पृथिवीं
शासतस्तस्य
पाकशासवतेजसः
।
किंचिदूनमनूनर्द्धेः
शरदामयुतं
ययौ
॥
न
चोपलेभे
पूर्वेषामृणनिर्मोक्षसाधनम्
।
सुताभिधानं
स
ज्योतिः
सद्यः
शोकतमोपहम्
॥
अतिष्ठत्प्रत्ययापेक्षसंततिः
स
चिरं
नृपः
।
प्राङ्यन्थादनभिव्यक्तरत्नोत्पत्तिरिवार्णवः
॥
ऋष्यश्रृङ्गादयस्तस्य
सन्तः
सन्तानकाङ्क्षिणः
।
आरेभिरे
जितात्मानः
पुत्रीयामिष्टिमृत्विजः
॥
तस्मिन्नवसरे
देवाः
पौलस्त्योपप्लुता
हरिम्
।
अभिजग्मुर्निदाघार्ताश्छायावृक्षमिवाध्वगाः
॥
ते
च
प्रापुरुदन्वन्तं
बुबुधे
चादिपूरुषः
।
अव्याक्षेपो
भविष्यन्त्याः
कार्यसिद्धेर्हि
लक्षणम्
॥
भोगिभोगासनासीनं
ददृशुस्तं
दिवौकसः
।
तत्फणामण्डलोदर्चिर्मणिद्योतितविग्रहम्
॥
श्रियः
पद्मनिषण्णायाःऋ
क्षौमान्तरितमेखले
।
अङअके
निक्षिप्तचरणमास्तीर्णकरपल्लवे
॥
प्रबुद्धपुण्डरीकाक्षं
बालातपनिभांशुकम्
।
दिवसं
शारदमिव
प्रारम्भसुखदर्शनम्
॥
प्रभानुलिप्तश्रीवत्सं
लक्ष्मीविभ्रमदर्पणम्
।
कौस्तुभाख्यमपां
सारं
बिभ्राणं
बृहतोरसा
॥
बाहुभिर्विटपाकारैर्दिव्याभरणभूषितैः
।
आविर्भूतमपां
मध्ये
पारिजातमिवापरम्
॥
दैत्यस्त्रीगण्डलेखानां
मदरागविलोपिभिः
।
हेतिभिश्चेतनावद्भिरुदीरितजयस्वनम्
॥
मुक्तशेषविरोधेन
कुलिशव्रणलक्ष्मणा
।
उपस्थितं
प्राञ्जलिना
विनीतेन
गरुत्मता
॥
योगनिद्रान्तविशदैः
पावनैरवलोकनैः
।
भृग्वादीननुगृह्णन्तं
सौखशायनिकानृषीन्
॥
प्रणिपत्य
सुरास्तस्मै
शमयित्रे
सुरद्विषाम्
।
अथैनं
तुष्टुवुः
स्तुत्यमवाङ्मनसगोचरम्
॥
नमो
विश्वसृजे
पूर्वं
विश्वं
तदनु
बिभ्रते
।
अथ
विश्वस्य
संहर्त्रे
तुभ्यं
त्रेधास्थितात्मने
॥
रसान्तराण्येकरसं
यथा
दिव्यं
पयोऽश्नुते
।
देशे
देशे
गुणेष्वेवमवस्थास्त्वमविक्रियः
॥
अमेयो
मितलोकस्त्वमनर्थी
प्रार्थनावहः
।
अजितो
जिष्णुरत्यन्तमव्यक्तो
व्यक्तकारणम्
॥
हृदयस्थमनासन्नमकामं
त्वां
तपस्विनम्
।
दयालुमनघस्पृष्टं
पुराणमजरं
विदुः
॥
सर्वज्ञस्त्वमविज्ञातः
सर्वयोनिस्त्वमात्मभूः
।
सर्वप्रभुरनीशस्त्वमेकस्त्वं
सर्वरूपभाक्
॥
सप्तसामोपगीतं
त्वां
सप्तार्णवजलेशयम्
।
सप्तार्चिर्मुखमाचख्युः
सप्तलोकैकसंश्रयम्
॥
चतुर्वर्गफलं
ज्ञानं
कालावस्थाश्चतुर्युगाः
।
चतुर्वर्णमयो
लोकस्त्वत्तः
सर्वं
चतुर्मुखात्
॥
अभ्यासनिगृहीतेन
मनसा
हृदयाश्रयम्
।
ज्योतिर्मयं
विचिन्वन्ति
योगिनस्त्वां
विमुक्तये
॥
अजस्य
गृह्णतो
जन्म
निरीहस्य
हतद्विपः
।
स्वपतो
जागरूकस्य
याथार्थ्यं
वेद
कस्तव?
