तस्यामात्या
गुणैरासन्निक्ष्वाकोस्तु
महात्मनः ।
मन्त्रज्ञाश्चेङ्गितज्ञाश्च
नित्यं
प्रियहिते
रताः ॥ १ ॥
अष्टौ
बभूवुर्वीरस्य
तस्यामात्या
यशस्विनः ।
शुचयश्चानुरक्ताश्च
राजकृत्येषु
नित्यशः ॥ २ ॥
धृष्टिर्जयन्तो
विजयः
सिद्धार्थोह्यर्थसाधकः ।
अशोको
मन्त्रपालश्च
सुमन्त्रश्चाष्टमोऽभवत् ॥ ३ ॥
ऋत्विजौ
द्वावभिमतौ
तस्यास्तामृषिसत्तमौ ।
वसिष्ठो
वामदेवश्च
मन्त्रिणश्च
तथाऽपरे ॥ ४ ॥
मार्कण्डेयस्तु
दीर्घायुस्तथा
कात्यायनो
द्विजः ।
एतैर्ब्रह्मर्षिभिर्नित्यमृत्विजस्तस्य
पौर्वकाः ॥ ५ ॥
विद्याविनीता
ह्रीमन्तः
कुशला
नियतेन्द्रियाः ।
श्रीमन्तश्च
महात्मानः
शास्त्रज्ञा
दृढविक्रमाः ॥ ६ ॥
तेजःक्षमायशःप्राप्ताः
स्मितपूर्वाभिभाषिणः ।
क्रोधात्कामार्थहेतोर्वा
न
ब्रूयुरनृतं
वचः ॥ ७ ॥
तेषामविदितं
किञ्चित्
स्वेषु
नास्ति
परेषु
वा ।
क्रियमाणं
कृतं
वापि
चारेणापि
चिकीर्षितम् ॥ ८ ॥
कुशला
व्यवहारेषु
सौहृदेषु
परीक्षिताः ।
प्राप्तकालं
तु
ते
दण्डं
धारयेयुः
सुतेष्वपि ॥ ९ ॥
कोशसङ्ग्रहणे
युक्ता
बलस्य
च
परिग्रहे ।
अहितं
वापि
पुरुषं
न
विहिंस्युरदूषकम् ॥ १० ॥
वीराश्च
नियतोत्साहा
राजशास्त्रमनुष्ठिताः ।
शुचीनां
रक्षितारश्च
नित्यं
विषयवासिनाम् ॥ ११ ॥
ब्रह्मक्षत्रमहिंसन्तस्ते
कोशं
समपूरयन् ।
सुतीक्ष्णदण्डाः
सम्प्रेक्ष्य
पुरुषस्य
बलाबलम् ॥ १२ ॥
शुचीनामेकबुद्धीनां
सर्वेषां
सम्प्रजानताम् ।
नासीत्पुरे
वा
राष्ट्रे
वा
मृषावादी
नरः
क्वचित् ॥ १३ ॥
कश्चिन्न
दुष्टस्तत्रासीत्
परदाररतो
नरः ।
प्रशान्तं
सर्वमेवासीद्राष्ट्रं
पुरवरं
च
तत् ॥ १४ ॥
सुवाससः
सुवेषाश्च
ते
च
सर्वे
सुशीलिनः ।
हितार्थं
च
नरेन्द्रस्य
जाग्रतो
नयचक्षुषा ॥ १५ ॥
गुरौ
गुणगृहीताश्च
प्रख्याताश्च
पराक्रमे ।
विदेशेष्वपि
विज्ञाताः
सर्वतो
बुद्धिनिश्चयात् ॥ १६ ॥
सन्धिविग्रहतत्त्वज्ञाः
प्रकृत्या
सम्पदान्विताः ।
मन्त्रसंवरणे
शक्ताः
श्लक्ष्णास्सूक्ष्मासु
बुद्धिषु ॥ १७ ॥
नीतिशास्त्रविशेषज्ञाः
सततं
प्रियवादिनः ।
ईदृशैस्तैरमात्यैश्च
राजा
दशरथोऽनघः ॥ १८ ॥
उपपन्नो
गुणोपेतैरन्वशासद्वसुन्धराम् ।
अवेक्षमाणश्चारेण
प्रजा
धर्मेण
रञ्जयन् ॥ १९ ॥
प्रजानां
पालनं
कुर्वन्नधर्मं
परिवर्जयन् ।
विश्रुतस्त्रिषु
लोकेषु
वदान्यः
सत्यसङ्गरः ॥ २० ॥
स
तत्र
पुरुषव्याघ्रः
शशास
पृथिवीमिमाम् ।
मित्रवान्नतसामन्तः
प्रतापहतकण्टकः ॥ २१ ॥
स
शशास
जगद्राजा
दिवं
देवपतिर्यथा ।
तैर्मन्त्रिभिर्मन्त्रहिते
नियुक्तैर्वृतोऽनुरक्तैः
कुशलैः
समर्थैः ॥ २२ ॥
स
पार्थिवो
दीप्तिमवाप
युक्तस्तेजोमयैर्गोभिरिवोदितोऽर्कः ॥ २३ ॥