पितुरनन्तरमुत्तरकोसलान्समधिगम्य
समाधिजितेन्द्रियः
।
दशरथः
प्रशशास
महारथो
यमवतामवतां
च
धुरि
स्थितः
॥
अधिगतं
विधिवद्यदपालयत्प्रकृतिमण्डलमात्मकुलोचितम्
।
अभवदस्य
ततो
गुणवत्तरं
सनगरं
नगरन्ध्रुकरौजसः
॥
उभयमेव
वदन्ति
मनीषिणः
समयवर्षितया
कृतकर्मणाम्
।
बलनिषूदनमर्थपतिं
च
तं
श्रमनुदं
मनुदण्डधरान्वयम्
॥
जनपदे
न
गदः
पदमादधावभिभवः
कुत
एव
सपत्नजः
।
क्षितिरभूत्फलवत्यजनन्दने
शमरतेऽमरतेजसि
पार्थिवे
॥
दशदिगन्तजिता
रघुणा
यथआ
श्रइयमपुष्यदजेन
ततः
परम्
।
तमधिगम्य
तथैव
पुनर्बभौ
न
न
महीनमहीनपराक्रमम्
॥
समतया
वसुवृष्टिविसर्जनैर्नियमनादसतां
च
नराधिपः
।
अनुययौ
यमपुण्यजनेश्वरौ
सवरुणावरुणाग्रसरं
रुचा
॥
न
मृगयाभिरतिर्न
दुरोदरं
न
च
शशिप्रतिमाभरणं
मधु
।
तमुदयाय
न
वा
नवयौवना
प्रियतमा
यतमानमपाहरत्
॥
न
कृपणा
प्रभवत्यपि
वासवे
न
वितथा
परिहासकथास्वपि
।
न
च
सपत्नजनेष्वपि
तेन
वागपरुषा
परुषाक्षरमीरिता
॥
उदयमस्तमयं
च
रघूद्वहादुभयमानशिरे
वसुधाधिपाः
।
स
हि
निदेशमलङ्घयतामभूत्सुहृदयोहृदयः
प्रतिगर्जताम्
॥
अजयदेकरथेन
स
मेदिनीमुदधिनेमिमधिज्यशरासनः
।
जयमघोषयदस्य
तु
केवलं
गजवती
जवतीव्रहया
चमूः
॥
अवनिमेकरथेन
वरूथिना
जितवतः
किल
तस्य
धनुर्भृतः
।
विजयदुन्दुभितां
ययुरर्णवा
घनरवा
नरवाहनसंपदः
॥
शमितपक्षबलः
शतकोटिना
शिखरिणां
कुलिशेन
पुरंदरः
।
स
शरवृष्टिमुचा
धनुषा
द्विषां
स्वनवता
नवतामरसाननः
॥
चरणयोर्नखरागसमृद्धिभिर्मुकुटरन्तमरीचिभिरस्पृशन्
।
नृपतयः
शतशो
मरुतो
यथा
शतमखं
तमखण्डितपौरुषम्
॥
निववृते
स
महार्णवरोधसः
सचिवकारितबालसुताञ्जलीन्
।
समनुकम्प्य
सपत्नपरिग्रहाननलकानलकानवमां
पुरीम्
॥
उपगतोऽपि
च
मण्डलनाभितामनुभितामनुदितान्यसितातपवारणः
।
श्रियमवेक्ष्य
स
रन्ध्रचलामभूदनलसोऽनलसोमसमद्युतिः
॥
तमपहाय
ककुत्स्थकुलोद्भवं
पुरुषमात्मभवं
च
पतिव्रता
।
नृपतिमन्यमसेवत
देवता
सकमला
कमलाघवमर्थिषु
॥
तमलभन्त
पतिं
पतिदेवताः
शिखरिणामिव
सागरमापगाः
।
मगधकोसलकेकयशासिनां
दुहितरोऽहितरोपितमार्गणम्
॥
प्रियतमाभिरसौ
तिसृभिर्बभौ
तिसृभिरेव
भुवं
सह
शक्तिभिः
।
उपगतो
विनिनीषुरिव
प्रजा
हरिहयोऽरिहयोगविचक्षणः
॥
स
किल
