तथा
वसिष्ठे
ब्रुवति
राजा
दशरथः
सुतम् ।
प्रहृष्टवदनो
राममाजुहाव
सलक्ष्मणम् ॥ १ ॥
कृतस्वस्त्ययनं
मात्रा
पित्रा
दशरथेन
च ।
पुरोधसा
वसिष्ठेन
मङ्गलैरभिमन्त्रितम् ॥ २ ॥
स
पुत्रं
मूर्ध्न्युपाघ्राय
राजा
दशरथः
प्रियम् ।
ददौ
कुशिकपुत्राय
सुप्रीतेनान्तरात्मना ॥ ३ ॥
ततो
वायुः
सुखस्पर्शो
विरजस्को
ववौ
तदा ।
विश्वामित्रगतं
रामं
दृष्ट्वा
राजीवलोचनम् ॥ ४ ॥
पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिःस्वनैः ।
शङ्खदुन्दुभिनिर्घोषः
प्रयाते
तु
महात्मनि ॥ ५ ॥
विश्वामित्रो
ययावग्रे
ततो
रामो
महायशाः ।
काकपक्षधरो
धन्वी
तं
च
सौमित्रिरन्वगात् ॥ ६ ॥
विश्वामित्रं
महात्मानं
त्रिशीर्षाविव
पन्नगौ ।
अनुजग्मतुरक्षुद्रौ
पितामहमिवाश्विनौ ॥ ७ ॥
तदा
कुशिकपुत्रं
तु
धनुष्पाणी
स्वलङ्कृतौ ।
बद्धगोधाङ्गुलित्राणौ
खड्गवन्तौ
महाद्युती ॥ ८ ॥
अनुयातौ
श्रिया
दीप्त्या
शोभयेतामनिन्दितौ ।
स्थाणुं
देवमिवाचिन्त्यं
कुमाराविव
पावकी ॥ ९ ॥
अध्यर्द्धयोजनं
गत्वा
सरय्वा
दक्षिणे
तटे ।
रामेति
मधुरां
वाणीं
विश्वामित्रोऽभ्यभाषत ॥ १० ॥
गृहाण
वत्स
सलिलं
माभूत्
कालविपर्ययः ।
मन्त्रग्रामं
गृहाण
त्वं
बलामतिबलां
तथा ॥ ११ ॥
न
श्रमो
न
ज्वरो
वा
ते
न
रूपस्य
विपर्ययः ।
न
च
सुप्तं
प्रमत्तं
वा
धर्षयिष्यन्ति
नैऋताः ॥ १२ ॥
न
बाह्वोः
सदृशो
वीर्ये
पृथिव्यामस्ति
कश्चन ।
त्रिषु
लोकेषु
वै
राम
न
भवेत्
सदृशस्तव ॥ १३ ॥
न
सौभाग्ये
न
दाक्षिण्ये
न
ज्ञाने
बुद्धिनिश्चये ।
नोत्तरे
प्रतिवक्तव्ये
समो
लोके
तवानघ ॥ १४ ॥
एतद्विद्याद्वये
लब्धे
भविता
नास्ति
ते
समः ।
बला
चातिबला
चैव
सर्वज्ञानस्य
मातरौ ॥ १५ ॥
क्षुत्पिपासे
न
ते
राम
भविष्येते
नरोत्तम ।
बलामतिबलां
चैव
पठतः
पथि
राघव ॥ १६ ॥
विद्याद्वयमधीयाने
यशश्चाप्यतुलं
त्वयि ।
पितामहसुते
ह्येते
विद्ये
तेजःसमन्विते ॥ १७ ॥
प्रदातुं
तव
काकुत्स्थ
सदृशस्त्वं
हि
धार्मिक ।
कामं
बहुगुणाः
सर्वे
त्वय्येते
नात्र
संशयः ॥ १८ ॥
तपसा
सम्भृते
चैते
बहुरूपे
भविष्यतः ।
ततो
रामो
जलं
स्पृष्ट्वा
प्रहृष्टवदनः
शुचिः ॥ १९ ॥
प्रतिजग्राह
ते
विद्ये
महर्षेर्भावितात्मनः ।
विद्यासमुदितो
रामः
शुशुभे
भूरिविक्रमः ॥ २० ॥
सहस्ररश्मिर्भगवान्
शरदीव
दिवाकरः ।
गुरुकार्याणि
सर्वाणि
नियुज्य
कुशिकात्मजे ॥ २१ ॥
ऊषुस्तां
रजनीं
तत्र
सरय्वां
सुसुखः
त्रयः ।
दशरथनृपसूनुसत्तमाभ्यां
तृणशयनेऽनुचिते
तदोषिताभ्याम् ॥ २२ ॥
कुशिकसुतवचोऽनुलालिताभ्यां
सुखमिव
सा
विबभौ
विभावरी
च ॥ २३ ॥