॥
शब्दादीन्विषयान्भोक्तुं
चरितुं
दुश्चरं
तपः
।
पर्याप्तोऽसि
प्रजाः
पातुमौदासीन्येन
वर्तितुम्
॥
बहुधाप्यागमैर्भिन्नाः
पन्थानः
सिद्धिहेतवः
।
त्वय्येव
निपतन्त्योधा
जाह्नवीया
इवार्णवे
॥
त्वय्यावेशितचित्तानां
त्वत्समर्पितकर्मणाम्
।
गतिस्त्वं
वीतरागाणामभूयःसंनिवृत्तये
॥
प्रत्यक्षोऽप्यपरिच्छेद्यो
मह्यादिर्महिमा
तव
।
आप्तवागनुमानाभ्यां
साध्यं
त्वां
प्रति
का
कथा
॥
केवलं
स्मरणेनैव
पुनासि
पुरुषं
यतः
।
अनेन
वृत्तयः
शेषा
निवेदितफलास्त्वयि
॥
उदधेरिव
रत्नानि
तेजांसीव
विवस्वतः
।
स्तुतिभ्यो
व्यतिरिच्यन्ते
दूराणि
चरितानि
ते
॥
अनवाप्तमवाप्तयं
न
ते
किंचन
विद्यते
।
लोकानुग्रह
एवैको
हेतुस्ते
जन्मकर्मणोः
॥
महिमानं
यतुत्कीर्त्य
तव
संह्रियते
वचः
।
श्रमेण
तदशक्त्या
वा
न
गुणानामियत्तया
॥
इति
प्रसादयामासुस्ते
सुरास्तमधोक्षजम्
।
भूतार्थव्याहृतिः
सा
हि
न
स्तुतिः
परमेष्ठिनः
॥
तस्मै
कुशलसंप्रश्नव्यञ्जितप्रीतये
सुराः
।
भयमप्रलयोद्वेलादाचख्युर्नैर्ऋतोदधेः
॥
अथ
वेलासमासन्नशैलरन्ध्रानुनादिना
।
स्वरेणोवाच
भगवान्
परिभूतार्णवध्वनिः
॥
पुराणस्य
कवेस्तस्य
वर्णस्थानसमीरिता
।
बभूव
कृतसंस्कारा
चरितार्थैव
भारती
॥
बभौ
सदशनज्योत्स्ना
सा
विभोर्वदनोद्गता
।
निर्यातशेषा
चरणाद्गङ्गेवोर्ध्वप्रवर्तिनी
॥
जाने
वो
रक्षसाक्रान्तावनुभावपराक्रमौ
।
अङ्निनां
तमसेवोभौ
गुणौ
प्रथममध्यमौ
॥
विदितं
तप्यमानं
च
तेन
मे
भुवनत्रयम्
।
अकामोपनतेनेव
साधोर्हृदयमेनसा
॥
कार्येषु
चैककार्यत्वादभ्यर्थ्योऽस्मि
न
वज्रिणा
।
स्वयमेव
हि
वातोऽग्नेः
सारथ्यं
प्रतिपद्यते
॥
स्वासिधारापरिहृतः
कामं
चक्रस्य
तेन
मे
।
स्थापितो
दशमो
मूर्धा
लभ्यांश
इव
रक्षसा
॥
स्रष्टुर्वरातिसर्गात्तु
मया
तस्य
दुरात्मनः
।
अत्यारूढं
रिपोः
सोढं
चन्दनेनेव
भोगिनः
॥
धातारं
तपसा
प्रीतं
ययाचे
स
हि
राक्षसः
।
दैवात्सर्गादवध्यत्वं
मर्त्येष्वास्थापराङ्मुखः
॥
सोऽहं
दाशरथिर्भूत्वा
रणभूमेर्वलिक्षमम्
।
करिष्यामि
शरैस्तीक्ष्णैस्तच्छिरःकमलोञ्चयम्
॥
अचिराद्यज्वभिर्भागं
कल्पितं
विधइवत्पुनः
।
मायाविभिरनालीढमादास्यध्वे
निशाचरैः
॥
