अथेप्सितं
भर्तुरुपस्थितोदयं
सखीजनोद्वीक्षणकौमुदीमुखम्
।
निदानमिक्ष्वाकुकुलस्य
संततेः
सुदक्षिणा
दौर्हृदलक्षणं
दधौ
॥
शरीरसादादसमग्रभूषणा
मुखेन
सालक्ष्यत
लोध्रपाण्डुना
।
तनुप्रकाशेन
विचेयतारका
प्रभातकल्पा
शशिनेव
शर्वरी
॥
तदाननं
मृत्सुरभि
क्षितीश्वरो
रहस्युपाघ्राय
न
तृप्तिमाययौ
।
करीव
सिक्तं
पृषतैः
पयोमुचां
शुचिव्यपाये
वनराजिपल्वलम्
॥
दिवं
मरुत्वानिव
भोक्ष्यते
भुवं
दिग
विश्रान्तरथो
हि
तत्सुतः
।
अतोऽभिलाषे
प्रथमं
तथाविधे
मनो
बवन्धान्यरसान्विलङ्घ्य
सा
॥
न
मे
ह्रिया
शंसति
किंचिदीप्सितं
स्पृहावती
वस्तुषु
केषु
मागधी
।
इति
स्म
पृच्छत्यनुवेलमादृतः
प्रियासखीरुत्तरकोसलेश्वरः
॥
उपेत्य
सा
दोहददुःखशीलतां
यदेव
वव्रे
तदपश्यदाहृतम्
।
न
हीष्टमस्य
त्रिदिवेऽपि
भूपतेरभूदनासाद्यमधिज्यधन्वनः
॥
क्रमेण
निस्तीर्य
च
दोहदव्यथां
प्रचीयमानावयवा
रराज
सा
।
पुराणपत्रापगमादनन्तरं
लतेव
संनद्धमनोज्ञपल्लवा
॥
दिनेषु
गच्छत्सु
नितान्तपीवरं
तदीयमानीलमुखं
स्तनद्वयम्
।
तिरश्चकार
भ्रमराभिलीनयोः
सुजातयोः
पङ्कजकोशयोः
श्रियम्
॥
निधानगर्भामिव
सागराम्बरां
शमीमिवाभ्यन्तरलीनपावकाम्
।
नदीमिवान्तःसलिलां
सरस्वतीं
नृपः
ससत्त्वां
महिषीममन्यत
॥
प्रियानुरागस्य
मनः
समुन्नतेर्भुजार्जितानां
च
दिगन्तसंपदाम्
।
यथाक्रमं
पुंसवनादिकाः
क्रिया
धृतेश्च
धीरः
सदृशीर्व्यधत्त
सः
॥
सुरेन्द्रमात्राश्रितगर्भगौरवात्प्रयत्नमुक्तासनया
गृहागतः
।
तयोपचाराञ्जलिखिन्नहस्तया
ननन्द
पारिप्लवनेत्रया
नृपः
॥
कुमारभृत्याकुशलैरनुष्ठिते
भिषग्भिराप्तैरथ
गर्भभर्मणि
।
पतिः
प्रतीतः
प्रसवोन्मुखीं
प्रियां
ददर्श
काले
दिवमभ्रितामिव
॥
ग्रहैस्ततः
पञ्चभिरुञ्चसंश्रयैरसूर्यगैः
सूचितभाग्यसंपदम्
।
असूत
पुत्रं
समये
शचीसमा
त्रिसाधना
शक्तिरिवार्थमक्षयम्
॥
दिशः
प्रसेदुर्मरुतो
ववुः
सुखाः
प्रदक्षिणार्चिर्हविरग्निराददे
।
बभूव
सर्वं
शुभशंसि
तत्क्षणं
भवो
हि
लोकाभ्युदयाय
तादृशाम्
॥
अरिष्टशय्यां
परितो
विसारिणा
सुजन्मनस्तस्य
निजेन
तेजसा
।
निशीथदीपाः
सहसा
हतत्विषो
बभूवुरालेख्यसमर्पिता
इव
॥
जनाय
शुद्धान्तचराय
शंसते
कुमारजन्मामृतसंमिताक्षरम्
।
अदेयमासीत्त्रयमेव
भूपतेः
शशिप्रभ
छत्रमुभे
च
चामरे
॥
निवातपद्मस्तिमितेन
चक्षुषा
नृपस्य
कान्तं
पिबतः
सुताननम्
।
महोदधेः
पूर
इवेन्दुदर्शनाद्गुरुः
प्रहर्षः
प्रबभूव
नात्मनि
॥
स
जातकर्मण्यखिले
तपस्विना
तपोवनादेत्य
पुरोधसा
कृते
।
दिलीपसूनुर्मणिराकरोद्भवः
