स
नैषधस्यार्थपतेः
सुतायामुत्पादयामास
निषिद्धशत्रुः
।
अनूनसारं
निषधान्नगेन्द्रात्पुत्रं
यमाहुर्निषधाख्यमेव
॥
तेनोरुवीर्येण
पिता
प्रजायै
कल्पिष्यमाणेन
ननन्द
यूना
।
सुवृष्टियोगादिव
जीवलोकः
सस्येन
संपत्तिफलोन्मुखेन
॥
शब्दादि
निर्विश्य
सुखं
चिराय
तस्मिन्प्रतिष्ठापितराजशब्दः
।
कौमुद्वतेयः
कुमुदावदातैर्द्यामर्जितां
कर्मभिरारुरोह
॥
पौत्रः
कुशस्यापि
कुशेशयाक्षः
ससागरां
सागरधीरचेताः
।
एकातपत्रां
भुवमेकवीरः
पुरार्गलादीर्घभुजो
बुभोज
॥
तस्यानलौजास्तनयस्तदन्ते
वंशश्रियं
प्राप
नलाभिधानः
।
यो
नड्वलानीव
गजः
परेषां
बलान्यमृद्गान्नलिनाभवक्त्रः
॥
नभश्चरैर्गीतयशाः
स
लेभे
नभस्तलश्यामतनुं
तनूजम्
।
ख्यातं
नभःशब्दमयेन
नाम्ना
कान्तं
नभोमासमिव
प्रजानाम्
॥
तस्मै
विसृज्योत्तरकोसलानां
धर्मोत्तरस्तत्प्रभवे
प्रभुत्वम्
।
मृगैरजयं
जरसोपदिष्टमदेहबन्धाय
पुनर्बबन्ध
॥
तेन
द्विपानामिव
पुण्डरीको
राज्ञामजय्योऽजनि
पुण्डरीकः
।
शान्ते
पितर्याहृतपुण्डरीका
यं
पुण्डरीकाक्षमिव
श्रिता
श्रीः
॥
स
क्षेमधन्वानममोघघन्वा
पुत्रं
प्रजाक्षेमविधानदक्षम्
।
क्ष्मां
लम्भयित्वा
क्षमयोपपन्नं
वने
तपः
क्षान्ततरश्चचार
॥
अनीकिनीनां
समरेऽग्रयायी
तस्यापि
देवप्रतिमः
सुतोऽभूत्
।
व्यश्रूयतानीकपदावसानं
देवादि
नाम
त्रिदिवेऽपि
यस्य
॥
पिता
समाराधनतत्परेण
पुत्रेण
पुत्री
स
यथैव
तेन
।
पुत्रस्तथवात्मजवत्सलेन
स
तेन
पित्रा
पितृमान्बभूव
॥
पूर्वस्तयोरात्मसमे
चिरोढामात्मोद्भवे
वर्णचतुष्टयस्य
।
धुरं
निधायैकनिधिर्गुणानां
जगाम
यज्वा
यजमानलोकम्
॥
वशी
सुतस्तस्य
वशंवदत्वात्स्वेषामिवासीद्द्विषतामपीष्टः
।
सकृद्विविग्नानपि
हि
प्रयुक्तं
माधुर्यमीष्टे
हरिणान्ग्रहीतुम्
॥
अहीनगुर्नाम
स
गां
समग्रामहीनबाहुद्रविणः
शशास
।
यो
हीनसंसर्गपराङ्मुखत्वाद्युवाप्यनर्थैर्व्यसनैर्विहीनः
॥
गुरोः
स
चानन्तरमन्तरज्ञः
पुंसां
पुमानाद्य
इवावतीर्णः
।
उपक्रमैरस्खलितैश्चतुर्भिश्चतुर्दिगीशश्चतुरो
बभूव
॥
तस्मिन्प्रयाते
परलोकयात्रां
जेतर्यरीणां
तनयं
तदीयम्
।
उञ्चैः
शिरस्त्वाज्जितपारियात्रं
लक्ष्मीः
सिषेवे
किल
पारियात्रम्
॥
तस्याभवत्सूनुरुदारशीलः
शिलः
शिलापट्टविशालवक्षाः
।
जितारिपक्षोऽपि
शिलीमुखैर्यः
शालिनतामव्रजदीड्यमानः
॥
तमात्मसंपन्नमनिन्दितात्मा
कृत्वा
युवानं
युवराजमेव
।
सुखानि
सोऽभुङ्क्त
सुखोपरोधि
वृतं
हि
राज्ञामुपरुद्धवृत्तम्
