निर्वृत्ते
तु
क्रतौ
तस्मिन्
हयमेधे
महात्मनः ।
प्रतिगृह्य
सुरा
भागान्
प्रतिजग्मुर्यथागतम् ॥ १ ॥
समाप्तदीक्षानियमः
पत्नीगणसमन्वितः ।
प्रविवेश
पुरीं
राजा
सभृत्यबलवाहनः ॥ २ ॥
यथार्हं
पूजितास्तेन
राज्ञा
वै
पृथिवीश्वराः ।
मुदिताः
प्रययुर्देशान्
प्रणम्य
मुनिपुङ्गवम् ॥ ३ ॥
श्रीमतां
गच्छतां
तेषां
स्वपुराणि
पुरात्ततः ।
बलानि
राज्ञां
शुभ्राणि
प्रहृष्टानि
चकाशिरे ॥ ४ ॥
गतेषु
पृथिवीशेषु
राजा
दशरथस्तदा ।
प्रविवेश
पुरीं
श्रीमान्
पुरस्कृत्य
द्विजोत्तमान् ॥ ५ ॥
शान्तया
प्रययौ
सार्द्धमृश्यशृङ्गः
सुपूजितः ।
अन्वीयमानो
राज्ञाथ
सानुयात्रेण
धीमता ॥ ६ ॥
उवास
सुखितस्तत्र
पुत्रोत्पत्तिं
विचिन्तयन् ।
ततो
यज्ञे
समाप्ते
तु
ऋतूनां
षट्
समत्ययुः ॥ ७ ॥
ततश्च
द्वादशे
मासे
चैत्रे
नावमिके
तिथौ ।
नक्षत्रेऽदितिदैवत्ये
स्वोच्चसंस्थेषु
पञ्चसु ॥ ८ ॥
ग्रहेषु
कर्कटे
लग्ने
वाक्पताविन्दुना
सह ।
प्रोद्यमाने
जगन्नाथं
सर्वलोकनमस्कृतम् ॥ ९ ॥
कौसल्याजनयद्रामं
सर्वलक्षणसंयुतम् ।
विष्णोरर्द्धं
महाभागं
पुत्त्रमैक्ष्वाकवर्द्धनम् ॥ १० ॥
कौसल्या
शुशुभे
तेन
पुत्रेणामिततेजसा ।
यथा
वरेण
देवानामदितिर्वज्रपाणिना ॥ ११ ॥
भरतो
नाम
कैकेय्यां
जज्ञे
सत्यपराक्रमः ।
साक्षाद्विष्णोश्चतुर्भागः
सर्वैः
समुदितो
गुणैः ॥ १२ ॥
अथ
लक्ष्मणशत्रुघ्नौ
सुमित्राजनयत्सुतौ ।
सर्वास्त्रकुशलौ
वीरौ
विष्णोरर्द्धसमन्वितौ ॥ १३ ॥
पुष्ये
जातस्तु
भरतो
मीनलग्ने
प्रसन्नधीः ।
सार्पे
जातौ
च
सौमित्री
कुलीरेऽभ्युदिते
रवौ ॥ १४ ॥
राज्ञः
पुत्रा
महात्मानश्चत्वारो
जज्ञिरे
पृथक् ।
गुणवन्तोऽनुरूपाश्च
रुच्या
प्रोष्ठपदोपमाः ॥ १५ ॥
जगुः
कलं
च
गन्धर्वा
ननृतुश्चाप्सरोगणाः ।
देवदुन्दुभयो
नेदुः
पुष्पवृष्टिश्च
खाच्च्युता ॥ १६ ॥
उत्सवश्च
महानासीदयोध्यायां
जनाकुलः ।
रथ्याश्च
जनसम्बाधा
नटनर्तकसङ्कुलाः ॥ १७ ॥
गायनैश्च
विराविण्यो
वादनैश्च
तथाऽपरैः ।
विरेजुर्
विपुलाः
तत्र
सर्व
रत्न
समन्विताः ॥ १८ ॥
प्रदेयांश्च
ददौ
राजा
सूतमागधवन्दिनाम् ।
ब्राह्मणेभ्यो
ददौ
वित्तं
गोधनानि
सहस्रशः ॥ १९ ॥
अतीत्यैकादशाहं
तु
नामकर्म
