अथ
संवत्सरे
पूर्णे
तस्मिन्
प्राप्ते
तुरङ्गमे ।
सरय्वाश्चोत्तरे
तीरे
राज्ञो
यज्ञोऽभ्यवर्तत ॥ १ ॥
ऋश्यशृङगं
पुरस्कृत्य
कर्म
चक्रुर्द्विजर्षभाः ।
अश्वमेधे
महायज्ञे
राज्ञोऽस्य
सुमहात्मनः ॥ २ ॥
कर्म
कुर्वन्ति
विधिवद्याजका
वेदपारगाः ।
यथाविधि
यथान्यायं
परिक्रामन्ति
शास्त्रतः ॥ ३ ॥
प्रवर्ग्यं
शास्त्रतः
कृत्वा
तथैवोपसदं
द्विजाः ।
चक्रुश्च
विधिवत्सर्वमधिकं
कर्म
शास्त्रतः ॥ ४ ॥
अभिपूज्य
ततो
हृष्टाः
सर्वे
चक्रुर्यथाविधि ।
प्रातःसवनपूर्वाणि
कर्माणि
मुनिपुङ्गवाः ॥ ५ ॥
ऐन्द्रश्च
विधिवद्दत्तो
राजा
चाभिष्टुतोऽनघः ।
माध्यन्दिनं
च
सवनं
प्रावर्तत
यथाक्रमम् ॥ ६ ॥
तृतीयसवनं
चैव
राज्ञोऽस्य
सुमहात्मनः ।
चक्रुस्ते
शास्त्रतो
दृष्ट्वा
तथा
ब्राह्मणपुङ्गवाः ॥ ७ ॥
ऋष्यश्रङ्गादौ
मन्त्रैः
शिक्षाक्षरसमन्वितौ ।
गगीतिभिर्मधुरैः
स्निग्धैर्मन्त्राहानैर्यथार्हतः ॥ ८ ॥
होतारो
ददुरावाह्य
हविर्भागान्दिवौकसाम् ।
न
चाहुतमभूत्तत्र
स्खलितं
वापि
किञ्चन ॥ ९ ॥
दृश्यते
ब्रह्मवत्सर्वं
क्षेमयुक्तं
हि
चक्रिरे ।
न
तेष्वहस्सु
श्रान्तो
वा
क्षुधितो
वापि
दृश्यते ॥ १० ॥
नाविद्वान्
ब्राह्मणस्तत्र
नाशतानुचरस्तथा ।
ब्राह्मणा
भुञ्जते
नित्यं
नाथवन्तश्च
भुञ्जते ॥ ११ ॥
तापसा
भुञ्जते
चापि
श्रमणा
भुञ्जते
तथा ।
वृद्धाश्च
व्याधिताश्चैव
स्त्रियो
बालास्तथैव
च ॥ १२ ॥
अनिशं
भुञ्जमानानां
न
तृप्तिरुपलभ्यते ।
दीयतां
दीयतामन्नं
वासांसि
विविधानि
च ॥ १३ ॥
इति
सञ्चोदितास्तत्र
तथा
चक्रुरनेकशः ।
अन्नकूटाश्च
बहवो
दृश्यन्ते
पर्वतोपमाः ॥ १४ ॥
दिवसे
दिवसे
तत्र
सिद्धस्य
विधिवत्तदा ।
नानादेशादनुप्राप्ताः
पुरुषाः
स्त्रीगणास्तथा ॥ १५ ॥
अन्नपानैः
सुविहितास्तस्मिन्
यज्ञे
महात्मनः ।
अन्नं
हि
विधिवत्स्वादु
प्रशंसन्ति
द्विजर्षभाः ॥ १६ ॥
अहो
तृप्ताः
स्म
भद्रं
त
इति
शुश्राव
राघवः ।
स्वलङ्कृताश्च
पुरुषा
ब्राह्मणान्
पर्यवेषयन् ॥ १७ ॥
उपासते
च
तानन्ये
सुमृष्टमणिकुण्डलाः ।
कर्मान्तरे
तदा
विप्रा
हेतुवादान्
बहूनपि ॥ १८ ॥
प्राहुः
स्म
वाग्ग्मिनो
धीराः
परस्परजिगीषया ।
दिवसे
दिवसे
तत्र
संस्तरे
कुशला
द्विजाः ॥ १९ ॥
सर्वकर्माणि
चक्रुस्ते
यथाशास्त्रं