वैमानिकाः
पुण्यकृतस्त्यजन्तु
मरुतां
पथि
।
पुष्पकालोकसंक्षोभं
मेघावरणतत्पराः
॥
मोक्ष्यध्वे
स्वर्गब्दीनां
वेणीबन्धानदूषितान्
।
शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः
॥
रावणावग्रहक्लान्तमिति
वागमृतेन
सः
।
अभिवृष्य
मरुत्सस्यं
कृषअणमेघस्तिरोदधे
॥
पुरुहूतप्रभृतयः
सुरकार्योद्यतं
सुराः
।
अंशैरनुययुर्विष्णुं
पुष्पैर्वायुमिव
द्रुमाः
॥
अथ
तस्य
विशांपत्युरन्ते
कामस्य
कर्मणः
।
पुरुषः
प्रबभूवाग्नेर्विस्मयेन
सहर्त्विजाम्
॥
हेमपात्रगतं
दोर्भ्यामादधानः
पयश्चरुम्
।
अनुप्रवेशादाद्यस्य
पुंसस्तेनापि
दुर्वहम्
॥
प्राजापत्योपनीतं
तदन्नं
प्रत्यग्रहीन्नृपः
।
वृषेव
पयसां
सारमाविष्कृतमुदन्वता
॥
अनेन
कथिता
राज्ञो
गुणास्तस्यान्यदुर्लभाः
।
प्रसूतिं
चकमे
तस्मिंस्त्रैलोक्यप्रभवोऽपि
यत्
॥
स
तेजो
वैष्णवं
पत्न्योर्विभेजे
चरुसंज्ञितम्
।
द्यावापृथिव्योः
प्रत्यग्रमहर्पतिरिवातपम्
॥
अर्चिता
तस्य
कौसल्या
प्रिया
केकयवंशजा
।
अतः
संभावितां
ताभ्यां
सुमित्रामैच्छदीश्वरः
॥
ते
बहुज्ञस्य
चित्तज्ञे
पत्न्यौ
पत्युर्महीक्षितः
।
चरोरर्धार्धभागाभ्यां
तामयोजयतामुभे
॥
सा
हि
प्रणयवत्यासीत्सपतन्योरुभयोरपि
।
भ्रमरी
वारणस्येव
मदनिस्यन्दरेखयोः
॥
ताभिर्गर्भः
प्रजाभूत्यै
दध्रे
देवांशसंभवः
।
सौरीभिरिव
नाडीभिरमृताख्याभिरम्मयः
॥
सममापन्नसत्त्वास्ता
रेजुरापाण्डुरत्विषः
।
अन्तर्गतफलारम्भाः
सस्यानामिव
संपदः
॥
गुप्तं
ददृशुरात्मानं
सर्वाः
स्वप्नेषु
वामनैः
।
जलजासिगदाशार्ङ्गचक्रलाञ्छितमूर्तिभिः
॥
हेमपक्षप्रभाजालं
गगने
च
वितन्वता
।
उह्यन्ते
स्म
सुपर्णेन
वेगाकृष्टपयोमुचा
॥
बिभ्रत्या
कौस्तुभन्यासं
स्तनान्तरविलम्बिनम्
।
पर्युपास्यन्त
लक्ष्म्या
च
पद्मव्यजनहस्तया
॥
कृताभिषेकैर्दिव्यायां
त्रिस्रोतसि
च
सप्तभिः
।
ब्रह्मर्षिभिः
परं
ब्रह्म
गृणद्भिरुपतस्थिरे
॥
ताभ्यस्तथाविधान्स्वप्नाञ्छ्रुत्वा
प्रीतो
हि
पार्थिवः
।
मेने
परार्ध्यमात्मानं
गुरुत्वेन
जगद्गुरोः
॥
विभक्तात्मा
विभुस्तासामेकः
कुक्षिष्वनेकधा
।
उवास
प्रतिमाचन्द्रः
प्रसन्नानामपामिव
॥
अथाग्र्यमहिषीं
राज्ञः