॥
तं
रागबन्धिष्ववितृप्तमेव
भोगेषु
सौभाग्यविशेषभाग्यम्
।
विलासिनीनामरतिक्षमापि
जरा
वृथा
मत्सरिणी
जहार
॥
उन्नाभ
इत्युद्गतनामधेयस्तस्यायथार्थोन्नतनाभिरन्ध्रः
।
सुतोऽभवत्पङ्कजनाभकल्पः
कृत्स्नस्य
नाभिर्नृपमण्डलस्य
॥
ततः
परं
वज्रधरप्रभावस्तदात्मजः
संयति
वज्रघोषः
।
बभूव
वज्राकरभूषणायाः
पतिः
पृथिव्याः
किल
वज्रणाभः
॥
तस्मिन्गते
द्यां
सुकृतोपलब्धां
तत्संभवं
शङ्खणमर्णवान्ता
।
उत्खातशत्रुं
वसुधोपतस्थे
रत्नोपहारैरुदितैः
खनिभ्यः
॥
तस्यावसाने
हरिदश्वधामा
पित्र्यं
प्रपेदे
पदमश्विरूपः
।
वेलातटेषूषितसैनिकाश्वं
पुराविदो
यं
व्युषिताश्वमाहुः
॥
आराध्य
विश्वेश्वरमीश्वरेण
तेन
क्षितेर्विश्वसहो
विजज्ञे
।
पातुं
सहो
विशअवसखः
समग्रां
विशअवंभरामात्मजमूर्तिरात्मा
॥
अंशे
हिरण्याक्षरिपोः
स
जाते
हिरण्यनाभे
तनये
नयज्ञः
।
द्विषामसह्यः
सुतरां
तरूणां
हिरण्यरेता
इव
सानिलोऽभूत्
॥
पिता
पितॄणामनृणस्तमन्ते
वयस्यनन्तानि
सुखानि
लिप्सुः
।
राजानमाजानुविलम्बिबाहुं
कृत्वा
कृती
वल्कलवान्बभूव
॥
कौसल्य
इत्युत्तरकोसलानां
पत्युः
पतङ्गान्वयभूषणस्य
।
तस्यौरसः
सोमसुतः
सुतोऽभून्नेत्रोत्सवः
सोम
इव
द्वितीयः
॥
यशोभिराब्रह्मसभं
प्रकाशः
स
ब्रह्मभूयं
गतिमाजगाम
।
ब्रह्मिष्ठमाधाय
निजेऽधिकारे
ब्रह्मिष्ठमेव
स्वतनुप्रसूतम्
॥
तस्मिन्कुलापीडनिभे
विपीडं
सम्यङ्महीं
शासति
शासनाङ्काम्
।
प्रजाश्चिरं
सुप्रजसि
प्रजेशे
ननन्दुरानन्दजलाविलाक्ष्यः
॥
पात्रीकृतात्मा
गुरुसेवनेन
स्पष्टाकृतिः
पत्ररथेन्द्रकेतोः
।
तं
पुत्रिणां
पुष्करपत्रनेत्रः
पुत्रः
समारोपयदग्नसंख्याम्
॥
वंशस्थितिं
वंशकरेण
तेन
संभाव्य
भावी
स
सखा
मघोनः
।
उपस्पृशन्स्पर्शनिवृत्तलौल्यस्त्रिपुष्करेषु
त्रिदशत्वमाप
॥
तस्य
प्रभानिर्जितपुष्परागं
पौष्यां
तिथौ
पुष्यमसूत
पत्नी
।
तस्मिन्नपुष्यन्नुदिते
समग्रां
पुष्टिं
जनाः
पुष्य
इव
द्वितीये
॥
महीं
महेच्छः
परिकीर्य
सूनौ
मनीषिणे
जैमिनयेऽर्पितात्मा
।
तस्मात्सयोगादधिगम्य
योगमजन्मनेऽकल्पत
जन्मभीरुः
॥
ततः
परं
तत्प्रभवः
प्रपेदे
ध्रुवोपमेयो
ध्रुवसंधिरुर्वीम्
।
यस्मिन्नभूज्ज्यायसि
सत्यसंधे
संधिर्ध्रुवः
संनमतामरीणाम्
॥
सुते
शिशावेव
सुदर्शनाख्ये
दर्शात्ययेन्दुप्रियदर्शने
सः
।
मृगायताक्षो
मृगयाविहारी
सिंहादवापद्विपदं
नृसिंहः
॥
स्वर्गामिनस्तस्य
तमैकमत्यादमात्यवर्गः
कुलतन्तुमेकम्
।
अनाथदीनाः
