नारदस्य
तु
तद्वाक्यं
श्रुत्वा
वाक्यविशारदः ।
पूजयामास
धर्मात्मा
सहशिष्यो
महामुनिः ॥ १ ॥
यथावत्पूजितस्तेन
देवर्षिर्नारदस्तदा ।
आपृष्ट्वैवाभ्यनुज्ञातः
स
जगाम
विहायसम् ॥ २ ॥
स
मुहूर्तं
गते
तस्मिन्
देवलोकं
मुनिस्तदा ।
जगाम
तमसातीरं
जाह्नव्यास्त्वविदूरतः ॥ ३ ॥
स
तु
तीरं
समासाद्य
तमसाया
मुनिस्तदा ।
शिष्यमाह
स्थितं
पार्श्वे
दृष्ट्वा
तीर्थमकर्दमम् ॥ ४ ॥
अकर्दममिदं
तीर्थं
भरद्वाज
निशामय ।
रमणीयं
प्रसन्नाम्बु
सन्मनुष्यमनो
यथा ॥ ५ ॥
न्यस्यतां
कलशस्तात
दीयतां
वल्कलं
मम ।
इदमेवावगाहिष्ये
तमसातीर्थमुत्तमम् ॥ ६ ॥
एवमुक्ते
भरद्वाजो
वाल्मीकेन
महात्मना ।
प्रायच्छत
मुनेस्तस्य
वल्कलं
नियतो
गुरोः ॥ ७ ॥
स
शिष्यहस्तादादाय
वल्कलं
नियतेन्द्रियः ।
विचचार
ह
पश्यंस्तत्सर्वतो
विपुलं
वनम् ॥ ८ ॥
तस्याभ्याशे
तु
मिथुनं
चरन्तमनपायिनम् ।
ददर्श
भगवांस्तत्र
क्रौञ्चयोश्चारुनिःस्वनम् ॥ ९ ॥
तस्मात्तु
मिथुनादेकं
पुमांसं
पापनिश्चयः ।
जघान
वैरनिलयो
निषादस्तस्य
पश्यतः ॥ १० ॥
तं
शोणितपरीताङ्गं
वेष्टमानं
महीतले ।
भार्या
तु
निहतं
दृष्ट्वा
रुराव
करुणां
गिरम् ॥ ११ ॥
वियुक्ता
पतिना
तेन
द्विजेन
सहचारिणा ।
ताम्रशीर्षेण
मत्तेन
पत्रिणा
सहितेन
वै ॥ १२ ॥
तथा
तु
तं
द्विजं
दृष्ट्वां
निषादेन
निपातितम् ।
ऋषेर्धर्मात्मनस्तस्य
कारुण्यं
समपद्यत ॥ १३ ॥
ततः
करुणवेदित्वादधर्मोऽयमिति
द्विजः ।
निशाम्य
रुदतीं
क्रौञ्चीमिदं
वचनमब्रवीत् ॥ १४ ॥
मा
निषाद
प्रतिष्ठां
त्वमगमः
शाश्वतीः
समाः ।
यत्क्रौञ्चमिथुनादेकमवधीः
काममोहितम् ॥ १५ ॥
तस्यैवं
ब्रुवतश्चिन्ता
बभूव
हृदि
वीक्षतः ।
शोकार्तेनास्य
शकुनेः
किमिदं
व्याहृतं
मया ॥ १६ ॥
चिन्तयन्
स
महाप्राज्ञश्चकार
मतिमान्
मतिम् ।
शिष्यं
चैवाब्रवीद्वाक्यमिदं
स
मुनिपुङ्गवः ॥ १७ ॥
पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः ।
शोकार्त्तस्य
प्रवृत्तो
मे
श्लोको
भवतु
नान्यथा ॥ १८ ॥
शिष्यस्तु
तस्य
ब्रुवतो
मुनेर्वाक्यमनुत्तमम् ।
प्रतिजग्राह
संहृष्टस्तस्य
तुष्टोऽभवद्गुरुः ॥ १९ ॥
सोऽभिषेकं
ततः
कृत्वा
तीर्थे
तस्मिन्
यथाविधि ।
तमेव
चिन्तयन्नर्थमुपावर्तत
वै
मुनिः ॥ २० ॥
भरद्वाजस्ततः
शिष्यो
विनीतः
श्रुतवान्
मुनेः ।
कलशं
पूर्णमादाय
पृष्ठतोऽनुजगाम
ह ॥ २१ ॥
स
प्रविश्याश्रमपदं
शिष्येण
सह
धर्मवित् ।
उपविष्टः
कथाश्चान्याश्चकार
ध्यानमास्थितः ॥ २२ ॥