प्रचोदिताः ।
नाषडङ्गविदत्रासीन्नाव्रतो
नाबहुश्रुतः ॥ २० ॥
सदस्यास्तस्य
वै
राज्ञो
नावादकुशला
द्विजाः ।
प्राप्ते
यूपोच्छ्रये
तस्मिन्
षड्बैल्वाः
खादिरास्तथा ॥ २१ ॥
तावन्तो
बिल्वसहिताः
पर्णिनश्च
तथाऽपरे ।
श्लेष्मातकमयस्त्वेको
देवदारुमयस्तथा ॥ २२ ॥
द्वावेव
तत्र
विहितौ
बाहुव्यस्तपरिग्रहौ ।
कारिताः
सर्व
एवैते
शास्त्रज्ञैर्यज्ञकोविदैः ॥ २३ ॥
शोभार्थं
तस्य
यज्ञस्य
काञ्चनालङ्कृता
भवन् ।
एकविंशति
यूपास्ते
एकविंशत्यरत्नयः ॥ २४ ॥
वासोभिरेकविंशद्भिरेकैकं
समलङ्कृताः ।
विन्यस्ता
विधिवत्सर्वे
शिल्पिभिः
सुकृता
दृढाः ॥ २५ ॥
अष्टाश्रयः
सर्व
एव
श्लक्ष्णरूपसमन्विताः ।
आच्छादितास्ते
वासोभिः
पुष्पैर्गन्धैश्च
पूजिताः ॥ २६ ॥
सप्तर्षयो
दीप्तिमन्तो
विराजन्ते
यथा
दिवि ।
इष्टकाश्च
यथान्यायं
कारिताश्च
प्रमाणतः ॥ २७ ॥
चितोऽग्निर्ब्राह्मणैस्तत्र
कुशलैः
शुल्बकर्मणि ।
स
चित्यो
राजसिंहस्य
सञ्चितः
कुशलैर्द्विजैः ॥ २८ ॥
गरुडो
रुक्मपक्षो
वै
त्रिगुणोऽष्टादशात्मकः ।
नियुक्तास्तत्र
पशवस्तत्तदुद्दिश्य
दैवतम् ॥ २९ ॥
उरगाः
पक्षिणश्चैव
यथाशास्त्रं
प्रचोदिताः ।
शामित्रे
तु
हयस्तत्र
तथा
जलचराश्च
ये ॥ ३० ॥
ऋत्विग्भिः
सर्वमेवैतन्नियुक्तं
शास्त्रतस्तदा ।
पशूनां
त्रिशतं
तत्र
यूपेषु
नियतं
तदा ॥ ३१ ॥
अश्वरत्नोत्तमं
तत्र
राज्ञो
दशरथस्य
च ।
कौसल्या
तं
हयं
तत्र
परिचर्य
समन्ततः ॥ ३२ ॥
कृपाणैर्विशशासैनं
त्रिभिः
परमया
मुदा ।
पतत्रिणा
तदा
सार्द्धं
सुस्थितेन
च
चेतसा ॥ ३३ ॥
अवसद्रजनीमेकां
कौसल्या
धर्मकाम्यया ।
होताध्वर्युस्तथोद्गाता
हस्तेन
समयोजयन् ॥ ३४ ॥
महिष्या
परिवृत्त्या
च
वावातामपरां
तथा ।
पतत्रिणस्तस्य
वपामुद्धृत्य
नियतेन्द्रियः ॥ ३५ ॥
ऋत्विक्
परमसम्पन्नः
श्रपयामास
शास्त्रतः ।
धूमगन्धं
वपायास्तु
जिघ्रति
स्म
नराधिपः ॥ ३६ ॥
यथाकालं
यथान्यायं
निर्णुदन्
पापमात्मनः ।
हयस्य
यानि
चाङ्गानि
तानि
सर्वाणि
ब्राह्मणाः ॥ ३७ ॥
अग्नौ
प्रास्यन्ति
विधिवत्समन्त्राः
षोडशर्त्विजः ।
प्लक्षशाखासु
यज्ञानामन्येषां
क्रियते
हविः ॥ ३८ ॥
अश्वमेधस्य
यज्ञस्य
वैतसो
भाग
इष्यते ।
चतुष्टोममहस्तस्य
प्रथमं
परिकल्पितम् ॥ ३९ ॥
उक्थ्यं
द्वितीयं