संयुगमूर्ध्नि
सहायतां
मघवतः
प्रतिपद्य
महारथः
।
स्वभुजवीर्यमगापयदुच्छ्रितं
सुरवधूरवधूतभयाः
शरैः
॥
क्रतुषु
तेन
विसर्जितमौलिना
भुजसमाहृतदिग्वसुना
कृताः
।
कनकयूपसमुच्छ्रयशोभिनो
वितमसा
तमसासरयूतटाः
॥
अजिनदण्डभृतं
कुशमेखलां
यतगिरं
मृगश्रृङ्गपरिग्रहाम्
।
अधिवसंस्तनुमध्वरदीक्षितामसमभासमभासयदीश्वरः
॥
अवभृथप्रयतो
नियतेन्द्रियः
सुरसमाजसमाक्रमणोचितः
।
नमयति
स्म
स
केवलमुन्नतं
वनमुचे
नमुचेररये
शिरः
॥
असकृदेकरथेन
तरस्विना
हरिहयाग्रसरेण
धनुर्भृता
।
दिनकराभिमुखा
रणरेणवो
रुरुधिरे
रुधिरेण
सुरद्विषाम्
॥
अथ
समाववृते
कुसुमैर्नवैस्तमिव
सेवितुमेकनराधिपम्
।
यमकुबेरजसेश्वरवज्रिणां
समधुरं
मधुरञ्चितविक्रमम्
॥
जिगमिषुर्धनदाध्युषितां
दिशं
रथयुजा
परिवर्तितवाहनः
।
दिनमुखानि
रविर्हिमनिग्रहैर्विमलयन्मलयं
नगमत्यजत्
॥
कुसुमजन्म
ततो
नवपल्लवास्तदनु
षट्पदकोकिलकूजितम्
।
इति
यथाक्रममाविरभून्मधुद्रुमवतीमवतीर्य
वनस्थलीम्
॥
नयगुणोपचितामिव
भूपतेः
सदुपकारफलां
श्रियभर्थिनः
।
अभिययुः
सरसो
मधुसंभृतां
कमलिनीमलिनीरपतत्रिणः
॥
कुसुममेव
न
केवलमार्तवं
नवमशोकतरोः
स्मरदीपनम्
।
किसलयप्रसवोऽपि
विलासिनां
मदयिता
दयिताश्रवणार्पितः
॥
विरचिता
मधुनोपवनश्रियामभिनवा
इव
पत्रविशेषकाः
।
मधुलिहां
मधुदानविशारदाः
कुरबका
रवकारणतां
ययुः
॥
सुवदनावदनासवसंभृतस्तदनुवादिगुणः
कुसुमोद्गमः
।
मधुकरैरकरोन्मधुलोलुपैर्बकुलमाकुलमायतपङ्क्तिभिः
॥
उपहितं
शिशिरापगमश्रिया
मुकुलजालमशोभत
किंशुके
।
प्रणयिनीव
नखक्षतमण्डनं
प्रमदया
मदयापितलज्जया
॥
व्रणगुरुप्रमदाधरदुःसहं
जघननिर्विशषयीकृतमेखलम्
।
न
खलु
तावदशेषमपोहितुं
रविरलं
विरलं
कृतवान्हिमम्
॥
अभिनयान्परिचेतुमिवोद्यता
मलयमारुतकम्पितपल्लवा
।
अमदयत्सहकारलता
मनः
सकलिका
कलिकामजितामपि
॥
प्रथममन्यभृताभिरुदीरिताः
प्रविरला
इव
मुग्धवधूकथाः
।
सुरभिगन्धिषु
शुश्रुविरे
गिरः
कुसुमितासु
मिता
वनराजिषु
॥
श्रुतिसुखभ्रमरस्वनगीतयः
कुसुमकोमलदन्तरुचो
बभुः
।
उपवनान्तलताः
पवनाहतैः
किसलयैः
सलयैरिव
पाणिभिः
॥
ललितविभ्रमबन्धविचक्षणं
सुरभिगन्धपराजितकेसरम्
।
पतिषु
निर्विविशुर्मधुमङ्गनाः
स्मरसखं
रसखण्डनवर्जितम्