तथाऽकरोत् ।
ज्येष्ठं
रामं
महात्मानं
भरतं
कैकयीसुतम् ॥ २० ॥
सौमित्रिं
लक्ष्मण
इति
शत्रुघ्नमपरं
तथा ।
वसिष्ठः
परमप्रीतो
नामानि
कृतवांस्तदा ॥ २१ ॥
ब्राह्मणान्
भोजयामास
पौरजानपदानपि ।
अददद्ब्राह्मणानां
च
रत्नौघममितं
बहु ॥ २२ ॥
तेषां
जन्मक्रियादीनि
सर्वकर्माण्यकारयत् ।
तेषां
केतुरिव
ज्येष्ठो
रामो
रतिकरः
पितुः ॥ २३ ॥
बभूव
भूयो
भूतानां
स्वयम्भूरिव
सम्मतः ।
सर्वे
वेदविदः
शूराः
सर्वे
लोकहिते
रताः ॥ २४ ॥
सर्वे
ज्ञानोपपन्नाश्च
सर्वे
समुदिता
गुणैः ।
तेषामपि
महातेजा
रामः
सत्यपराक्रमः ॥ २५ ॥
इष्टः
सर्वस्य
लोकस्य
शशाङ्क
इव
निर्मलः ।
गजस्कन्धेऽश्वपृष्ठे
च
रथचर्यासु
सम्मतः ॥ २६ ॥
धनुर्वेदे
च
निरतः
पितुः
शुश्रूषणे
रतः ।
बाल्यात्
प्रभृति
सुस्निग्धो
लक्ष्मणो
लक्ष्मिवर्द्धनः ॥ २७ ॥
रामस्य
लोकरामस्य
भ्रातुर्ज्येष्ठस्य
नित्यशः ।
सर्वप्रियकरस्तस्य
रामस्यापि
शरीरतः ॥ २८ ॥
लक्ष्मणो
लक्ष्मिसम्पन्नो
बहिः
प्राण
इवापरः ।
न
च
तेन
विना
निद्रां
लभते
पुरुषोत्तमः ॥ २९ ॥
मृष्टमन्नमुपानीतमश्नाति
न
हि
तं
विना ।
यदा
हि
हयमारूढो
मृगयां
याति
राघवः ॥ ३० ॥
तदैनं
पृष्ठतोऽभ्येति
सधनुः
परिपालयन् ।
भरतस्यापि
शत्रुघ्नो
लक्ष्मणावरजो
हि
सः ॥ ३१ ॥
प्राणैः
प्रियतरो
नित्यं
तस्य
चासीत्तथा
प्रियः ।
स
चतुर्भिर्महाभागैः
पुत्रैर्दशरथः
प्रियैः ॥ ३२ ॥
बभूव
परमप्रीतो
देवैरिव
पितामहः ।
ते
यदा
ज्ञानसम्पन्नास्सर्वे
समुदिता
गुणैः ॥ ३३ ॥
ह्रीमन्तः
कीर्तिमन्तश्च
सर्वज्ञा
दीर्घदर्शिनः ।
तेषामेवम्प्रभावानां
सर्वेषां
दीप्ततेजसाम् ॥ ३४ ॥
पिता
दशरथो
हृष्टो
ब्रह्मा
लोकाधिपो
यथा ।
ते
चापि
मनुजव्याघ्रा
वैदिकाध्ययने
रताः ॥ ३५ ॥
पितृशुश्रूषणरता
धनुर्वेदे
च
निष्ठिताः ।
अथ
राजा
दशरथस्तेषां
दारक्रियां
प्रति ॥ ३६ ॥
चिन्तयामास
धर्मात्मा
सोपाध्यायः
सबान्धवः ।
तस्य
चिन्तयमानस्य
मन्त्रिमध्ये
महात्मनः ॥ ३७ ॥
अभ्यागच्छन्महातेजा
विश्वामित्रो
महामुनिः ।
स
राज्ञो
दर्शनाकाङ्क्षी
द्वाराध्यक्षानुवाच
ह ॥ ३८ ॥
शीघ्रमाख्यात
मां
प्राप्तं
कौशिकं
गाधिनन्दनम् ।
तच्छ्रुत्वा
वचनं
तस्य
राज्ञो
वेश्म
