प्राप्तराज्यस्य
रामस्य
वाल्मीकिर्भगवानृषिः ।
चकार
चरितं
कृत्स्नं
विचित्रपदमात्मवान् ॥ १ ॥
चतुर्विंशत्सहस्राणि
श्लोकानामुक्तवानृषिः ।
तथा
सर्गशतान्
पञ्च
षट्काण्डानि
तथोत्तरम् ॥ २ ॥
कृत्वापि
तन्महाप्राज्ञः
सभविष्यं
सहोत्तरम् ।
चिन्तयामास
को
न्वेतत्प्रयुञ्जीयादिति
प्रभुः ॥ ३ ॥
तस्य
चिन्तयमानस्य
महर्षेर्भावितात्मनः ।
अगृह्णीतां
ततः
पादौ
मुनिवेषौ
कुशीलवौ ॥ ४ ॥
कुशीलवौ
तु
धर्मज्ञौ
राजपुत्रौ
यशस्विनौ ।
भ्रातरौ
स्वरसम्पन्नौ
ददर्शाश्रमवासिनौ ॥ ५ ॥
स
तु
मेधाविनौ
दृष्ट्वा
वेदेषु
परिनिष्ठितौ ।
वेदोपबृंहणार्थाय
तावग्राहयत
प्रभुः ॥ ६ ॥
काव्यं
रामायणं
कृत्स्नं
सीतायाश्चरितं
महत् ।
पौलस्त्यवधमित्येव
चकार
चरितव्रतः ॥ ७ ॥
पाठ्ये
गेये
च
मधुरं
प्रमाणैस्त्रिभिरन्वितम् ।
जातिभिः
सप्तभिर्बद्धं
तन्त्रीलयसमन्वितम् ॥ ८ ॥
रसैः
शृङ्गारकारुण्यहास्यवीरभयानकैः ।
रौद्रादिभिश्च
संयुक्तं
काव्यमेतदगायताम् ॥ ९ ॥
तौ
तु
गान्धर्वतत्त्वज्ञौ
मूर्च्छनास्थानकोविदौ ।
भ्रातरौ
स्वरसम्पन्नौ
गन्धर्वाविव
रूपिणौ ॥ १० ॥
रूपलक्षणसम्पन्नौ
मधुरस्वरभाषिणौ ।
बिम्बादिवोत्थितौ
बिम्बौ
रामदेहात्तथापरौ ॥ ११ ॥
तौ
राजपुत्रौ
कार्त्स्न्येन
धर्म्यमाख्यानमुत्तमम् ।
वाचोविधेयं
तत्सर्वं
कृत्वा
काव्यमनिन्दितौ ॥ १२ ॥
ऋषीणां
च
द्विजातीनां
साधूनां
च
समागमे ।
यथोपदेशं
तत्त्वज्ञौ
जगतुस्तौ
समाहितौ ॥ १३ ॥
महात्मानौ
महाभागौ
सर्वलक्षणलक्षितौ ।
तौ
कदाचित्समेतानामृषीणां
भावितात्मनाम् ॥ १४ ॥
आसीनानां
समीपस्थाविदं
काव्यमगायताम् ।
तच्छ्रुत्वा
मुनयः
सर्वे
बाष्पपर्याकुलेक्षणाः ॥ १५ ॥
साधु
साध्विति
तावूचुः
परं
विस्मयमागताः ।
ते
प्रीतमनसः
सर्वे
मुनयो
धर्मवत्सलाः ॥ १६ ॥
प्रशशंसुः
प्रशस्तव्यौ
गायमानौ
कुशीलवौ ।
अहो
गीतस्य
माधुर्यं
श्लोकानां
च
विशेषतः ॥ १७ ॥
चिरनिर्वृत्तमप्येतत्प्रत्यक्षमिव
दर्शितम् ।
प्रविश्य
तावुभौ
सुष्ठु
तदा
भावमगायताम् ॥ १८ ॥
सहितौ
मधुरं
रक्तं
सम्पन्नं
स्वरसम्पदा ।
एवं
प्रशस्यमानौ
तौ
