पुनः
प्राप्ते
वसन्ते
तु
पूर्णः
संवत्सरोऽभवत् ।
प्रसवार्थं
गतो
यष्टुं
हयमेधेन
वीर्यवान् ॥ १ ॥
अब्रवीत्प्रश्रितं
वाक्यं
प्रसवार्थं
द्विजोत्तमम् ।
यज्ञो
मे
क्रियतां
विप्र
यथोक्तं
मुनिपुङ्गव ॥ २ ॥
यथा
न
विघ्नः
क्रियते
यज्ञाङ्गेषु
विधीयताम् ।
भवान्
स्निग्धः
सुहृन्मह्यं
गुरुश्च
परमो
महान् ॥ ३ ॥
वोढव्यो
भवता
चैव
भारो
यज्ञस्य
चोद्यतः ।
तथेति
च
स
राजानमब्रवीद्द्विजसत्तमः ॥ ४ ॥
करिष्ये
सर्वमेवैतद्भवता
यत्समर्थितम् ।
ततोऽब्रवीद्द्विजान्
वृद्धान्
यज्ञकर्मसु
निष्ठितान् ॥ ५ ॥
स्थापत्ये
निष्ठितांश्चैव
वृद्धान्
परमधार्मिकान् ।
गणकान्
शिल्पिनश्चैव
तथैव
नटनर्तकान् ॥ ६ ॥
तथा
शुचीन्
शास्त्रविदः
पुरुषान्
सुबहुश्रुतान् ।
यज्ञकर्म
समीहन्तां
भवन्तो
राजशासनात् ॥ ७ ॥
इष्टका
बहुसाहस्रीः
शीघ्रमानीयतामिति ।
औपकार्याः
क्रियन्तां
च
राज्ञां
बहुगुणान्विताः ॥ ८ ॥
ब्राह्मणावसथाश्चैव
कर्तव्याः
शतशः
शुभाः ।
भक्ष्यान्नपानैर्बहुभिः
समुपेताः
सुनिष्ठिताः ॥ ९ ॥
तथा
पौरजनस्यापि
कर्त्तव्या
बहुविस्तराः ।
वाजिवारणशालाश्च
तथा
शय्यागृहाणि
च ॥ १० ॥
भटानां
महदावासो
वैदेशिकनिवासिनाम् ।
आवासा
बहुभक्ष्या
वै
सर्वकामैरुपस्थिताः ॥ ११ ॥
तथा
जानपदस्यापि
जनस्य
बहु
शोभनम् ।
दातव्यमन्नं
विधिवत्
सत्कृत्य
न
तु
लीलता ॥ १२ ॥
सर्ववर्णा
यथा
पूजां
प्राप्नुवन्ति
सुसत्कृताः ।
न
चावज्ञा
प्रयोक्तव्या
कामक्रोधवशादपि ॥ १३ ॥
यज्ञकर्मणि
ये
व्यग्राः
पुरुषाः
शिल्पिनस्तथा ।
तेषामपि
विशेषेण
पूजा
कार्या
यथाक्रमम् ॥ १४ ॥
ते
च
स्युः
सम्भृताः
सर्वे
वसुभिर्भोजनेन
च ।
यथा
सर्वं
सुविहितं
न
किञ्चित्
परिहीयते ॥ १५ ॥
तथा
भवन्तः
कुर्वन्तु
प्रीतिस्निग्धेन
चेतसा ।
ततः
सर्वे
समागम्य
वसिष्ठमिदमब्रुवन् ॥ १६ ॥
यथोक्तं
तत्सुविहितं
न
किञ्चित्
परिहीयते ।
यथोक्तं
तत्करिष्यामो
न
किञ्चित्
परिहीयते ॥ १७ ॥
ततः
सुमन्त्रमानीय
वसिष्ठो
वाक्यमब्रवीत् ।
निमन्त्रयस्व
नृपतीन्
पृथिव्यां
ये
च
धार्मिकाः ॥ १८ ॥
ब्राह्मणान्
क्षत्रियान्
वैश्यान्
शूद्रांश्चैव
सहस्रशः ।