आजगाम
ततो
ब्रह्मा
लोककर्त्ता
स्वयं
प्रभुः ।
चतुर्मुखो
महातेजा
द्रष्टुं
तं
मुनिपुङ्गवम् ॥ २३ ॥
वाल्मीकिरथ
तं
दृष्ट्वा
सहसोत्थाय
वाग्यतः ।
प्राञ्जलिः
प्रयतो
भूत्वा
तस्थौ
परमविस्मितः ॥ २४ ॥
पूजयामास
तं
देवं
पाद्यार्घ्यासनवन्दनैः ।
प्रणम्य
विधिवच्चैनं
पृष्ट्वानामयमव्ययम् ॥ २५ ॥
वाल्मीकये
महर्षये
सन्दिदेशासनं
ततः ।
ब्रह्मणा
समनुज्ञातः
सोऽप्युपाविशदासने ॥ २६ ॥
उपविष्टे
तदा
तस्मिन्
साक्षाल्लोकपितामहे ।
तद्गतेनैव
मनसा
वाल्मीकिर्ध्यानमास्थितः ॥ २७ ॥
पापात्मना
कृतं
कष्टं
वैरग्रहणबुद्धिना ।
यस्तादृशं
चारुरवं
क्रौञ्चं
हन्यादकारणात् ॥ २८ ॥
शोचन्नेव
मुहुः
क्रौञ्चीमुपश्लोकमिमं
पुनः ।
जगावन्तर्गतमना
भूत्वा
शोकपरायणः ॥ २९ ॥
तमुवाच
ततो
ब्रह्मा
प्रहसन्
मुनिपुङ्गवम् ।
श्लोक
एव
त्वया
बद्धो
नात्र
कार्या
विचारणा ॥ ३० ॥
मच्छन्दादेव
ते
ब्रह्मन्
प्रवृत्तेयं
सरस्वती ।
रामस्य
चरितं
कृत्स्नं
कुरु
त्वमृषिसत्तम ॥ ३१ ॥
धर्मात्मनो
गुणवतो
लोके
रामस्य
धीमतः ।
वृत्तं
कथय
धीरस्य
यथा
ते
नारदाच्छ्रुतम् ॥ ३२ ॥
रहस्यं
च
प्रकाशं
च
यद्वृत्तं
तस्य
धीमतः ।
रामस्य
सहसौमित्रे
राक्षसानां
च
सर्वशः ॥ ३३ ॥
वैदेह्याश्चैव
यद्वृत्तं
प्रकाशं
यदि
वा
रहः ।
तच्चाप्यविदितं
सर्वं
विदितं
ते
भविष्यति ॥ ३४ ॥
न
ते
वागनृता
काव्ये
काचिदत्र
भविष्यति ।
कुरु
रामकथां
पुण्यां
श्लोकबद्धां
मनोरमाम् ॥ ३५ ॥
यावत्स्थास्यन्ति
गिरयः
सरितश्च
महीतले ।
तावद्रामायणकथा
लोकेषु
प्रचरिष्यति ॥ ३६ ॥
यावद्रामायणकथा
त्वत्कृता
प्रचरिष्यति ।
तावदूर्ध्वमधश्च
त्वं
मल्लोकेषु
निवत्स्यसि ॥ ३७ ॥
इत्युक्त्वा
भगवान्
ब्रह्मा
तत्रैवान्तरधीयत ।
ततः
सशिष्यो
वाल्मीकिर्मुनिर्विस्मयमाययौ ॥ ३८ ॥
तस्य
शिष्यास्ततः
सर्वे
जगुः
श्लोकमिमं
पुनः ।
मुहुर्मुहुः
प्रीयमाणाः
प्राहुश्च
भृशविस्मिताः ॥ ३९ ॥
समाक्षरैश्चतुर्भिर्यः
पादैर्गीतो
महर्षिणा ।
सोऽनुव्याहरणाद्भूयः
श्लोकः
श्लोकत्वमागतः ॥ ४० ॥
तस्य
बुद्धिरियं
जाता
वाल्मीकेर्भावितात्मनः ।
कृत्स्नं
रामायणं
काव्यमीदृशैः
करवाण्यहम् ॥ ४१ ॥
उदारवृत्तार्थपदैर्मनोरमैस्ततः
स
रामस्य
चकार
कीर्तिमान् ।
समाक्षरैः
श्लोकशतैर्यशस्विनो
यशस्करं
काव्यमुदारधीर्मुनिः ॥ ४२ ॥
तदुपगतसमाससन्धियोगं
सममधुरोपनतार्थवाक्यबद्धम् ।
रघुवरचरितं
मुनिप्रणीतं
दशशिरसश्च
वधं
निशामयध्वम् ॥ ४३ ॥