भूय
एव
च
राजेन्द्र
शृणु
मे
वचनं
हितम् ।
यथा
स
देवप्रवरः
कथायामेवमब्रवीत् ॥ १ ॥
इक्ष्वाकूणां
कुले
जातो
भविष्यति
सुधार्मिकः ।
राजा
दशरथो
नाम
श्रीमान्
सत्यप्रतिश्रवः ॥ २ ॥
अङ्गराजेन
सख्यं
च
तस्य
राज्ञो
भविष्यति ।
कन्या
चास्य
महाभागा
शान्ता
नाम
भविष्यति ॥ ३ ॥
पुत्रस्त्वङ्गस्य
राज्ञस्तु
रोमपाद
इति
श्रुतः ।
अङ्गराजं
दशरथो
गमिष्यति
महायशाः ॥ ४ ॥
अनपत्योऽस्मि
धर्मात्मन्
शान्ताभर्ता
मम
क्रतुम् ।
आहरेत
त्वयाज्ञप्तः
सन्तानार्थं
कुलस्य
च ॥ ५ ॥
श्रुत्वा
राज्ञोऽथ
तद्वाक्यं
मनसा
स
विचिन्त्य
च ।
प्रदास्यते
पुत्रवन्तं
शान्ताभर्तारमात्मवान् ॥ ६ ॥
प्रतिगृह्य
च
त
विप्रं
स
राजा
विगतज्वरः ।
आहरिष्यति
तं
यज्ञं
प्रहृष्टेनान्तरात्मना ॥ ७ ॥
तं
च
राजा
दशरथो
यष्टुकामः
कृताञ्जलिः ।
ऋश्यशृङ्गं
द्विजश्रेष्ठं
वरयिष्यति
धर्मवित् ॥ ८ ॥
यज्ञार्थं
प्रसवार्थं
च
स्वर्गार्थं
च
जनेश्वरः ।
लभते
च
स
तं
कामं
विप्रमुख्याद्विशाम्पतिः ॥ ९ ॥
पुत्राश्चास्य
भविष्यन्ति
चत्वारोऽमितविक्रमाः ।
वंशप्रतिष्ठानकराः
सर्वलोकेषु
विश्रुताः ॥ १० ॥
एवं
स
देवप्रवरः
पूर्वं
कथितवान्
कथाम् ।
सनत्कुमारो
भगवान्
पुरा
देवयुगे
प्रभुः ॥ ११ ॥
स
त्वं
पुरुषशार्दूल
तमानय
सुसत्कृतम् ।
स्वयमेव
च
राजेन्द्र
गत्वा
सबलवाहनः ॥ १२ ॥
अनुमान्य
वसिष्ठं
च
सूतवाक्यं
निशम्य
च ।
सान्तःपुरः
सहामात्यः
प्रययौ
यत्र
स
द्विजः ॥ १३ ॥
वनानि
सरितश्चैव
व्यतिक्रम्य
शनैः
शनैः ।
अभिचक्राम
तं
देशं
यत्र
वै
मुनिपुङ्गवः ॥ १४ ॥
आसाद्य
तं
द्विजश्रेष्ठं
रोमपादसमीपगम् ।
ऋषिपुत्रं
ददर्शादौ
दीप्यमानमिवानलम् ॥ १५ ॥
ततो
राजा
यथान्यायं
पूजां
चक्रे
विशेषतः ।
सखित्वात्तस्य
वै
राज्ञः
प्रहृष्टेनान्तरात्मना ॥ १६ ॥
रोमपादेन
चाख्यातमृषिपुत्राय
धीमते ।
सख्यं
सम्बन्धकं
चैव
तदा
तं
प्रत्यपूजयत् ॥ १७ ॥
एवं
सुसत्कृतस्तेन
सहोषित्वा
नरर्षभः ।
सप्ताष्टदिवसान्
राजा
राजानमिदमब्रवीत् ॥ १८ ॥
शान्ता
तव
सुता
राजन्
सह
भर्त्रा
विशाम्पते ।
मदीयं
नगरं
यातु
कार्यं
हि
महदुद्यतम् ॥ १९ ॥
तथेति
राजा
संश्रुत्य
गमनं
तस्य
धीमतः ।
उवाच
वचनं
विप्रं
गच्छ
त्वं
सह
भार्यया ॥ २० ॥
ऋषिपुत्रः
प्रतिश्रुत्य
तथेत्याह
नृपं
तदा ।
स
नृपेणाभ्यनुज्ञातः
प्रययौ
सह
भार्यया ॥ २१ ॥
तावन्योन्याञ्जलिं
कृत्वा
स्नेहात्संश्लिष्य
चोरसा ।
ननन्दतुर्दशरथो
रोमपादश्च
वीर्यवान् ॥ २२ ॥
ततः
सुहृदमापृच्छ्य
प्रस्थितो
रघुनन्दनः ।
पौरेभ्यः
प्रेषयामास
दूतान्
वै
शीघ्रगामिनः ॥ २३ ॥
क्रियतां
नगरं
सर्वं
क्षिप्रमेव
स्वलङ्कृतम् ।
धूपितं
सिक्तसम्मृष्टं
पताकाभिरलङ्कृतम् ॥ २४ ॥
ततः
प्रहृष्टाः
पौरास्ते
श्रुत्वा
राजानमागतम् ।
तथा
प्रचक्रुस्तत्सर्वं
राज्ञा
यत्प्रेषितं
तदा ॥ २५ ॥
ततः
स्वलङ्कृतं
राजा
नगरं
प्रविवेश
ह ।
शङ्खदुन्दुभिर्निर्घोषैः
पुरस्कृत्य
द्विजर्षभम् ॥ २६ ॥
ततः
प्रमुदिताः
सर्वे
दृष्ट्वा
तं
नागरा
द्विजम् ।
प्रवेश्यमानं
सत्कृत्य
नरेन्द्रेणेन्द्रकर्मणा ॥ २७ ॥
अन्तःपुरं
प्रवेश्यैनं
पूजां
कृत्वा
विधानतः ।
कृतकृत्यं
तदात्मानं
मेने
तस्योपवाहनात् ॥ २८ ॥
अन्तःपुरस्त्रियः
सर्वाः
शान्तां
दृष्ट्वा
तथागताम् ।
सह
भर्त्रा
विशालाक्षीं
प्रीत्यानन्दमुपागमन् ॥ २९ ॥
पूज्यमाना
च
ताभिः
सा
राज्ञा
चैव
विशेषतः ।
उवास
तत्र
सुखिता
कञ्चित्कालं
सहर्त्विजा ॥ ३० ॥