समानयस्व
सत्कृत्य
सर्वदेशेषु
मानवान् ॥ १९ ॥
मिथिलाधिपतिं
शूरं
जनकं
सत्यविक्रमम् ।
तमानय
महाभागं
स्वयमेव
सुसत्कृतम् ॥ २० ॥
पूर्वसम्बन्धिनं
ज्ञात्वा
ततः
पूर्वं
ब्रवीमि
ते ।
तथा
काशीपतिं
स्निग्धं
सततं
प्रियवादिनम् ॥ २१ ॥
वयस्यं
राजसिंहस्य
स्वयमेवानयस्व
ह ।
तथा
केकयराजानं
वृद्धं
परमधार्मिकम् ॥ २२ ॥
श्वशुरं
राजसिंहस्य
सपुत्रं
त्वमिहानय ।
अङ्गेश्वरं
महाभागं
रोमपादं
सुसत्कृतम् ॥ २३ ॥
वयस्यं
राजसिंहस्य
समानय
यशस्विनम् ।
मगधाधिपतिं
शूरं
सर्वशास्त्रविशारदम् ॥ २४ ॥
प्राप्तिज्ञं
परमोदारं
सत्कृतं
पुरुषर्षभम् ।
राज्ञः
शासनमादाय
चोदयस्व
नृपर्षभान् ॥ २५ ॥
प्राचीनान्
सिन्धुसौवीरान्
सौराष्ट्रेयांश्च
पार्थिवान् ।
दाक्षिणात्यान्नरेन्द्रांश्च
समस्तानानयस्व
ह ॥ २६ ॥
सन्ति
स्निग्धाश्च
ये
चान्ये
राजानः
पृथिवीतले ।
तानानय
यथाक्षिप्रं
सानुगान्
सह
बान्धवान् ॥ २७ ॥
वसिष्ठवाक्यं
तच्छ्रुत्वा
सुमन्त्रस्त्वरितस्तदा ।
व्यादिशत्पुरुषांस्तत्र
राज्ञामानयने
शुभान् ॥ २८ ॥
स्वयमेव
हि
धर्मात्मा
प्रययौ
मुनिशासनात् ।
सुमन्त्रस्त्वरितो
भूत्वा
समानेतुं
महीक्षितः ॥ २९ ॥
सर्वं
निवेदयन्ति
स्म
यज्ञे
यदुपकल्पितम् ।
ततः
प्रीतो
द्विजश्रेष्ठस्तान्
सर्वान्
पुनरब्रवीत् ॥ ३० ॥
अवज्ञया
न
दातव्यं
कस्यचिल्लीलयापि
वा ।
अवज्ञया
कृतं
हन्याद्दातारं
नात्र
संशयः ॥ ३१ ॥
ततः
कैश्चिदहोरात्रैरुपयाता
महीक्षितः ।
बहूनि
रत्नान्यादाय
राज्ञो
दशरथस्य
हि ॥ ३२ ॥
ततो
वसिष्ठः
सुप्रीतो
राजानमिदमब्रवीत् ।
उपयाता
नरव्याघ्र
राजानस्तव
शासनात् ॥ ३३ ॥
मया
च
सत्कृताः
सर्वे
यथार्हं
राजसत्तमाः ।
यज्ञियं
च
कृतं
राजन्
पुरुषैः
सुसमाहितैः ॥ ३४ ॥
निर्यातु
च
भवान्
यष्टुं
यज्ञायतनमन्तिकात् ।
सर्वकामैरुपहृतैरुपेतं
वै
समन्ततः ॥ ३५ ॥
द्रष्टुमर्हसि
राजेन्द्र
मनसेव
विनिर्मितम् ।
तथा
वसिष्ठवचनादृश्यशृङ्गस्य
चोभयोः ॥ ३६ ॥
शुभे
दिवसनक्षत्रे
निर्यातो
जगतीपतिः ।
ऋश्यशृङ्गं
पुरस्कृत्य
यज्ञकर्मारभंस्तदा ॥ ३७ ॥
यज्ञवाटगताः
सर्वे
यथाशास्त्रं
यथाविधि ॥ ३८ ॥