पुत्रत्वं
तु
गते
विष्णौ
राज्ञस्तस्य
महात्मनः ।
उवाच
देवताः
सर्वाः
स्वयम्भूर्भगवानिदम् ॥ १ ॥
सत्यसन्धस्य
वीरस्य
सर्वेषां
नो
हितैषिणः ।
विष्णोः
सहायान्
बलिनः
सृजध्वं
कामरूपिणः ॥ २ ॥
मायाविदश्च
शूरांश्च
वायुवेगसमान्
जवे ।
नयज्ञान्
बुद्धिसम्पन्नान्
विष्णुतुल्यपराक्रमान् ॥ ३ ॥
असंहार्यानुपायज्ञान्
सिंहसंहननान्वितान् ।
सर्वास्त्रगुणसम्पन्नानमृतप्राशनानिव ॥ ४ ॥
अप्सरस्सु
च
मुख्यासु
गन्धर्वीणां
तनूषु
च ।
सृजध्वं
हरिरूपेण
पुत्रांस्तुल्यपराक्रमान् ॥ ५ ॥
पूर्वमेव
मया
सृष्टो
जाम्बवानृक्षपुङ्गवः ।
जृम्भमाणस्य
सहसा
मम
वक्त्रादजायत ॥ ६ ॥
ते
तथोक्ता
भगवता
तत्
प्रतिश्रुत्य
शासनम् ।
जनयामासुरेवं
ते
पुत्रान्
वानररूपिणः ॥ ७ ॥
ऋषयश्च
महात्मानः
सिद्धविद्याधरोरगाः ।
चारणाश्च
सुतान्वीरान्
ससृजुर्वनचारिणः ॥ ८ ॥
वानरेन्द्रं
महेन्द्राभमिन्द्रो
वालिनमूर्जितम् ।
सुग्रीवं
जनयामास
तपनस्तपतां
वरः ॥ ९ ॥
बृहस्पतिस्त्वजनयत्तारं
नाम
महाहरिम् ।
सर्ववानरमुख्यानां
बुद्धिमन्तमनुत्तमम् ॥ १० ॥
धनदस्य
सुतः
श्रीमान्
वानरो
गन्धमादनः ।
विश्वकर्मा
त्वजनयन्नल
नाम
महाहरिम् ॥ ११ ॥
पावकस्य
सुतः
श्रीमान्नीलोऽग्निसदृशप्रभः ।
तेजसा
यशसा
वीर्यादत्यरिच्यत
वानरान् ॥ १२ ॥
रूपद्रविणसम्पन्नावश्विनौ
रूपसम्मतौ ।
मैन्दं
च
द्विविदं
चैव
जनयामासतुः
स्वयम् ॥ १३ ॥
वरुणो
जनयामास
सुषेणं
नाम
वानरम् ।
शरभं
जनयामास
पर्जन्यस्तु
महाबलम् ॥ १४ ॥
मारुतस्यात्मजः
श्रीमान्
हनुमान्नाम
वानरः ।
वज्रसंहननोपेतो
वैनतेयसमो
जवे ॥ १५ ॥
ते
सृष्टा
बहुसाहस्रा
दशग्रीववधे
गताः ।
अप्रमेयबला
वीरा
विक्रान्ताः
कामरूपिणः ॥ १६ ॥
मेरुमन्दरसङ्काशा
वपुष्मन्तो
महाबलाः ।
ऋक्षवानरगोपुच्छाः
क्षिप्रमेवाभिजज्ञिरे ॥ १७ ॥
यस्य
देवस्य
यद्रूपं
वेषो
यश्च
पराक्रमः ।
अजायत
समस्तेन
तस्य
तस्य
सुतः
पृथक् ॥ १८ ॥
गोलाङ्गूलीषु
चोत्पन्नाः
केचित्सम्मतविक्रमाः ।
ऋक्षीषु
च
तथा
जाता
वानराः
किन्नरीषु
च ॥ १९ ॥
देवा
महर्षिगन्धर्वाः
तार्क्ष्या
यक्षा
यशस्विनः ।
नागाः
किम्पुरुषाश्चैव
सिद्धविद्याधरोरगाः ॥ २० ॥
बहवो
जनयामासुर्हृष्टास्तत्र
सहस्रशः ।
वानरान्
सुमहाकायान्
सर्वान्
वै
वनचारिणः ॥ २१ ॥
अप्सरस्सु
च
मुख्यासु
तथा
विद्याधरीषु
च ।
नागकन्यासु
च
तथा
गन्धर्वीणां
तनूषु
च ॥ २२ ॥
कामरूपबलोपेता
यथाकामं
विचारिणः ।
सिंहशार्दूलसदृशा
दर्पेण
च
बलेन
च ॥ २३ ॥
शिलाप्रहरणाः
सर्वे
सर्वे
पादपयोधिनः ।
नखदंष्ट्रायुधाः
सर्वे
सर्वे
सर्वास्त्रकोविदाः ॥ २४ ॥
विचालयेयुः
शैलेन्द्रान्
भेदयेयुः
स्थिरान्
द्रुमान् ।
क्षोभयेयुश्च
वेगेन
समुद्रं
सरितां
पतिम् ॥ २५ ॥
दारयेयुः
क्षितिं
पद्भ्यामाप्लवेयुर्महार्णवम् ।
नभःस्थलं
विशेयुश्च
गृह्णीयुरपि
तोयदान् ॥ २६ ॥
गृह्णीयुरपि
मातङ्गान्
मत्तान्
प्रव्रजतो
वने ।
नर्दमानाश्च
नादेन
पातयेयुर्विहङ्गमान् ॥ २७ ॥
ईदृशानां
प्रसूतानि
हरीणां
कामरूपिणाम् ।
शतं
शतसहस्राणि
यूथपानां
महात्मनाम् ॥ २८ ॥
ते
प्रधानेषु
यूथेषु
हरीणां
हरियूथपाः ।
बभूवुर्यूथपश्रेष्ठा
वीरांश्चाजनयन्
हरीन् ॥ २९ ॥
अन्ये
ऋक्षवतः
प्रस्थानुपतस्थुः
सहस्रशः ।
अन्ये
नानाविधान्
शैलान्
काननानि
च
भेजिरे ॥ ३० ॥
भ्रातरावुपतस्थुस्ते
सर्व
एव
हरीश्वराः ।
नलं
नीलं
हनूमन्तमन्यांश्च
हरियूथपान् ॥ ३१ ॥
ते
तार्क्ष्यबलसम्पन्नाः
सर्वे
युद्धविशारदाः ।
विचरन्तोऽर्दयन्
दर्पात्सिंहव्याघ्रमहोरगान् ॥ ३२ ॥
तांश्च
सर्वान्
महाबाहुर्वाली
विपुलविक्रमः ।
जुगोप
भुजवीर्येण
ऋक्षगोपुच्छवानरान् ॥ ३३ ॥
तैरियं
पृथिवी
शूरैः
सपर्वतवनार्णवा ।
कीर्णा
विविधसंस्थानैर्नानाव्यञ्जनलक्षणैः ॥ ३४ ॥
तैर्मेघवृन्दाचलकूटकल्पैर्महाबलैर्वानरयूथपालैः ।
बभूव
भूर्भीमशरीररूपैः
समावृता
रामसहायहेतोः ॥ ३५ ॥