तच्छ्रुत्वा
वचनं
तस्य
स्नेहपर्याकुलाक्षरम् ।
समन्युः
कौशिको
वाक्यं
प्रत्युवाच
महीपतिम् ॥ १ ॥
पूर्वमर्थं
प्रतिश्रुत्य
प्रतिज्ञां
हातुमिच्छसि ।
राघवाणामयुक्तोऽयं
कुलस्यास्य
विपर्ययः ॥ २ ॥
यदीदं
ते
क्षमं
राजन्
गमिष्यामि
यथा
गतम् ।
मिथ्याप्रतिज्ञः
काकुत्स्थ
सुखी
भव
सबान्धवः ॥ ३ ॥
तस्य
रोषपरीतस्य
विश्वामित्रस्य
धीमतः ।
चचाल
वसुधा
कृत्स्ना
विवेश
च
भयं
सुरान् ॥ ४ ॥
त्रस्तरूपं
स
विज्ञाय
जगत्सर्वं
महानृषिः ।
नृपतिं
सुव्रतो
धीरो
वसिष्ठो
वाक्यमब्रवीत् ॥ ५ ॥
इक्ष्वाकूणां
कुले
जातः
साक्षाद्धर्म
इवापरः ।
धृतिमान्
सुव्रतः
श्रीमान्न
धर्मं
हातुमर्हसि ॥ ६ ॥
त्रिषु
लोकेषु
विख्यातो
धर्मात्मा
इति
राघवः ।
स्वधर्मं
प्रतिपद्यस्व
नाधर्मं
वोढुमर्हसि ॥ ७ ॥
संश्रुत्यैवं
करिष्यामीत्यकुर्वाणस्य
राघव ।
इष्टापूर्तवधो
भूयात्तस्माद्रामं
विसर्जय ॥ ८ ॥
कृतास्त्रमकृतास्त्रं
वा
नैनं
शक्ष्यन्ति
राक्षसाः ।
गुप्तं
कुशिकपुत्रेण
ज्वलनेनामृतं
यथा ॥ ९ ॥
एष
विग्रहवान्
धर्म
एष
वीर्यवतां
वरः ।
एष
बुद्ध्याधिको
लोके
तपसश्च
परायणम् ॥ १० ॥
एषोऽस्त्रान्
विविधान्
वेत्ति
त्रैलोक्ये
सचराचरे ।
नैनमन्यः
पुमान्
वेत्ति
न
च
वेत्स्यन्ति
केचन ॥ ११ ॥
न
देवा
ऋषयः
केचिन्नासुरा
न
च
राक्षसाः ।
गन्धर्वयक्षप्रवराः
सकिन्नरमहोरगाः ॥ १२ ॥
सर्वास्त्राणि
कृशाश्वस्य
पुत्राः
परमधार्मिकाः ।
कौशिकाय
पुरा
दत्ता
यदा
राज्यं
प्रशासति ॥ १३ ॥
तेऽपि
पुत्राः
कृशाश्वस्य
प्रजापतिसुतासुताः ।
नैकरूपा
महावीर्या
दीप्तिमन्तो
जयावहाः ॥ १४ ॥
जया
च
सुप्रभा
चैव
दक्षकन्ये
सुमध्यमे ।
ते
सुवातेऽस्त्रशस्त्राणि
शतं
परमभास्वरम् ॥ १५ ॥
पञ्चाशतं
सुताँल्लेभे
जया
नाम
परान्
पुरा ।
वधायासुरसैन्यानाममेयान्
कामरूपिणः ॥ १६ ॥
सुप्रभाजनयच्चापि
सुतान्
पञ्चाशतं
पुनः ।
संहारान्नाम
दुर्द्धर्षान्
दुराक्रमान्
बलीयसः ॥ १७ ॥
तानि
चास्त्राणि
वेत्त्येष
यथावत्
कुशिकात्मजः ।
अपूर्वाणां
च
जनने
शक्तो
भूयस्य
धर्मवित् ॥ १८ ॥
न
किञ्चिद्
अस्त्य्
अविदितम्
भूतम्
भव्यम्
च
राघव ।
एवंवीर्यो
महातेजा
विश्वामित्रो
महायशाः ॥ १९ ॥
न
रामगमने
राजन्
संशयं
गन्तुमर्हसि ।
तेषां
निग्रहणे
शक्तः
स्वयं
च
कुशिकात्मजः ॥ २० ॥
तव
पुत्रहितार्थाय
त्वामुपेत्याभियाचते ।
इति
मुनिवचनात्
प्रसन्नचित्तो
रघुवृषभश्च
मुमोद
भास्वराङ्गः ॥ २१ ॥
गमनमभिरुरोच
राघवस्य
प्रथितयशाः
कुशिकात्मजाय
बुद्ध्या ॥ २२ ॥