॥
यावद्यथाभ्याम्
॥८.१.३६॥
पूजायां
नानन्तरम्
॥८.१.३७॥
उपसर्गव्यपेतं
च
॥८.१.३८॥
तुपश्यपश्यताहैः
पूजायाम्
॥८.१.३९॥
अहो
च
॥८.१.४०॥
शेषे
विभाषा
॥८.१.४१॥
पुरा
च
परीप्सायाम्
॥८.१.४२॥
नन्वित्यनुज्ञैषणायाम्
॥८.१.४३॥
किं
क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम्
॥८.१.४४॥
लोपे
विभाषा
॥८.१.४५॥
एहिमन्ये
प्रहासे
लृट्
॥८.१.४६॥
जात्वपूर्वम्
॥८.१.४७॥
किम्वृत्तं
च
चिदुत्तरम्
॥८.१.४८॥
आहो
उताहो
चानन्तरम्
॥८.१.४९॥
शेषे
विभाषा
॥८.१.५०॥
गत्यर्थलोटा
लृण्न
चेत्
कारकं
सर्वान्यत्
॥८.१.५१॥
लोट्
च
॥८.१.५२॥
विभाषितं
सोपसर्गमनुत्तमम्
॥८.१.५३॥
हन्त
च
॥८.१.५४॥
आम
एकान्तरमामन्त्रितमनन्तिके
॥८.१.५५॥
यद्धितुपरं
छन्दसि
॥८.१.५६॥
चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः
॥८.१.५७॥
चादिषु
च
॥८.१.५८॥
चवायोगे
प्रथमा
॥८.१.५९॥
हेति
क्षियायाम्
॥८.१.६०॥
अहेति
विनियोगे
च
॥८.१.६१॥
चाहलोप
एवेत्यवधारणम्
॥८.१.६२॥
चादिलोपे
विभाषा
॥८.१.६३॥
वैवावेति
च
च्छन्दसि
॥८.१.६४॥
एकान्याभ्यां
समर्थाभ्याम्
॥८.१.६५॥
यद्वृत्तान्नित्यं
॥८.१.६६॥
पूजनात्
पूजितमनुदात्तं
काष्ठादिभ्यः
॥८.१.६७॥
सगतिरपि
तिङ्
॥८.१.६८॥
कुत्सने
च
सुप्यगोत्रादौ
॥८.१.६९॥
गतिर्गतौ
॥८.१.७०॥
तिङि
चोदात्तवति
॥८.१.७१॥
आमन्त्रितं
पूर्वमविद्यमानवत्
॥८.१.७२॥
नामन्त्रिते
समानाधिकरणे
सामान्यवचनम्
॥८.१.७३॥
विभाषितं
विशेषवचने
बहुवचनम्
॥८.१.७४॥
सर्वस्य-बहुवचनस्य-शेषे-अहेति-चतुर्दश
॥
इति
प्रथमः
पादः
॥