प्रभातायां
तु
शर्वर्यां
विश्वामित्रो
महामुनिः ।
अभ्यभाषत
काकुत्स्थौ
शयानौ
पर्णसंस्तरे ॥ १ ॥
कौसल्या
सुप्रजा
राम
पूर्वा
सन्ध्या
प्रवर्तते ।
उत्तिष्ठ
नरशार्दूल
कर्त्तव्यं
दैवमाह्निकम् ॥ २ ॥
तस्यर्षेः
परमोदारं
वचः
श्रुत्वा
नरोत्तमौ ।
स्नात्वा
कृतोदकौ
वीरौ
जेपतुः
परमं
जपम् ॥ ३ ॥
कृताह्निकौ
महावीर्यौ
विश्वामित्रं
तपोधनम् ।
अभिवाद्याभिसंहृष्टौ
गमनायाभितस्थतुः ॥ ४ ॥
तौ
प्रयातौ
महावीर्यौ
दिव्यां
त्रिपथगां
नदीम् ।
ददृशाते
ततस्तत्र
सरय्वाः
सङ्गमे
शुभे ॥ ५ ॥
तत्राश्रमपदं
पुण्यमृषीणामुग्रतेजसाम् ।
बहुवर्षसहस्राणि
तप्यतां
परमं
तपः ॥ ६ ॥
तं
दृष्ट्वा
परमप्रीतौ
राघवौ
पुण्यमाश्रमम् ।
ऊचतुस्तं
महात्मानं
विश्वामित्रमिदं
वचः ॥ ७ ॥
कस्यायमाश्रमः
पुण्यः
को
न्वस्मिन्
वसते
पुमान् ।
भगवन्
श्रोतुमिच्छावः
परं
कौतूहलं
हि
नौ ॥ ८ ॥
तयोस्तद्वचनं
श्रुत्वा
प्रहस्य
मुनिपुङ्गवः ।
अब्रवीच्छ्रूयतां
राम
यस्यायं
पूर्व
आश्रमः ॥ ९ ॥
कन्दर्पो
मूर्तिमानासीत्
काम
इत्युच्यते
बुधैः ।
कृतोद्वाहं
तु
देवेशं
गच्छन्तं
समरुद्गणम् ॥ १० ॥
धर्षयामास
दुर्मेधा
हुङ्कृतश्च
महात्मना ।
अवदग्धस्य
रौद्रेण
चक्षुषा
रघुनन्दन ॥ ११ ॥
व्यशीर्य्यन्त
शरीरात्
स्वात्
सर्वगात्राणि
दुर्मतेः ।
तस्य
गात्रं
हतं
तत्र
निर्दग्धस्य
महात्मना ॥ १२ ॥
अशरीरः
कृतः
कामः
क्रोधाद्देवेश्वरेण
हि ।
अनङ्ग
इति
विख्यातस्तदाप्रभृति
राघव ॥ १३ ॥
स
चाङ्गविषयः
श्रीमान्
यत्राङ्गं
प्रमुमोच
ह ।
तस्यायमाश्रमः
पुण्यस्तस्येमे
मुनयः
पुरा ॥ १४ ॥
शिष्या
धर्मपरा
नित्यं
तेषां
पापं
न
विद्यते ।
इहाद्य
रजनीं
राम
वसेम
शुभदर्शन ॥ १५ ॥
पुण्ययोः
सरितोर्मध्ये
श्वस्तरिष्यामहे
वयम् ।
अभिगच्छामहे
सर्वे
शुचयः
पुण्यमाश्रमम् ॥ १६ ॥
स्नाताश्च
कृतजप्याश्च
हुतहव्या
नरोत्तम ।
तेषां
संवदतां
तत्र
तपोदीर्घेण
चक्षुषा ॥ १७ ॥
विज्ञाय
परमप्रीता
मुनयो
हर्षमागमन् ।
अर्घ्यं
पाद्यं
तथातिथ्यं
निवेद्य
कुशिकात्मजे ॥ १८ ॥
रामलक्ष्मणयोः
पश्चादकुर्वन्नतिथिक्रियाम् ।
सत्कारं
समनुप्राप्य
कथाभिरभिरञ्जयन् ॥ १९ ॥
यथार्हमजपन्
सन्ध्यामृषयस्ते
समाहिताः ।
तत्र
वासिभिरानीता
मुनिभिः
सुव्रतैः
सह ॥ २० ॥
न्यवसन्
सुसुखं
तत्र
कामाश्रमपदे
तदा ।
कथाभिरभिरामाभिरभिरामौ
नृपात्मजौ ॥ २१ ॥
रमयामास
धर्मात्मा
कौशिको
मुनिपुङ्गवः ॥ २२ ॥