सुमन्त्रश्चोदितो
राज्ञा
प्रोवाचेदं
वचस्तथा ।
यथर्श्यशृङ्गस्त्वानीतः
शृणु
मे
मन्त्रिभिः
स
ह ॥ १ ॥
रोमपादमुवाचेदं
सहामात्यपुरोहितः ।
उपायो
निरपायोऽयमस्माभिरभिचिन्तितः ॥ २ ॥
ऋश्यशृङ्गो
वनचरस्तपःस्वाध्यायने
रतः ।
अनभिज्ञः
स
नारीणां
विषयाणां
सुखस्य
च ॥ ३ ॥
इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिः ।
पुरमानाययिष्यामः
क्षिप्रं
चाध्यवसीयताम् ॥ ४ ॥
गणिकास्तत्र
गच्छन्तु
रूपवत्यः
स्वलङ्कृताः ।
प्रलोभ्य
विविधोपायैरानयिष्यन्ति
सत्कृताः ॥ ५ ॥
पुरोहितो
मन्त्रिणश्च
तथा
चक्रुश्च
ते
तदा ।
वारमुख्यास्तु
तच्छ्रुत्वा
वनं
प्रविविशुर्महत् ॥ ६ ॥
आश्रमस्याविदूरेऽस्मिन्
यत्नं
कुर्वन्ति
दर्शने ।
ऋषिपुत्रस्य
धीरस्य
नित्यमाश्रमवासिनः ॥ ७ ॥
पितुः
स
नित्यसन्तुष्टो
नातिचक्राम
चाश्रमात् ।
न
तेन
जन्मप्रभृति
दृष्टपूर्वं
तपस्विना ॥ ८ ॥
स्त्री
वा
पुमान्
वा
यच्चान्यत्सर्वं
नगरराष्ट्रजम् ।
ततः
कदाचित्तं
देशमाजगाम
यदृच्छया ॥ ९ ॥
विभण्डकसुतस्तत्र
ताश्चापश्यद्वराङ्गनाः ।
ताश्चित्रवेषाः
प्रमदा
गायन्त्यो
मधुरस्वरैः ॥ १० ॥
ऋषिपुत्रमुपागम्य
सर्वा
वचनमब्रुवन् ।
कस्त्वं
किं
वर्तसे
ब्रह्मन्
ज्ञातुमिच्छामहे
वयम् ॥ ११ ॥
एकस्त्वं
विजने
घोरे
वने
चरसि
शंस
नः ।
अदृष्टरूपास्तास्तेन
काम्यरूपा
वने
स्त्रियः ॥ १२ ॥
हार्दात्तस्य
मतिर्जाता
ह्याख्यातुं
पितरं
स्वकम् ।
पिता
विभण्डकोऽस्माकं
तस्याहं
सुत
औरसः ॥ १३ ॥
ऋश्यशृङ्ग
इति
ख्यातं
नाम
कर्म
च
मे
भुवि ।
इहाश्रमपदोऽस्माकं
समीपे
शुभदर्शनाः ॥ १४ ॥
करिष्ये
वोऽत्र
पूजां
वै
सर्वेषां
विधिपूर्वकम् ।
ऋषिपुत्रवचः
श्रुत्वा
सर्वासां
मतिरास
वै ॥ १५ ॥
तदाश्रमपदं
द्रष्टुं
जग्मुः
सर्वाश्च
तेन
ताः ।
आगतानां
ततः
पूजामृषिपुत्रश्चकार
ह ॥ १६ ॥
इदमर्घ्यमिदं
पाद्यमिदं
मूलमिदं
फलम् ।
प्रतिगृह्य
तु
तां
पूजां
सर्वा
एव
समुत्सुकाः ॥ १७ ॥
ऋषेर्भीतास्तु
शीघ्रं
ता
गमनाय
मतिं
दधुः ।
अस्माकमपि
मुख्यानि
फलानीमानि
वै
द्विज ॥ १८ ॥
गृहाण
प्रति
भद्रं
ते
भक्षयस्व
च
मा
चिरम् ।
ततस्तास्तं
समालिङ्ग्य
सर्वा
हर्षसमन्विताः ॥ १९ ॥
मोदकान्
प्रददुस्तस्मै
भक्षांश्च
विविधान्
शुभान् ।
तानि
चास्वाद्य
तेजस्वी
फलानीति
स्म
मन्यते ॥ २० ॥
अनास्वादितपूर्वाणि
वने
नित्यनिवासिनाम् ।
आपृच्छ्य
तु
तदा
विप्रं
व्रतचर्यां
निवेद्य
च ॥ २१ ॥
गच्छन्ति
स्मापदेशात्ताः
भीतास्तस्य
पितुः
स्त्रियः ।
गतासु
तासु
सर्वासु
काश्यपस्यात्मजो
द्विजः ॥ २२ ॥
अस्वस्थहृदयश्चासीद्दुःखं
स्म
परिवर्तते ।
ततोऽपरेद्युस्तं
देशमाजगाम
स
वीर्यवान् ॥ २३ ॥
मनोज्ञा
यत्र
ता
दृष्टा
वारमुख्याः
स्वलङ्कृताः ।
दृष्टैव
च
तदा
विप्रमायान्तं
हृष्टमानसाः ॥ २४ ॥
उपसृत्य
ततः
सर्वास्तास्तमूचुरिदं
वचः ।
एह्याश्रमपदं
सौम्य
ह्यस्माकमिति
चाब्रुवन् ॥ २५ ॥
तत्राप्येष
विधिः
श्रीमान्
विशेषेण
भविष्यति ।
श्रुत्वा
तु
वचनं
तासां
सर्वासां
हृदयङ्गमम् ॥ २६ ॥
गमनाय
मतिं
चक्रे
तं
च
निन्युस्तदा
स्त्रियः ।
तत्र
चानीयमाने
तु
विप्रे
तस्मिन्
महात्मनि ॥ २७ ॥
ववर्ष
सहसा
देवो
जगत्प्रह्लादयंस्तदा ।
हर्षेणैवागतं
विप्रं
विषयं
स्वं
नराधिपः ॥ २८ ॥
प्रत्युद्गम्य
मुनिं
प्रह्वः
शिरसा
च
महीं
गतः ।
अर्घ्यं
च
प्रददौ
तस्मै
न्यायतः
सुसमाहितः ॥ २९ ॥
वव्रे
प्रसादं
विप्रेन्द्रान्मा
विप्रं
मन्युराविशत् ।
अन्तःपुरं
प्रविश्यास्मै
कन्यां
दत्त्वा
यथाविधि ॥ ३० ॥
शान्तां
शान्तेन
मनसा
राजा
हर्षमवाप
सः ।
एवं
स
न्यवसत्तत्र
सर्वकामैः
सुपूजितः ॥ ३१ ॥