प्रयुक्तसंस्कार
इवाधिकं
बभौ
॥
सुखश्रवा
मङ्गलतूर्यनिस्वनाः
प्रमोदनृत्यैः
सह
वारयोषिताम्
।
न
केवलं
सद्मनि
मागधीपतेः
पथि
व्यजृम्भन्त
दिवौकसामपि
॥
न
संयतस्तस्य
बभूव
रक्षितुर्विसर्जयेद्यं
सुतजन्महर्षितः
।
ऋणाभिधानात्स्वयमेव
केवलं
तदा
पितॄणां
मुमुचे
स
बन्धनात्
॥
श्रुतस्य
यायादयमन्तमर्भकस्तथा
परेषां
युधि
चेति
पार्थिवः
।
अवेक्ष्य
धातोर्गमनार्थमर्थविञ्चकार
नाम्ना
रघुमात्मसंभवम्
॥
पितुः
प्रयत्नात्स
समग्रसंपदः
शुभैः
शरीरावयवैर्दिने
दिने
।
पुपोष
वृद्धिं
हरिदश्वदीधितेरनुप्रवेशादिव
बालचन्द्रमाः
॥
उमावृषाङ्कौ
शरजन्मना
यथा
यथा
जयन्तेन
शचीपुरंदरौ
।
तथा
नृपः
सा
च
सुतेन
मागधी
ननन्दतुस्तत्सदृशेन
तत्समौ
॥
रथाङ्गनाम्नोरिव
भावबन्धनं
बभूव
यत्प्रेम
परस्पराश्रयम्
।
विभक्तमप्येकसुतेन
तत्तयोः
परस्परस्योपरि
पयचीयत
॥
उवाच
धात्र्या
प्रथमोदितं
वचो
ययौ
तदीयामवलम्ब्य
चाङ्गुलिम्
।
अभूञ्च
नम्रः
प्रणिपातशिक्षया
पितुर्मुदं
तेन
ततान
सोऽर्भकः
॥
तमङ्कमारोप्य
शरीरयोगजैः
सुखैर्निषिञ्चन्तमिवामृतं
त्वचि
।
उपान्तसंमीलितलोचनो
नृपश्चिरात्सुतस्पर्शरसज्ञतां
ययौ
॥
अमंस्त
चानेन
परार्ध्यजन्मना
स्थितेरभेत्ता
स्थितिमन्तमन्वयम्
।
स्वमूर्तिभेदेन
गुणाग्र्यवर्तिना
पतिः
प्रजानामिव
सर्गमात्मनः
॥
स
वृत्तचूलश्चलकाकपक्षकैरमात्यपुत्रैः
सवयोभिरन्वितः
।
लिपेर्यथावद्ग्रहणेन
वाङ्मयं
नदीमुखेनेव
समुद्रमाविशत्
॥
अथोपनीतं
विधिवद्विपश्चितो
विनिन्युरेनं
गुरवो
गुरुप्रियम्
।
अवन्ध्ययत्नाश्च
बभूवुरत्र
ते
क्रिया
हि
वस्तूपहिता
प्रसीदति
॥
धियः
समग्रैः
स
गुणैरुदारधीः
क्रमाञ्चतस्रश्चतुरर्णवोपमाः
।
ततार
विद्याः
पवनातिपातिभिर्दिशो
हरिद्भिर्हरितामिवेश्वरः
॥
त्वचं
स
मेध्यां
परिधाय
रौरवीमशिक्षतास्त्त्रं
पितुरेव
मन्त्रवत्
।
न
केवलं
तद्गुरुरेकपार्थिवः
क्षितावभूदेकधनुर्धरोऽपि
सः
॥
महोक्षतां
वत्सतरः
स्पृशन्निव
द्विपेन्द्रभावं
कलभः
श्रयन्निव
।
रघुः
क्रमाद्यौवनभिन्नशैशवः
पुपोप
गाम्भीर्यमनोहरं
वपुः
॥
अथास्य
गोदानविधेरनन्तरं
विवाहदीक्षां
निरवर्तयद्गुरुः
।
नरेन्द्रकन्यास्तमवाप्य
सत्पतिं
तमोनुदं
दक्षसुता
इवाबभुः
॥
युवा
युगव्यायतबाहुरंसलः
कपाटवक्षाः
परिणद्धकंधरः
।
वपुः
प्रकर्षादजयद्गुरुं
रघुस्तथापि
नीचौर्विनयाददृश्यत
॥
ततः
प्रजानां
चिरमात्मना
धृतां
नितान्तगुर्वीं
लघयिष्यता
धुरम्
।
निसर्गसंस्कारविनीत
इत्यसौ
नृपेण
चक्रे
युवराजशब्दभाक्
॥
नरेन्द्रमूलायतनादनन्तरं
तदास्पदं
