मेधावी
तु
ततो
ध्यात्वा
स
किञ्चिदिदमुत्तरम् ।
लब्धसञ्ज्ञस्ततस्तं
तु
वेदज्ञो
नृपमबव्रीत् ॥ १ ॥
इष्टिं
तेऽहं
करिष्यामि
पुत्रीयां
पुत्रकारणात् ।
अथर्वशिरसि
प्रोक्तैर्मन्त्रैः
सिद्धां
विधानतः ॥ २ ॥
ततः
प्रारब्धवानिष्टिं
पुत्रीयां
पुत्रकारणात् ।
जुहाव
चाग्नौ
तेजस्वी
मन्त्रदृष्टेन
कर्मणा ॥ ३ ॥
ततो
देवाः
सगन्धर्वाः
सिद्धाश्च
परमर्षयः ।
भागप्रतिग्रहार्थं
वै
समवेता
यथाविधि ॥ ४ ॥
ताः
समेत्य
यथान्यायं
तस्मिन्
सदसि
देवताः ।
अब्रुवन्
लोककर्त्तारं
ब्रह्माणं
वचनं
महत् ॥ ५ ॥
भगवन्
त्वत्प्रसादेन
रावणो
नाम
राक्षसः ।
सर्वान्नो
बाधते
वीर्याच्छासितुं
तं
न
शक्नुमः ॥ ६ ॥
त्वया
तस्मै
वरो
दत्तः
प्रीतेन
भगवन्
पुरा ।
मानयन्तश्च
तं
नित्यं
सर्वं
तस्य
क्षमामहे ॥ ७ ॥
उद्वेजयति
लोकांस्त्रीनुच्छ्रितान्
द्वेष्टि
दुर्मतिः ।
शक्रं
त्रिदशराजानं
प्रधर्षयितुमिच्छति ॥ ८ ॥
ऋषीन्
यक्षान्
सगन्धर्वानसुरान्
ब्राह्मणांस्तथा ।
अतिक्रामति
दुर्धषो
वरदानेन
मोहितः ॥ ९ ॥
नैनं
सूर्यः
प्रतपति
पार्श्वे
वाति
न
मारुतः ।
चलोर्मिमाली
तं
दृष्ट्वा
समुद्रोऽपि
न
कम्पते ॥ १० ॥
तन्महन्नो
भयं
तस्माद्राक्षसाद्घोरदर्शनात् ।
वधार्थं
तस्य
भगवन्नुपायं
कर्त्तुमर्हसि ॥ ११ ॥
एवमुक्तः
सुरैः
सर्वैश्चिन्तयित्वा
ततोऽब्रवीत् ।
हन्ताऽयं
विदितस्तस्य
वधोपायो
दुरात्मनः ॥ १२ ॥
तेन
गन्धर्वयक्षाणां
देवदानवरक्षसाम् ।
अवध्योऽस्मीति
वागुक्ता
तथेत्युक्तं
च
तन्मया ॥ १३ ॥
नाकीर्तयदवज्ञानात्तद्रक्षो
मानुषांस्तदा ।
तस्मात्स
मानुषाद्वध्यो
मृत्युर्नान्योऽस्य
विद्यते ॥ १४ ॥
एतच्छ्रुत्वा
प्रियं
वाक्यं
ब्रह्मणा
समुदाहृतम् ।
सर्वे
महर्षयो
देवाः
प्रहृष्टास्तेऽभवंस्तदा ॥ १५ ॥
एतस्मिन्नन्तरे
विष्णुरुपयातो
महाद्युतिः ।
शङ्खचक्रगदापाणिः
पीतवासा
जगत्पतिः ॥ १६ ॥
तप्तहाटककेयूरो
वन्द्यमानः
सुरोत्तमैः ।
ब्रह्मणा
च
समागम्य
तत्र
तस्थौ
समाहितः ॥ १७ ॥
तमब्रुवन्
सुराः
सर्वे
समभिष्टूय
सन्नताः ।
त्वां
नियोक्ष्यामहे
विष्णो
लोकानां
हितकाम्यया ॥ १८ ॥
राज्ञो
दशरथस्य
त्वमयोध्याधिपतेर्विभोः ।
धर्मज्ञस्य
वदान्यस्य
महर्षिसमतेजसः ॥ १९ ॥
तस्य
भार्यासु
तिसृषु
ह्रीश्रीकीर्त्युपमासु
च ।
विष्णो
पुत्रत्वमागच्छ
कृत्वात्मानं
चतुर्विधम् ॥ २० ॥
तत्र
त्वं
मानुषो
भूत्वा
प्रवृद्धं
लोककण्टकम् ।
अवध्यं
दैवतैर्विष्णो
समरे
जहि
रावणम् ॥ २१ ॥
स
हि
देवान्
सगन्धर्वान्
सिद्धांश्च
ऋषिसत्तमान् ।
राक्षसो
रावणो
मूर्खो
वीर्योत्सेकेन
बाधते ॥ २२ ॥
ऋषयस्तु
ततस्तेन
गन्धर्वाप्सरसस्तथा ।
क्रीडन्तो
नन्दनवने
क्रूरेण
किल
हिंसिताः ॥ २३ ॥
वधार्थं
वयमायातास्तस्य
वै
मुनिभिः
सह ।
सिद्धगन्धर्वयक्षाश्च
ततस्त्वां
शरणं
गताः ॥ २४ ॥
त्वं
गतिः
परमा
देव
सर्वेषां
नः
परन्तप ।
वधाय
देवशत्रूणां
नृणां
लोके
मनः
कुरु ॥ २५ ॥
पितामहपुरोगांस्तान्
सर्वलोकनमस्कृतः ।
अब्रवीत्
त्रिदशान्
सर्वान्
समेतान्
धर्मसंहितान् ॥ २६ ॥
भयं
त्यजत
भद्रं
वो
हितार्थं
युधि
रावणम् ।
सपुत्रपौत्रं
सामात्यं
समित्रज्ञातिबान्धवम् ॥ २७ ॥
दश
वर्षसहस्राणि
दशवर्षशतानि
च ।
वत्स्यामि
मानुषे
लोके
पालयन्
पृथिवीमिमाम् ॥ २८ ॥
एवं
दत्त्वा
वरं
देवो
देवानां
विष्णुरात्मवान् ।
मानुषे
चिन्तयामास
जन्मभूमिमथात्मनः ॥ २९ ॥
ततः
पद्मपलाशाक्षः
कृत्वात्मानं
चतुर्विधम् ।
पितरं
रोचयामास
तदा
दशरथं
नृपम् ॥ ३० ॥
ततो
देवर्षिगन्धर्वाः
सरुद्राः
साप्सरोगणाः ।
स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम् ॥ ३१ ॥
तमुद्धतं
रावणमुग्रतेजसं
प्रवृद्धदर्पं
त्रिदशेश्वरद्विषम् ।
विरावणं
साधुतपस्विकण्टकं
तपस्विनामुद्धर
तं
भयावहम् ॥ ३२ ॥
तमेव
हत्वा
सबलं
सबान्धवं
विरावणं
रावणमुग्रपौरुषम् ।
स्वर्लोकमागच्छ
गतज्वरश्चिरं
सुरेन्द्रगुप्तं
गतदोषकल्मषम् ॥ ३३ ॥