॥
शुशुभिरे
स्मितचारुतराननाः
स्त्रिय
इव
श्लथशिञ्जितमेखलाः
।
विकचतामरसा
गृहदीर्घिका
मदकलोदकलोलविहंगमाः
॥
उपययौ
तनुतां
मधुखण्डिता
हिमकरोदयपाण्डुमुखच्छविः
।
सदृशमिष्टसमागमनिर्वृतिं
वनितयानितया
रजनीवधूः
॥
अपतुषारतया
विशदप्रभैः
सुरतसङ्गपरिश्रमनोदिभिः
।
कुसुमचापमतेजयदंशुभिर्हिमकरो
मकरोर्जितकेतनम्
॥
हुतहुताशनदीप्ति
वनश्रियः
प्रतिनिधिः
कणकाभरणस्य
यत्
।
युवतयः
कुसुमं
दधुराहितं
तदलके
दलकेसरपेशलम्
॥
अलिभिरञ्जनबिन्दुमनोहरैः
कुसुमपङ्क्तिनिपातिभिरङ्कितः
।
न
खलु
शोभयति
स्म
वनस्थलीं
न
तिलकस्तिलकः
प्रमदामिव
॥
अमदयन्मधुगन्धसनाथया
किसलयाधरसंगतया
मनः
।
कुसुमसंभृतया
नवमल्लिका
स्मितरुचा
तरुचारुविलासिनी
॥
अरुणरागनिषेधिभिरंशुकैः
श्रवणलब्धपदैश्च
यवाङ्कुरैः
।
परभृताविरुतैश्च
विलासिनः
स्मरबलैरबलैकरसाः
कृताः
॥
उपचितावयवा
शुचिभिः
कणैरलिकदम्बकयोगमुपेयुषी
।
सदृशकान्तिरलक्ष्यत
मञ्जरी
तिलकजालकजालकमौक्तिकैः
॥
ध्वजपटं
मदनस्य
धनुर्भृतश्छविकरं
मुखचूर्णमृतुश्रियः
।
कुसुमकेसररेणुमलिव्रजाः
सपवनोपवनोत्थितमन्वयुः
॥
अनुभवन्नवदोलमृतूत्सवं
पटुरपि
प्रियकण्ठजिघृक्षया
।
अनयदासनरज्जुपरिग्रहे
भुजलतां
जलतामवलाजनः
॥
त्यजत
मानमालं
बत
विग्रहैर्न
पुनरेति
गतं
चतुरं
वयः
।
परभृताभिरितीव
निवेदिते
स्मरमते
रमते
स्म
वधूजनः
॥
अथ
यथासुखमार्तवमुत्सवं
समनुभूय
विलासवतीसखः
।
नरपतिश्चकमे
मृगयारतिं
स
मधुमन्मधुमन्मथसंनिभः
॥
परिचयं
चललक्ष्यनिपातने
भयरुषोश्च
तदिङ्गितवोधनम्
।
श्रमजयात्प्रगुणां
च
करोत्यसौ
तनुमतोऽनुमतः
सचिवैर्ययौ
॥
मृगवनोपगमक्षमवेषमृद्विपुलकण्ठनिषक्तशरासनः
।
गगनमश्वखुरोद्धतरेणुभिर्नृसविता
स
वितानमिवाकरोत्
॥
ग्रथितमौलिरसौ
वनमालया
तरुपलाशसवर्णतनुच्छदः
।
तुरगवल्गनचञ्चलकुण्डलो
विरुरुचे
रुरुचेष्टितभूमिषु
॥
तनुलताविनिवेशितविग्रहा
भ्रमरसंक्रमितेक्षणवृत्तयः
।
ददृशुरध्वनि
तं
वनदेवताः
सुनयनं
नयनन्दितकोसलम्
॥
श्वगणिवागुरिकैः
प्रथमास्थितं
व्यपगतानलदस्यु
विवेश
सः
।
स्थिगतुरंगमभूमि
निपानवन्मृगवयोगवयोपचितं
वनम्
॥
अथ
नभस्य
इव
त्रिदशायुधं
कनकपिङ्गतडिद्गुणसंयुतम्
।
धनुरधिज्यमनाधिरुपाददे
नरवरो