श्रीर्युवराजसंज्ञितम्
।
अगच्छदंशेन
गुणाभिलाषिणी
नवावतारं
कमलादिवोत्पलम्
॥
विभावसुः
सारथिनेव
वायुना
घनव्यपायेन
गभस्तिमानिव
।
बभूव
तेनातितरां
सुदुःसहः
कटप्रभेदेन
करीव
पार्थिवः
॥
नियुज्य
तं
होमतुरंगरक्षणे
धनुर्धरं
राजसुतैरनुद्रुतम्
।
अपूर्णमेकेन
शतक्रतूपमः
शतं
क्रतूनामपविघ्नमाप
सः
॥
ततः
परं
तेन
मखाय
यज्वना
तुरंगमुत्सृष्टमनर्गलं
पुनः
।
धनुर्भृतामग्रत
एव
रक्षिणां
जहार
शक्रः
किल
गूढविग्रहः
॥
विषादलुप्तप्रतिपत्ति
विस्मितं
कुमारसैन्यं
सपदि
स्थितं
च
तत्
।
वसिष्ठधेनुश्च
यदृच्छयागता
श्रुतप्रभावा
ददृशेऽथ
नन्दिनी
॥
तदङ्गनिस्यन्दजलेन
लोचने
प्रमृज्य
पुण्येन
पुरस्कृतः
सत्ताम्
।
अतीन्द्रियेष्वप्युपपन्नदर्शनो
बभूव
भावेषु
दिलीपनन्दनः
॥
स
पूर्वतः
पर्वतपक्षशातनं
ददर्श
देवं
नरदेवसंभवः
।
पुनः
पुनः
सूतनिषिद्धचापलं
हरन्तमश्वं
रथरश्मिसंयतम्
॥
शतैस्तमक्ष्णामनिमेषवृत्तिभिर्हरिं
विदित्वा
हरिभिश्च
वाजिभिः
।
अवोचदेनं
गगनस्पृशा
रघुः
स्वरेण
धीरेण
निवर्तयन्निव
॥
मखांशभाजां
प्रथमो
मनीषिभिस्त्वमेव
देवेन्द्र!
सदा
निगद्यसे
।
अजस्रदीक्षाप्रयतस्य
मद्गुरोः
क्रियाविथाताय
कथं
प्रवर्तसे
?
॥
त्रिलोकनाथेन
सदा
मखद्विषस्त्वया
नियम्या
ननु
दिव्यचक्षुषा
।
स
चेत्स्वयं
कर्मसु
धर्मचारिणां
त्वमन्तरायो
भवसिच्युतोविधिः
॥
तदङ्गमग्र्यं
मघवन्महाक्रतोरमुं
तुरंगं
प्रतिमोक्तुमर्हसि
।
पथः
श्रुतेर्दर्शयितार
ईश्वरा
मलीमसामाददते
न
पद्धतिम्
॥
इति
प्रगल्भं
रघुणा
समीरितं
वचो
निशम्याधिपतिर्दिवौकसाम्
।
निवर्तयामास
रथं
सविस्मयः
प्रचक्रमे
च
प्रतिवक्तुमुत्तरम्
॥
यदात्थ
राजन्यकुमार!
तत्तथा
यशस्तु
रक्ष्यं
परतो
यशोधनैः
।
जगत्प्रकाशं
तदशेषमिज्यया
भवद्गुरुर्लङ्घयितुं
ममोद्यतः
॥
हरिर्यथैकः
पुरुषोत्तमः
स्मृतो
महेश्वरस्त्त्र्यम्बक
एव
नापरः
।
तथा
विदुर्मां
मुनयः
शतक्रतुं
द्वितीयगामी
न
हि
शब्द
एष
नः
॥
अतोऽयमश्वः
कपिलानुकारिणा
पितुस्त्वदीयस्य
मयापहारितः
।
अलं
प्रयत्नेन
तवात्र
मा
निधाः
पदं
पदव्यां
सगरस्य
संततेः
॥
ततः
प्रहस्यापभयः
पुरंदरं
पुनर्बभाषे
तुरगस्य
रक्षिता
।
गृहाण
शस्त्त्रं
यदि
सर्ग
एष
ते
न
खल्वनिर्जित्य
रघुं
कृती
भवान्
॥
स
एवमुक्त्वा
मघवन्तमुन्मुखः
करिष्यमाणः
सशरं
शरासनम्
।
अतिष्ठदालीढविशेषशोभिना
वपुःप्रकर्षेण
विडम्बितेश्वरः
॥
रघोरवष्टम्भमयेन
पत्रिणा
हृदि
क्षतो
गोत्रभिदप्यमर्षणः
।
नवाम्बुदानीकमुहूर्तलाञ्छने
धनुष्यमोघं
समधत्त
सायकम्
॥