प्रसूतिसमये
सती
।
पुत्रं
तमोपहं
लेभे
नक्तं
ज्योतिरिवौषधिः
॥
राम
इत्यभिरामेण
वपुषा
तस्य
चोदितः
।
नामधेयं
गुरुश्चक्रे
जगत्प्रथममङ्गलम्
॥
रघुवंशप्रदीपेन
तेनाप्रतिमतेजसा
।
रक्षागृहगता
दीपाः
प्रत्यादिष्टा
इवाभवन्
॥
शय्यगतेन
रामेण
माता
शातोदरी
बभौ
।
सैकताम्भोजबलिना
जाह्नवीव
शरत्कृशा
॥
कैकेय्यास्तनयो
जज्ञे
भरतो
नाम
शीलवान्
।
जनयित्रीमलंचक्रे
यः
प्रश्रय
इव
श्रियम्
॥
सुतौ
लक्ष्मणशत्रुघ्नौ
सुमित्रा
सुषुवे
यमौ
।
सम्यगाराधिता
विद्या
प्रबोधविनयाविव
॥
निर्दोषमभवत्सर्वमाविष्कृतगुणं
जगत्
।
अन्वगादिव
हि
स्वर्गो
गां
गतं
पुरुषोत्तमम्
॥
तस्योदये
चतुर्मूर्तेः
पौलस्त्यचकितेश्वराः
।
विरजस्कैर्नभस्वद्भिर्दिश
उच्छ्वसिता
इव
॥
कृशानुरपधूमत्वात्प्रसन्नत्वात्प्रभाकरः
।
रक्षोविप्रकृतावास्तामपविद्धशुचाविव
॥
दशाननकिरीटेभ्यस्तत्क्षणं
राक्षसश्रियः
।
मणिव्याजेन
पर्यस्ताः
पृथिव्यामश्रुबिन्दवः
॥
पुत्रजन्मप्रवेश्यानां
तूर्याणां
तस्य
पुत्रिणः
।
आरम्भं
प्रथमं
चक्रुर्देवदुन्दुभयो
दिवि
॥
संतानकमयी
वृष्टिर्भवने
चास्य
पेतुषी
।
सन्मङ्घलोपचाराणां
सैवादिरचनाऽभवत्
॥
कुमाराः
कृतसंस्कारास्ते
धात्रीस्तन्यपायिनः
।
आनन्देनाग्रजेनेव
समं
ववृधिरे
पितुः
॥
स्वाभाविकं
विनीतत्वं
तेषां
विनयकर्मणा
।
मुमूर्च्छ
सहजं
तेजो
हविषेव
हविर्भुजाम्
॥
परस्परविरुद्धास्ते
तद्रघोरनघं
कुलम्
।
अलमुद्द्योतयामासुर्देवारण्यमिवर्तवः
॥
समानेऽपि
हि
सौभ्रात्रे
यथोभौ
रामलक्ष्मणौ
।
तथा
भरतशत्रुघ्नौ
प्रीत्या
द्वन्द्वं
बभूवतुः
॥
तेषां
द्वयोर्द्वयोरैक्यं
बिभिदे
न
कदाचन
।
यथा
वायुविभावस्वोर्यथा
चन्द्रसमुद्रयोः
॥
ते
प्रजानां
प्रजानाथास्तेजसा
प्रश्रयेण
च
।
मनो
जह्नुर्निदाघान्ते
श्यामाभ्रा
दिवसा
इव
॥
स
चतुर्धा
बभौ
व्यस्तः
प्रसवः
पृथिवीपतेः
।
धर्मार्थकाममोक्षाणामवतार
इवाङ्गवान्
॥
गुणैराराधयामासुस्ते
गुरुं
गुरुवत्सलाः
।
तमेव
चतुरन्तेशं
रत्नैरिव
महार्णवाः
॥
सुरगज
इव
दन्तैर्भग्नदैत्यासिधारैर्नय
इव
पणबन्धव्यक्तयोगैरुपायैः
।
हरिरिव
युगदीर्घैर्दोर्भिरंशैस्तदीयैः
पतिरवनिपतीनां
तैश्चकाशे
चतुर्भिः
॥