प्रकृतीरवेक्ष्य
साकेतनाथं
विधिवञ्चकार
॥
नवेन्दुना
तन्नभसोपमेयं
शावैकसिंहेन
च
काननेन
।
रघोः
कुलं
कुड्मलपुष्करेण
तोयेन
चाप्रौढनरेन्द्रमासीत्
॥
लोकेन
भावी
पितुरेव
तुल्यः
संभावितो
मौलिपरिग्रहात्सः
।
दृष्टो
हि
वृण्वन्कलभप्रमाणोऽप्याशाः
पुरोवातमवाप्य
मेघः
॥
तं
राजवीथ्यामधिहस्ति
यान्तमाधोरणालम्बितमग्र्यवेशम्
।
षड्वर्षदेशीयमपि
प्रभुत्वात्प्रैक्षन्त
पौराः
पितृगौरवेण
॥
कामं
न
सोऽकल्पत
पैतृकस्य
सिंहासनस्य
प्रतिपूरणाय
।
तेजोमहिम्ना
पुनरावृतात्मा
तद्व्याप
चामीकरपिञ्जरेण
॥
तस्मादधधः
किंचिदिवावतीर्णावसंस्पृशन्तौ
तपनीयपीठम्
।
सालक्तकौ
भूपतयः
प्रसिद्धैर्ववन्दिरे
मौलिभिरस्य
पादौ
॥
मणौ
महानील
इति
प्रभावादल्पप्रमाणेऽपि
यथा
न
मिथ्या
।
शब्दो
महाराज
इति
प्रतीतस्तथैव
तस्मिन्युयुजेऽर्भकेऽपि
॥
पर्यन्तसंचारितचामरस्य
कपोललोलोभयकाकपक्षात्
।
तस्याननादुञ्चरितो
विवादश्चस्खाल
वेलास्वपि
नार्णवानाम्
॥
निर्वृत्तजाम्बूनदपट्टशोभे
न्यस्तं
ललाटे
तिलकं
दधानः
।
तेनैव
शून्यान्यरिसुन्दरीणां
मुखानि
स
स्मेरमुखश्चकार
॥
शिरीषपुष्पाधिकसौकुमार्यः
खेदं
स
यायादपि
भूषणेन
।
नितान्तगुर्वीमपि
सोऽनुभावाद्धुरं
धरित्र्या
बिभरांबभूव
॥
न्यस्ताक्षरामक्षरभूमिकायां
कार्त्स्न्येन
गृह्णाति
लिपिं
न
यावत्
।
सर्वाणि
तावच्छ्रुतवृद्धयोगात्फलान्युपायुङ्क्त
स
दण्डनीतेः
॥
उरस्यपर्याप्तनिवेशभागा
प्रौढीभविष्यन्तमुदीक्षमाणा
।
संजातलज्जेव
तमातपत्रच्छायाछलेनोपजुगूह
लक्ष्मीः
॥
अनश्नुवानेन
युगोपमानमबद्धमौर्वीकिणलाञ्छनेन
।
अस्पृष्टखङ्गत्सरुणापि
चासीद्रक्षावती
तस्य
भुजेन
भूमिः
॥
न
केवलं
गच्छति
तस्य
काले
ययुः
शरीरावयवा
विवृद्धिम्
।
वंश्या
गुणाः
खल्वपि
लोककान्ताः
प्रारम्भसूक्ष्माः
प्रथिमानमापुः
॥
स
पूर्वजन्मान्तरदृष्टपाराः
स्मरन्निवाक्लेशकरो
गुरूणाम्
।
तिस्रस्त्रिवर्गाधिगमस्य
मूलं
जग्राह
विद्याः
प्रकृतीश्च
पित्र्याः
॥
व्यूह्य
स्थितः
किंचिदिवोत्तरार्धमुन्नद्धचूडोऽञ्चितसव्यजानुः
।
आकर्णमाकृष्टसबाणधन्वा
व्यरोचतास्त्रे
स
विनीयमानः
॥
अथ
मधु
वनितानां
नेत्रनिर्वेशनीय-
मनसिजतरुपुष्पं
रागबन्धप्रवालम्
।
अकृतकविधि
सर्वाङ्गीणमाकल्पजातं
विलसितपदमाद्यं
यौवनं
स
प्रपेदे
॥
प्रतिकृतिरचनाभ्यो
दूतिसंदर्शिताभ्यः
समधिकतररूपाः
शुद्धसंतानकामैः
।
अधिविविदुरमात्यैराहृतास्तस्य
यूनः
प्रथमपरिगृहीते
श्रीभुवौ
राजकन्याः
॥