सङ्ख्यातमतिरात्रं
तथोत्तरम् ।
कारितास्तत्र
बहवो
विहिताः
शास्त्रदर्शनात् ॥ ४० ॥
ज्योतिष्टोमायुषी
चैवमतिरात्रौ
विनिर्मितौ ।
अभिजिद्विश्वजिच्चैवमाप्तोर्यामो
महाक्रतुः ॥ ४१ ॥
प्राचीं
होत्रे
ददौ
राजा
दिशं
स्वकुलवर्द्धनः ।
अध्वर्यवे
प्रतीचीं
तु
ब्रह्मणे
दक्षिणां
दिशम् ॥ ४२ ॥
उद्गात्रे
वै
तथोदीचीं
दक्षिणैषा
विनिर्मिता ।
हयमेधे
महायज्ञे
स्वयम्भूविहिते
पुरा ॥ ४३ ॥
क्रतुं
समाप्य
तु
तथा
न्यायतः
पुरुषर्षभः ।
ऋत्विग्भ्यो
हि
ददौ
राजा
धरां
तां
क्रतुवर्द्धनः ॥ ४४ ॥
ऋत्विजश्चाब्रुवन्
सर्वे
राजानं
गतकल्मषम् ।
भवानेव
महीं
कृत्स्नामेको
रक्षितुमर्हति ॥ ४५ ॥
रताः
स्वाध्यायकरणे
वयं
नित्यं
हि
भूमिप ।
निष्क्रयं
किञ्चिदेवेह
प्रयच्छतु
भवानिति ॥ ४६ ॥
मणिरत्नं
सुवर्णं
वा
गावो
यद्वा
समुद्यतम् ।
तत्प्रयच्छ
नरश्रेष्ठ
धरण्या
न
प्रयोजनम् ॥ ४७ ॥
एवमुक्तो
नरपतिर्ब्राह्मणैर्वेदपारगैः ।
गवां
शतसहस्राणि
दश
तेभ्यो
ददौ
नृपः ॥ ४८ ॥
दशकोटीस्सुवर्णस्य
रजतस्य
चतुर्गुणम् ।
ऋत्विजस्तु
ततः
सर्वे
प्रददुः
सहिता
वसु ॥ ४९ ॥
ऋश्यशृङ्गाय
मुनये
वसिष्ठाय
च
धीमते ।
ततस्ते
न्यायतः
कृत्वा
प्रविभागं
द्विजोत्तमाः ॥ ५० ॥
सुप्रीतमनसस्सर्वे
प्रत्यूचुर्मुदिता
भृशम् ।
ततः
प्रसर्पकेभ्यस्तु
हिरण्यं
सुसमाहितः ॥ ५१ ॥
जाम्बूनदं
कोटिसङ्ख्यं
ब्राह्मणेभ्यो
ददौ
तदा ।
दरिद्राय
द्विजायाथ
हस्ताभरणमुत्तमम् ॥ ५२ ॥
कस्मैचिद्याचमानाय
ददौ
राघवनन्दनः ।
ततः
प्रीतेषु
नृपतिर्द्विजेषु
द्विजवत्सलः ॥ ५३ ॥
प्रणाममकरोत्तेषां
हर्षपर्याकुलेक्षणः ।
तस्याशिषोऽथ
विधिवद्ब्राह्मणैः
समुदाहृताः ॥ ५४ ॥
उदारस्य
नृवीरस्य
धरण्यां
प्रणतस्य
च ।
ततः
प्रीतमना
राजा
प्राप्य
यज्ञमनुत्तमम् ॥ ५५ ॥
पापापहं
स्वर्नयनं
दुष्करं
पार्थिवर्षभैः ।
ततोऽब्रवीदृश्यशृङ्गं
राजा
दशरथस्तदा ॥ ५६ ॥
कुलस्य
वर्द्धनं
त्वं
तु
कर्तुमर्हसि
सुव्रत ।
तथेति
च
स
राजानमुवाच
द्विजसत्तमः ॥ ५७ ॥
भविष्यन्ति
सुता
राजंश्चत्वारस्ते
कुलोद्वहाः ।
प्रणम्य
तस्मै
प्रयतो
नृपेन्द्र ॥ ५८ ॥
जगाम
हर्षं
परमं
महात्मा ।
तम्मुध्यश्रृङ्गं
पुनरप्युवाच ॥ ५९ ॥
इति
वाल्मीकिरामायणे
आदिकाव्ये
बालकाण्डे
चतुर्दशः
सर्गः ॥ ६० ॥