रवरोषितकेसरी
॥
तस्य
स्तनप्रणयिभिर्मुहुरेणशावैर्व्याहन्यमानहरिणीगमनं
पुरस्तात्
।
आविर्बभूव
कुशगर्भमुखं
मृगाणां
यूथं
तदग्रसरगर्वितकृष्णसारम्
॥
तत्प्रार्थितं
जवनवाजिगतेन
राज्ञा
तूर्णीमुखोद्धृतशरेण
विशीर्णपङ्क्ति
।
श्यामीचकार
वनमाकुलदृष्टिपातै
र्वातेरितोत्पलदलप्रकरैरिवार्द्रैः
॥
लक्ष्यीकृतस्य
हरिणस्य
हरिप्रभावः
प्रेक्ष्य
स्थितां
सहचरीं
व्यवधाय
देहम्
।
आकर्णकृष्टमपि
कामितया
स
धन्वी
बाणं
कृपामृदुमनाः
प्रतिसंजहार
॥
तस्यापरेष्वपि
मृगेषु
शरान्मुमुक्षोः
कर्णान्तमेत्य
बिभिदे
निबिडोऽपि
मुष्टिः
।
त्रासातिमात्रचटुलैः
स्मरतः
सुनेत्रैः
प्रौढप्रियानयनविभ्रमचेष्टितानि
॥
उत्तस्थुषः
सपदि
पल्वलपङ्कमध्यान्मुस्ताप्ररोहकवलावयवानुकीर्णम्
।
जग्राह
स
द्रुतवराहकुलस्य
मार्गं
सुव्यक्तमार्द्रपदपङ्क्तिभिरायताभिः
॥
तं
वाहनादवनतोत्तरकायमीषद्विध्यन्तमुद्धृतसटाः
प्रतिहन्तुमीषुः
।
नात्मानमस्य
विविदुः
सहसा
वराहा
वृक्षेषु
विद्धमिषुभिर्जघनाश्रयेषु
॥
तेनाभिघातरभसस्य
विकृष्य
पत्री
वन्यस्य
नेत्रविवरे
महिषस्य
मुक्तः
।
निर्भिद्य
विग्रहमशोणितलिप्तपुङ्ख
स्तं
पातयां
प्रथममास
पपात
पश्चात्
॥
प्रायो
विषाणपरिमोक्षलघूत्तमाङ्गान्खङ्गांश्चकार
नृपतिर्निक्षितैः
क्षुरप्रैः
।
श्रृङ्गं
स
दृप्तविनयाधिकृतः
परेषामत्युच्छ्रितं
न
ममृषे
न
तु
दीर्घमायुः
॥
व्याघ्रनभीरभिमुखोत्पतितान्गुहाभ्यः
फुल्लासनाग्रविटपानिव
वायुरुग्णान्
।
शिक्षाविशेषलघुहस्ततया
निमेषात्तूणीचकार
शरपूरितवक्त्ररन्ध्रान्
॥
निर्घातोग्नैः
कुञ्जलीनाञ्जिघांसुर्ज्यानिर्घोषैः
क्षोभयामास
सिंहान्
।
नूनं
तेपामभ्यसृयापरोऽभूद्वीर्योदग्रे
राजशब्दो
मृगेषु
॥
तान्हत्वा
गजकुलबद्धतीव्रवैरान्काकुस्थः
कुटिलनखाग्रलग्नमुक्तान्
।
आत्मानं
रणकृतकर्मणां
गजानामानृण्यं
गतमिव
मार्गणैरमंस्त
॥
चमरान्परितः
प्रवर्तिताश्वः
क्वचिदाकर्णविकृष्टभल्लवर्षी
।
नृपतीनिव
तान्वियोज्य
सद्यः
सितबालव्यजनैर्जगाम
शान्तिम्
॥
अपि
तुरगसमीपादुत्पतन्तं
मयूरं
न
स
रुचिरकलापं
बाणलक्ष्यीचकार
।
सपदि
गतमनस्कश्चित्रमाल्यानुकीर्णे
रतिविगलितबन्धे
केशपाशे
प्रियायाः
॥
तस्य
कर्कशविहारसंभवं
