श्रुत्वा
वस्तु
समग्रं
तद्धर्मात्मा
धर्मसंहितम् ।
व्यक्तमन्वेषते
भूयो
यद्वृत्तं
तस्य
धीमतः ॥ १ ॥
उपस्पृश्योदकं
सम्यङ्मुनिः
स्थित्वा
कृताञ्जलिः ।
प्राचीनाग्रेषु
दर्भेषु
धर्मेणान्वेषत
गतिम् ॥ २ ॥
रामलक्ष्मणसीताभी
राज्ञा
दशरथेन
च ।
सभार्येण
सराष्ट्रेण
यत्
प्राप्तं
तत्र
तत्त्वतः ॥ ३ ॥
हसितं
भाषितं
चैवं
गतिर्या
यच्च
चेष्टितम् ।
तत्सर्वं
धर्मवीर्येण
यथावत्
सम्प्रपश्यति ॥ ४ ॥
स्त्रीतृतीयेन
च
तथा
यत्प्राप्तं
चरता
वने ।
सत्यसन्धेन
रामेण
तत्सर्वं
चान्ववेक्षितम् ॥ ५ ॥
ततः
पश्यति
धर्मात्मा
तत्सर्वं
योगमास्थितः ।
पुरा
यत्तत्र
निर्वृत्तं
पाणावामलकं
यथा ॥ ६ ॥
तत्सर्वं
तत्त्वतो
दृष्ट्वा
धर्मेण
स
महाद्युतिः ।
अभिरामस्य
रामस्य
चरितं
कर्त्तुमुद्यतः ॥ ७ ॥
कामार्थगुणसंयुक्तं
धर्मार्थगुणविस्तरम् ।
समुद्रमिव
रत्नाढ्यं
सर्वश्रुतिमनोहरम् ॥ ८ ॥
स
यथा
कथितं
पूर्वं
नारदेन
महर्षिणा ।
रघुवंशस्य
चरितं
चकार
भगवानृषिः ॥ ९ ॥
जन्म
रामस्य
सुमहद्वीर्यं
सर्वानुकूलताम् ।
लोकस्य
प्रियतां
क्षान्तिं
सौम्यतां
सत्यशीलताम् ॥ १० ॥
जानक्याश्च
विवाहं
च
धनुषश्च
विभेदनम् ।
रामरामविवादं
च
गुणान्
दाशरथेस्तथा ॥ ११ ॥
तथाभिषेकं
रामस्य
कैकेय्या
दुष्टभावताम् ।
विघातं
चाभिषेकस्य
रामस्य
च
विवासनम् ॥ १२ ॥
राज्ञः
शोकविलापं
च
परलोकस्य
चाश्रयम् ।
प्रकृतीनां
विषादं
च
प्रकृतीनां
विसर्जनम् ॥ १३ ॥
निषादाधिपसंवादं
सूतोपावर्तनं
तथा ।
गङ्गायाश्चापि
सन्तारं
भरद्वाजस्य
दर्शनम् ॥ १४ ॥
भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य
दर्शनम् ।
वास्तुकर्म
विवेशं
च
भरतागमनं
तथा ॥ १५ ॥
प्रसादनं
च
रामस्य
पितुश्च
सलिलक्रियाम् ।
पादुकाग्र्याभिषेकं
च
नन्दिग्रामनिवासनम् ॥ १६ ॥
दण्डकारण्यगमनं
विराधस्य
वधं
तथा ।
दर्शनं
शरभङ्गस्य
सुतीक्ष्णेनाभिसङ्गमम् ॥ १७ ॥
अनसूयासहास्यामप्यङ्गरागस्य
चार्पणम् ।
अगस्त्यदर्शनं
चैव
शूर्पणख्याश्च
दर्शनम् ॥ १८ ॥
शूर्पणख्याश्च
संवादं
विरूपकरणं
तथा ।
वधं
खरत्रिशिरसोरुत्थानं
