एतच्छ्रुत्वा
रहः
सूतो
राजानमिदमब्रवीत् ।
ऋत्विग्भिरुपदिष्टोऽयं
पुरावृत्तो
मया
श्रुतः ॥ १ ॥
सनत्कुमारो
भगवान्
पूर्वं
कथितवान्
कथाम् ।
ऋषीणां
सन्निधौ
राजन्
तव
पुत्रागमं
प्रति ॥ २ ॥
कश्यपस्य
तु
पुत्रोऽस्ति
विभण्डक
इति
श्रुतः ।
ऋश्यशृङ्ग
इति
ख्यातस्तस्य
पुत्रो
भविष्यति ॥ ३ ॥
स
वने
नित्यसंवृद्धो
मुनिर्वनचरः
सदा ।
नान्यं
जानाति
विप्रेन्द्रो
नित्यं
पित्रनुवर्तनात् ॥ ४ ॥
द्वैविध्यं
ब्रह्मचर्यस्य
भविष्यति
महात्मनः ।
लोकेषु
प्रथितं
राजन्
विप्रैश्च
कथितं
सदा ॥ ५ ॥
तस्यैवं
वर्तमानस्य
कालः
समभिवर्तत ।
अग्निं
शुश्रूषमाणस्य
पितरं
च
यशस्विनम् ॥ ६ ॥
एतस्मिन्नेव
काले
तु
रोमपादः
प्रतापवान् ।
अङ्गेषु
प्रथितो
राजा
भविष्यति
महाबलः ॥ ७ ॥
तस्य
व्यतिक्रमाद्राज्ञो
भविष्यति
सुदारुणा ।
अनावृष्टिः
सुघोरा
वै
सर्वभूतभयावहा ॥ ८ ॥
अनावृष्ट्यां
तु
वृत्तायां
राजा
दुःखसमन्वितः ।
ब्राह्मणान्
श्रुतवृद्धांश्च
समानीय
प्रवक्ष्यति ॥ ९ ॥
भवन्तः
श्रुतधर्माणो
लोकचारित्रवेदिनः ।
समादिशन्तु
नियमं
प्रायश्चित्तं
यथा
भवेत् ॥ १० ॥
वक्ष्यन्ति
ते
महीपालं
ब्राह्मणा
वेदपारगाः ।
विभण्डकसुतं
राजन्
सर्वोपायैरिहानय ॥ ११ ॥
आनाय्य
च
महीपाल
ऋश्यशृङ्गं
सुसत्कृतम् ।
प्रयच्छ
कन्यां
शान्तां
वै
विधिना
सुसमाहितः ॥ १२ ॥
तेषां
तु
वचनं
श्रुत्वा
राजा
चिन्तां
प्रपत्स्यते ।
केनोपायेन
वै
शक्यमिहानेतुं
स
वीर्यवान् ॥ १३ ॥
ततो
राजा
विनिश्चित्य
सह
मन्त्रिभिरात्मवान् ।
पुरोहितममात्यांश्च
ततः
प्रेष्यति
सत्कृतान् ॥ १४ ॥
ते
तु
राज्ञो
वचः
श्रुत्वा
व्यथिता
विनताननाः ।
न
गच्छेम
ऋषेर्भीता
अनुनेष्यन्ति
तं
नृपम् ॥ १५ ॥
वक्ष्यन्ति
चिन्तयित्वा
ते
तस्योपायांश्च
तत्क्षमान् ।
आनेष्यामो
वयं
विप्रं
न
च
दोषो
भविष्यति ॥ १६ ॥
एवमङ्गाधिपेनैव
गणिकाभिर्ऋषेः
सुतः ।
आनीतोऽवर्षयद्देवः
शान्ता
चास्मै
प्रदीयते ॥ १७ ॥
ऋश्यशृङ्गस्तु
जामाता
पुत्रान्
तव
विधास्यति ।
सनत्कुमारकथितमेतावद्व्याहृतं
मया ॥ १८ ॥
अथ
हृष्टो
दशरथः
सुमन्त्रं
प्रत्यभाषत ।
यथर्श्यशृङ्गस्त्वानीतो
विस्तरेण
त्वयोच्यताम् ॥ १९ ॥