दिलीपसूनोः
स
बृहद्भुजान्तरं
प्रविश्य
भीमासुरशोणितोचितः
।
पपावनास्वादितपूर्वमाशुगः
कुतूहलेनेव
मनुष्यशोणितम्
॥
हरेः
कुमारोऽपि
कुमारविक्रमः
सुरद्विपास्फालनकर्कशाङ्गुलौ
।
भुजे
शचीपत्रविशेषकाङ्किते
स्वनामचिह्नं
निचखान
सायकम्
॥
जहार
चान्येन
मयूरपत्रिणा
शरेण
शक्रस्य
महाशनिध्वजम्
।
चुकोप
तस्मै
स
भृशं
सुरश्रियः
प्रसह्य
केशव्यपरोपणादिव
॥
तयोरुपान्तस्थितसिद्धसैनिकं
गरुत्मदाशीविषभीमदर्शनैः
।
बभूव
युद्धं
तुमुलं
जयैषिणोरधोमुखैरूर्ध्वमुखैश्च
पत्रिभिः
॥
अतिप्रबन्धप्रहितास्त्त्रवृष्टिभिस्तमाश्रयं
दुष्प्रसहस्य
तेजसः
।
शशाक
निर्वापयितुं
न
वासवः
स्वतश्च्युतं
वह्निमिवाद्भिरम्बुदः
॥
ततः
प्रकोष्ठे
हरिचन्दनाङ्किते
प्रमथ्यमानार्णवधीरनादिनीम्
।
रघुः
शशाङ्कार्धमुखेन
पत्रिणा
शरासनज्यामलुनाद्बिडौजसः
॥
स
चापमुत्सृज्य
विवृद्धमत्सरः
प्रणाशनाय
प्रबलस्य
विद्विषः
।
महीध्रपक्षव्यपरोपणोचितं
स्फुरत्प्रभामण्डलमस्त्त्रमाददे
॥
रघुर्भृशं
वक्षसि
तेन
ताडितः
पपात
भूमौ
सह
सैनिकाश्रुभिः
।
निमेषमात्रादवधूय
च
व्यथां
सहोत्थितः
सैनिकहर्षनिस्वनैः
॥
तथापि
शस्त्त्रव्यवहारनिष्ठुरे
विपक्षभावे
चिरमस्य
तस्थुषः
।
तुतोष
वीर्यातिशयेन
वृत्रघहा
पदं
हि
सर्वत्र
गुणैर्निधीयते
॥
असङ्गमद्रिष्वपि
सारवत्तया
न
मे
त्वदन्येन
विसोढमायुधम्
।
अवेहि
मां
प्रीतमृते
तुरंगमात्किमिच्छसीति
स्फुटमाह
वासवः
॥
ततो
निषङ्गादमसमग्रमुद्धृतं
सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिम्
।
नरेन्द्रसूनुः
प्रतिसंहरन्निषुं
प्रियंवदः
प्रत्यवदत्सुरेश्वरम्
॥
अमोच्यमश्वं
यदि
मन्यसे
प्रभो!
ततः
समाप्ते
विधिनैव
कर्मणि
।
अजस्रदीक्षाप्रयतः
स
मद्गुरुः
क्रतोरशेषेण
फलेन
युज्यताम्
॥
यथा
च
वृत्तान्तमिमं
सदोगतस्त्त्रिलोचनैकांशतया
दुरासदः
।
तवैव
संदेशहराद्विशांपतिः
श्रृणोति
लोकेश!
तथाविधीयताम्
॥
तथेति
कामं
प्रतिशुश्रुवान्रघोर्यथागतं
मातलिसारथिर्ययौ
।
नृपस्य
नातिप्रमनाः
सदोगृहं
सुदक्षिणासूनुरपि
न्यवर्तत
॥
तमभ्यनन्दत्प्रथमं
प्रबोधितः
प्रजेश्वरः
शासनहारिणा
हरेः
।
परामृशन्हर्षजडेन
पाणिना
तदीयमङ्गं
कुलिशव्रणाङ्कितम्
॥
इति
क्षितीशो
नवतिं
नवाधिकां
महाक्रतूनां
महनीयशासनः
।
समारुरुक्षुर्दिवमायुषः
क्षये
ततान
सोपानपरम्परामिव
॥
अथ
स
विषयव्यावृत्तात्मा
यथाविधि
सूनवे
नृपतिककुदं
दत्त्वा
यूने
सितातपवारणम्
।
मुनिवनतरुच्छायां
देव्या
तया
सह
शिश्रिये
गलितवयसामिक्ष्वाकूणामिदं
हि
कुलव्रतम्
॥