स्वेदमाननविलग्नजालकम्
।
आचचाम
सतुषारशीकरो
भिन्नपल्लवपुटो
वनानिलः
॥
इति
विस्मृतान्यकरणीयमात्मनः
सचिवावलम्बिधुरं
धराधिपम्
।
परिवृद्धरागमनुबन्धसेवया
मृगया
जहार
चतुरेव
कामिनी
॥
स
ललितकुसुमप्रवालशय्यां
ज्वलितमहौषधिदीपिकासनाथम्
।
नरपतिरतिवाहयांबभूव
क्वचिदसमेतपरिच्छदस्त्रियामाम्
॥
उषसि
स
गजयूथकर्णतालैः
पटुपटहध्वनिभिर्विनीतनिद्रः
।
अरमत
मधुराणि
तत्र
श्रृण्वन्विहगविकूजितबन्दिमङ्गलानि
॥
अथ
जातु
रुरोर्गृहीतवर्त्मा
विपिने
पार्श्वचरैरलक्ष्यमाणः
।
श्रमफेनमुचा
तपस्विगाढां
तमसां
प्राप
नदीं
तुरंगमेण
॥
कुम्भपूरणभवः
पटुरुञ्चैरुञ्चचार
निनदोऽम्भसि
तस्याः
।
तत्र
स
द्विरदबृंहितशङ्की
शब्दपातिनमिषुं
विससर्ज
॥
नृपतेः
प्रतिषिद्धमेव
तत्कृतवान्पङ्क्तिरथो
विलङ्घ्य
यत्
।
अपथे
पदमर्पयन्ति
हि
श्रुतवन्तोऽपि
रजोनिमीलिताः
॥
हा
तातेति
क्रन्दितमाकर्ण्य
विषण्ण
स्तस्यान्विष्यन्वेतसगूढं
प्रभवं
सः
।
शल्यप्रोतं
प्रेक्षअय
सकुम्भं
मुनिपुत्रं
तापादन्तःशल्य
इवासीत्क्षितिपोऽपि
॥
तेनावतीर्य
तुरगात्प्रथितान्वयेन
पृष्टान्वयः
स
जलकुम्भनिषण्णदेहः
।
तस्मै
द्विजेतरतपस्विसुतं
स्खलद्भिरात्मानमक्षरपदैः
कथयांबभूव
॥
तञ्चोदितः
स
तमनुद्धृतशल्यमेव
पित्रोः
सकाशमवसन्नदृशोर्निनाय
।
ताभ्यां
तथागतमुपेत्य
तमेकपुत्रमज्ञानतः
स्वचरितं
नृपतिः
शशंस
॥
तौ
दंपती
बहु
विलप्य
शिशोः
प्रहर्त्रा
शल्यं
निखातमुदहारयतामुरास्तः
।
सोऽभूत्परासुरथ
भूमिपतिं
शशाप
हस्तार्पितैर्नयनवारिभिरेव
वृद्धः
॥
दिष्टान्तमाप्स्यति
भवानपि
पुत्रशोका
दन्त्ये
वयस्यहमिवेति
तमुक्तवन्तम्
।
आक्रान्तपूर्वमिव
मुक्तविषं
भुजंगं
प्रोवाच
कोसलपतिः
प्रथमापराद्धः
॥
शापोऽप्यदृष्टतनयाननपद्मशोभे
सानुग्रहो
भगवता
मयि
पातितोऽयम्
।
कृष्यां
दहन्नपि
खलु
क्षितिमिन्धनेद्धो
बीजप्ररोहजननीं
ज्वलनः
करोति
॥
इत्थं
गते
गतघृणः
किमयं
विधत्तां
वध्यस्तवेत्यभिहितो
वसुधाधिपेन
।
एधान्हुताशनवतः
स
मुनिर्ययाचे
पुत्रं
परासुमनुगन्तुमनाः
सदारः
॥
प्राप्तानुगः
सपदि
शासनमस्य
राजा
संपाद्य
पातकविलुप्तधृतिर्निवृत्तः
।
अन्तर्निविष्टपदमात्मविनाशहेतुं
शापं
दधज्ज्वलनमौर्वमिवाम्बुराशिः
॥