तपःश्लाघ्यैर्महात्मभिः ॥ १९ ॥
संरक्ततरमत्यर्थं
मधुरं
तावगायताम् ।
प्रीतः
कश्चिन्मुनिस्ताभ्यां
संस्थितः
कलशं
ददौ ॥ २० ॥
प्रसन्नो
वल्कले
कश्चिद्ददौ
ताभ्यां
महायशाः ।
अन्यः
कृष्णाजिनमदाद्यज्ञसूत्रं
तथापरः ॥ २१ ॥
कश्चित्कमण्डलुं
प्रादान्मौञ्जीमन्यो
महामुनिः ।
बृसीमन्यस्तदा
प्रादात्कौपीनमपरो
मुनिः ॥ २२ ॥
ताभ्यां
ददौ
तदा
हृष्टः
कुठारमपरो
मुनिः ।
काषायमपरो
वस्त्रं
चिरमन्यो
ददौ
मुनिः ॥ २३ ॥
जटाबन्धनमन्यस्तु
काष्ठरज्जुं
मुदान्वितः ।
यज्ञभाण्डमृषिः
कश्चित्
काष्ठभारं
तथापरः ॥ २४ ॥
औदुम्बरीं
बृसीमन्यः
स्वस्ति
केचित्तदावदन् ।
आयुष्यमपरे
प्राहुर्मुदा
तत्र
महर्षयः ॥ २५ ॥
ददुश्चैवं
वरान्सर्वे
मुनयः
सत्यवादिनः ।
आश्चर्यमिदमाख्यानं
मुनिना
सम्प्रकीर्तितम् ॥ २६ ॥
परं
कवीनामाधारं
समाप्तं
च
यथाक्रमम् ।
अभिगीतमिदं
गीतं
सर्वगीतेषु
कोविदौ ॥ २७ ॥
आयुष्यं
पुष्टिजनकं
सर्वश्रुतिमनोहरम् ।
प्रशस्यमानौ
सर्वत्र
कदाचित्तत्र
गायकौ ॥ २८ ॥
रथ्यासु
राजमार्गेषु
ददर्श
भरताग्रजः ।
स्ववेश्म
चानीय
ततो
भ्रातरौ
च
कुशीलवौ ॥ २९ ॥
पूजयामास
पूजार्हौ
रामः
शत्रुनिबर्हणः ।
आसीनः
काञ्चने
दिव्ये
स
च
सिंहासने
प्रभुः ॥ ३० ॥
उपोपविष्टः
सचिवैर्भ्रातृभिश्च
परन्तपः ।
दृष्ट्वा
तु
रूपसम्पन्नौ
तावुभौ
नियतस्तदा ॥ ३१ ॥
उवाच
लक्ष्मणं
रामः
शत्रुघ्नं
भरतं
तथा ।
श्रूयतामिदमाख्यानमनयोर्देववर्चसोः ॥ ३२ ॥
विचित्रार्थपदं
सम्यग्गायिनौ
तावचोदयत् ।
तौ
चापि
मधुरं
रक्तं
स्वञ्चितायतनिःस्वनम् ॥ ३३ ॥
तन्त्रीलयवदत्यर्थं
विश्रुतार्थमगायताम् ।
ह्लादयत्
सर्वगात्राणि
मनांसि
हृदयानि
च ॥ ३४ ॥
श्रोत्राश्रयसुखं
गेयं
तद्बभौ
जनसंसदि ।
इमौ
मुनी
पार्थिवलक्षणान्वितौ
कुशीलवौ
चैव
महातपस्विनौ ॥ ३५ ॥
ममापि
तद्
भूतिकरं
प्रवक्ष्यते
महानुभावं
चरितं
निबोधत ।
ततस्तु
तौ
रामवचः
प्रचोदितावगायतां
मार्गविधानसम्पदा ॥ ३६ ॥
स
चापि
रामः
परिषद्गतः
शनैर्बुभूषयासक्तमना
बभूव
ह ।
इति
वाल्मीकिरामायणे
आदिकाव्ये
बालकाण्डे
चतुर्थः
सर्गः ॥ ३७ ॥