तस्यां
पुर्यामयोध्यायां
वेदवित्सर्वसङ्ग्रहः ।
दीर्घदर्शी
महातेजाः
पौरजानपदप्रियः ॥ १ ॥
इक्ष्वाकूणामतिरथो
यज्वा
धर्मरतो
वशी ।
महर्षिकल्पो
राजर्षिस्त्रिषु
लोकेषु
विश्रुतः ॥ २ ॥
बलवान्निहतामित्रो
मित्रवान्
विजितेन्द्रियः ।
धनैश्च
सङ्ग्रहैश्चान्यैः
शक्रवैश्रवणोपमः ॥ ३ ॥
यथा
मनुर्महातेजा
लोकस्य
परिरक्षिता ।
तथा
दशरथो
राजा
वसन्
जगदपालयत् ॥ ४ ॥
तेन
सत्याभिसन्धेन
त्रिवर्गमनुतिष्ठता ।
पालिता
सा
पुरी
श्रेष्ठा
इन्द्रेणेवामरावती ॥ ५ ॥
तस्मिन्
पुरवरे
हृष्टा
धर्मात्मानो
बहुश्रुताः ।
नरास्तुष्टा
धनैः
स्वैः
स्वैरलुब्धाः
सत्यवादिनः ॥ ६ ॥
नाल्पसन्निचयः
कश्चिदासीत्तस्मिन्
पुरोत्तमे ।
कुटुम्बी
यो
ह्यसिद्धार्थोऽगवाश्वधनधान्यवान् ॥ ७ ॥
कामी
वा
न
कदर्यो
वा
नृशंसः
पुरुषः
क्वचित् ।
द्रष्टुं
शक्यमयोध्यायां
नाविद्वान्न
च
नास्तिकः ॥ ८ ॥
सर्वे
नराश्च
नार्यश्च
धर्मशीलाः
सुसंयताः ।
उदिताः
शीलवृत्ताभ्यां
महर्षय
इवामलाः ॥ ९ ॥
नाकुण्डली
नामकुटी
नास्रग्वी
नाल्पभोगवान् ।
नामृष्टो
नानुलिप्ताङ्गो
नासुगन्धश्च
विद्यते ॥ १० ॥
नामृष्टभोजी
नादाता
नाप्यनङ्गदनिष्कधृक् ।
नाहस्ताभरणो
वापि
दृश्यते
नाप्यनात्मवान् ॥ ११ ॥
नानाहिताग्निर्नायज्वा
न
क्षुद्रो
वा
न
तस्करः ।
कश्चिदासीदयोध्यायां
न
च
निर्वृत्तसङ्करः ॥ १२ ॥
स्वकर्मनिरता
नित्यं
ब्राह्मणा
विजितेन्द्रियाः ।
दानाध्ययनशीलाश्च
संयताश्च
प्रतिग्रहे ॥ १३ ॥
न
नास्तिको
नानृतको
न
कश्चिदबहुश्रुतः ।
नासूयको
न
वाशक्तो
नाविद्वान्
विद्यते
तदा ॥ १४ ॥
नाषडङ्गविदत्रासीन्नाव्रतो
नासहस्रदः ।
न
दीनः
क्षिप्तचित्तो
वा
व्यथितो
वापि
कश्चन ॥ १५ ॥
कश्चिन्नरो
वा
नारी
वा
नाश्रीमान्नाप्यरूपवान् ।
द्रष्टुं
शक्यमयोध्यायां
नापि
राजन्यभक्तिमान् ॥ १६ ॥
वर्णेष्वग्र्यचतुर्थेषु
देवतातिथिपूजकाः ।
कृतज्ञाश्च
वदान्याश्च
शूरा
विक्रमसंयुताः ॥ १७ ॥
दीर्घायुषो
नराः
सर्वे
धर्मं
सत्यं
च
संश्रिताः ।
सहिताः
पुत्रपौत्रैश्च
नित्यं
स्त्रीभिः
पुरोत्तमे ॥ १८ ॥
क्षत्रं
ब्रह्ममुखं
चासीद्वैश्याः
क्षत्रमनुव्रताः ।
शूद्राः
स्वधर्मनिरतास्त्रीन्वर्णानुपचारिणः ॥ १९ ॥
सा
तेनेक्ष्वाकुनाथेन
पुरी
सुपरिरक्षिता ।
यथा
पुरस्तान्मनुना
मानवेन्द्रेण
धीमता ॥ २० ॥
योधानामग्निकल्पानां
पेशलानाममर्षिणाम् ।
सम्पूर्णा
कृतविद्यानां
गुहा
केसरिणामिव ॥ २१ ॥
काम्भोजविषये
जातैर्बाह्लीकैश्च
हयोत्तमैः ।
वनायुजैर्नदीजैश्च
पूर्णा
हरिहयोत्तमैः ॥ २२ ॥
विन्ध्यपर्वतजैर्मत्तैः
पूर्णा
हैमवतैरपि ।
मदान्वितैरतिबलैर्मातङ्गैः
पर्वतोपमैः ॥ २३ ॥
ऐरावतकुलीनैश्च
महापद्मकुलैस्तथा ।
अञ्जनादपि
निष्पन्नैर्वामनादपि
च
द्विपैः ॥ २४ ॥
भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च
सा
पुरी ।
नित्यमत्तैः
सदा
पूर्णा
नागैरचलसन्निभैः ॥ २५ ॥
सा
योजने
च
द्वे
भूयः
सत्यनामा
प्रकाशते ।
यस्यां
दशरथो
राजा
वसन्
जगदपालयत् ॥ २६ ॥
तां
पुरीं
स
महातेजा
राजा
दशरथो
महान् ।
शशास
शमितामित्रो
नक्षत्राणीव
चन्द्रमाः ॥ २७ ॥
तां
सत्यनामां
दृढतोरणार्गलां
गृहैर्विचित्रैरुपशोभितां
शिवाम् ।
पुरीमयोध्यां
नृसहस्रसङ्कुलां
शशास
वै
शक्रसमो
महीपतिः ॥ २८ ॥