दीर्घीकुर्वन्
पटु
मदकलं
कूजितं
सारसानां
प्रत्यूषेषु
स्फुटितकमलामोदमैत्रीकषायः
यत्र
स्त्रीणां
हरति
सुरतग्लानिमङ्गानुकूलः
शिप्रावातः
प्रियतम
इव
प्रार्थनाचाटुकारः
हारांस्तारान्
तरलगुटिकान्
कोटिशः
शङ्कशुक्तीः
शष्पश्यामान्
मरकतमणीन्
उन्मयूखप्ररोहान्
दृष्ट्वा
यस्यां
विपणिरचितान्
विद्रुमाणां
च
भङ्गान्
संलक्ष्यन्ते
सलिलनिधयः
तोयमात्रावशेषाः
प्रद्योतस्य
प्रियदुहितरं
वत्सराजोऽत्र
जह्रे
हैमं
तालद्रुमवनमभूद्
अत्र
तस्यैव
राज्ञः
अत्रोद्भ्रान्तः
किल
नलगिरिः
स्तम्भमुत्पाट्य
दर्पाद्
इत्यागन्तून्
रमयति
जनो
यत्र
बन्धूनभिज्ञः
पत्रश्यामाः
दिनकरहयस्पर्धिनो
यत्र
वाहाः
शैलोदग्राः
त्वमिव
करिणः
वृष्टिमन्तः
प्रभेदात्
योधाग्रण्यः
प्रतिदशमुखं
संयुगे
तस्थिवांसः
प्रत्यादिष्टाभरणरुचयः
चन्द्रहासव्रणाङ्कैः
जालोद्गीर्णैः
उपचितवपुः
केशसंस्कारधूपैः
बन्धुप्रीत्या
भवनशिखिभिः
दत्तनृत्योपहारः
हर्म्येष्वस्याः
कुसुमसुरभिषु
अध्वखेदं
नयेथाः
लक्ष्मीं
पश्यन्
ललितवनितापादरागाङ्कितेषु
भर्तुः
कण्ठच्छविरिति
गणैः
सादरं
वीक्ष्यमाणः
पुण्यं
यायाः
त्रिभुवनगुरोर्धाम
चण्डीश्वरस्य
धूतोद्यानं
कुवलयरजोगन्धिभिः
गन्धवत्याः
तोयक्रीडानिरतयुवतिस्नानतिक्तैः
मरुद्भिः
अप्यन्यस्मिन्
जलधर
महाकालमासाद्य
काले
स्थातव्यं
ते
नयनविषयं
यावदत्येति
भानुः
कुर्वन्
सन्ध्याबलिपटहतां
शूलिनः
श्लाघनीयाम्
आमन्द्राणां
फलमविकलं
लप्स्यसे
गर्जितानाम्
पादन्यासैः
क्वणितरसनाः
तत्र
लीलावधूतैः
रत्नच्छायाखचितवलिभिः
चामरैः
क्लान्तहस्ताः
वेश्यास्त्वत्तो
नखपदसुखान्
प्राप्य
वर्षाग्रबिन्दून्
आमोक्ष्यन्ते
त्वयि
मधुकरश्रेणिदीर्घान्
कटक्षान्
पश्चादुच्चैर्भुजतरुवनं
मण्डलेनाभिलीनः
सांध्यं
तेजः
प्रतिनवजपापुष्परक्तं
दधानः
नृत्यारम्भे
हर
पशुपतेरार्द्रनागाजिनेच्छां
शान्तोद्वेगस्तिमितनयनं
दृष्टभक्तिर्भवान्या
गच्छन्तीनां
रमणवसतिं
योषितां
यत्र
नक्तं
रुद्धालोके
नरपतिपथे
सूचिभेद्यैस्तमोभिः
सौदामन्या
कनकनिकषस्निग्धया
दर्शयोर्वीं
तोयोत्सर्गस्तनितमुखरः
मा
स्म
भूर्विक्लवास्ताः
तां
कस्यांचिद्
भवनवलभौ
सुप्तपारावतायां
नीत्वा
रात्रिं
चिरविलसनात्
खिन्नविद्युत्कलत्रः
दृष्टे
सूर्ये
पुनरपि
भवान्
वाहयेदध्वशेषं
मन्दायन्ते
न
खलु
सुहृदामभ्युपेतार्थकृत्याः
तस्मिन्
काले
नयनसलिलं
योषितां
खण्डितानां
शान्तिं
नेयं
प्रणयिभिः
अतो
वर्त्म
भानोस्त्यजाशु
प्रालेयास्रं
कमलवदनात्
सोऽपि
हर्तुं
नलिन्याः
प्रत्यावृत्तस्त्वयि
कररुधि
स्यादनल्पभ्यसूयः
गम्भीरायाः
पयसि
सरितः
चेतसीव
प्रसन्ने
छायात्मापि
प्रकृतिसुभगः
लप्स्यते
ते
प्रवेशम्
तस्मादस्याः
कुमुदविशदान्यर्हसि
त्वं
न
धैर्यात्
मोघीकर्तुं
चटुलशफोरोद्वर्तनप्रेक्षितानि