प्रदुद्रुवुः ॥ ३९ ॥
सम्भ्रान्तमनसः
सर्वे
तेन
वाक्येन
चोदिताः ।
ते
गत्वा
राजभवनं
विश्वामित्रमृषिं
तदा ॥ ४० ॥
प्राप्तमावेदयामासुर्नृपायैक्ष्वाकवे
तदा ।
तेषां
तद्वचनं
श्रुत्वा
सपुरोधाः
समाहितः ॥ ४१ ॥
प्रत्युज्जगाम
तं
हृष्टो
ब्रह्माणमिव
वासवः ।
तं
दृष्ट्वा
ज्वलितं
दीप्त्या
तापसं
संशितव्रतम् ॥ ४२ ॥
प्रहृष्टवदनो
राजा
ततोऽर्घ्यमुपहारयत् ।
स
राज्ञः
प्रतिगृह्यार्घ्यं
शास्त्रदृष्टेन
कर्मणा ॥ ४३ ॥
कुशलं
चाव्ययं
चैव
पर्यपृच्छन्नराधिपम् ।
पुरे
कोशे
जनपदे
बान्धवेषु
सुहृत्सु
च ॥ ४४ ॥
कुशलं
कौशिको
राज्ञः
पर्यपृच्छत्सुधार्मिकः ।
अपि
ते
सन्नताः
सर्वे
सामन्ता
रिपवो
जिताः ॥ ४५ ॥
दैवं
च
मानुषं
चापि
कर्म
ते
साध्वनुष्ठितम् ।
वसिष्ठं
च
समागम्य
कुशलं
मुनिपुङ्गवः ॥ ४६ ॥
ऋषींश्चान्यान्
यथान्यायं
महाभागानुवाच
ह ।
ते
सर्वे
हृष्टमनसस्तस्य
राज्ञो
निवेशनम् ॥ ४७ ॥
विविशुः
पूजितास्तत्र
निषेदुश्चयथार्हतः ।
अथ
हृष्टमना
राजा
विश्वामित्रं
महामुनिम् ॥ ४८ ॥
उवाच
परमोदारो
हृष्टस्तमभिपूजयन् ।
यथाऽमृतस्य
सम्प्राप्तिर्यथा
वर्षमनूदके ॥ ४९ ॥
यथा
सदृशदारेषु
पुत्रजन्माप्रजस्य
च ।
प्रणष्टस्य
यथा
लाभो
यथा
हर्षो
महोदये ॥ ५० ॥
तथैवागमनं
मन्ये
स्वागतं
ते
महामुने ।
कं
च
ते
परमं
कामं
करोमि
किमु
हर्षितः ॥ ५१ ॥
पात्रभूतोऽसि
मे
ब्रह्मन्
दिष्ट्या
प्राप्तोऽसि
धार्मिक ।
अद्य
मे
सफलं
जन्म
जीवितं
च
सुजीवितम् ॥ ५२ ॥
पूर्वं
राजर्षिशब्देन
तपसा
द्योतितप्रभः ।
ब्रह्मर्षित्वमनुप्राप्तः
पूज्योऽसि
बहुधा
मया ॥ ५३ ॥
तदद्भुतमिदं
ब्रह्मन्
पवित्रं
परमं
मम ।
शुभक्षेत्रगतश्चाहं
तव
सन्दर्शनात्प्रभो ॥ ५४ ॥
ब्रूहि
यत्प्रार्थितं
तुभ्यं
कार्यमागमनं
प्रति ।
इच्छाम्यनुगृहीतोऽहं
त्वदर्थपरिवृद्धये ॥ ५५ ॥
कार्यस्य
न
विमर्शं
च
गन्तुमर्हसि
कौशिक ।
कर्ता
चाहमशेषेण
दैवतं
हि
भवान्
मम ॥ ५६ ॥
मम
चायमनुप्राप्तो
महानभ्युदयो
द्विज ।
तवागमनजः
कृत्स्नो
धर्मश्चानुत्तमो
मम ॥ ५७ ॥
इति
हृदयसुखं
निशम्य
वाक्यं
श्रुतिसुखमात्मवता
विनीतमुक्तम् ।
प्रथितगुणयशा
गुणैर्विशिष्टः
परमऋषिः
परमं
जगाम
हर्षम् ॥ ५८ ॥