रावणस्य
च ॥ १९ ॥
मारीचस्य
वधं
चैव
वैदेह्या
हरणं
तथा ।
राघवस्य
विलापं
च
गृध्रराजनिबर्हणम् ॥ २० ॥
कबन्धदर्शनं
चैव
पम्पायाश्चापि
दर्शनम् ।
शबरीदर्शनं
चैव
फलमूलाशनं
तथा ॥ २१ ॥
प्रलापं
चैव
पम्पायां
हनुमद्दर्शनं
तथा ।
विलापं
चैव
पम्पायां
राघवस्य
महात्मनः ॥ २२ ॥
ऋश्यमूकस्य
गमनं
सुग्रीवेण
समागमम् ।
प्रत्ययोत्पादनं
सख्यं
वालिसुग्रीवविग्रहम् ॥ २३ ॥
वालिप्रमथनं
चैव
सुग्रीवप्रतिपादनम् ।
ताराविलापं
समयं
वर्षरात्रनिवासनम् ॥ २४ ॥
कोपं
राघवसिंहस्य
बलानामुपसङ्ग्रहम् ।
दिशः
प्रस्थापनं
चैव
पृथिव्याश्च
निवेदनम् ॥ २५ ॥
अङ्गुलीयकदानं
च
ऋक्षस्य
बिलदर्शनम् ।
प्रायोपवेशनं
चैव
सम्पातेश्चैव
दर्शनम् ॥ २६ ॥
पर्वतारोहणं
चैव
सागरस्य
च
लङ्घनम् ।
समुद्रवचनाच्चैव
मैनाकस्य
च
दर्शनम् ॥ २७ ॥
सिंहिकायाश्च
निधनं
लङ्कामलयदर्शनम् ।
रात्रौ
लङ्काप्रवेशं
च
एकस्य
च
विचिन्तनम् ॥ २८ ॥
आपानभूमिगमनमवरोधस्य
दर्शनम् ।
दर्शनं
रावणस्यापि
पुष्पकस्य
च
दर्शनम् ॥ २९ ॥
अशोकवनिकायानं
सीतायाश्चैव
दर्शनम् ।
अभिज्ञानप्रदानं
च
सीतायाश्चाभिभाषणम् ॥ ३० ॥
राक्षसीतर्जनं
चैव
त्रिजटास्वप्नदर्शनम् ।
मणिप्रदानं
सीताया
वृक्षभङ्गं
तथैव
च ॥ ३१ ॥
राक्षसीविद्रवं
चैव
किङ्कराणां
निबर्हणम् ।
ग्रहणं
वायुसूनोश्च
लङ्कादाहाभिगर्जनम् ॥ ३२ ॥
प्रतिप्लवनमेवाथ
मधूनां
हरणं
तथा ।
राघवाश्वासनं
चैव
मणिनिर्यातनं
तथा ॥ ३३ ॥
सङ्गमं
च
समुद्रेण
नलसेतोश्च
बन्धनम् ।
प्रतारं
च
समुद्रस्य
रात्रौ
लङ्कावरोधनम् ॥ ३४ ॥
विभीषणेन
संसर्गं
वधोपायनिवेदनम् ।
कुम्भकर्णस्य
निधनं
मेघनादनिबर्हणम् ॥ ३५ ॥
रावणस्य
विनाशं
च
सीतावाप्तिमरेः
पुरे ।
विभीषणाभिषेकं
च
पुष्पकस्य
च
दर्शनम् ॥ ३६ ॥
अयोध्यायाश्च
गमनं
भरद्वाजसमागमम् ।
प्रेषणं
वायुपुत्रस्य
भरतेन
समागमम् ॥ ३७ ॥
रामाभिषेकाभ्युदयं
सर्वसैन्यविसर्जनम् ।
स्वराष्ट्ररञ्जनं
चैव
वैदेह्याश्च
विसर्जनम् ॥ ३८ ॥
अनागतं
च
यत्किञ्चिद्रामस्य
वसुधातले ।
तच्चकारोत्तरे
काव्ये
वाल्मीकिर्भगवानृषिः ॥ ३९ ॥