ततः
प्रभाते
विमले
कृत्वाह्निकमरिन्दमौ ।
विश्वामित्रं
पुरस्कृत्य
नद्यास्तीरमुपागतौ ॥ १ ॥
ते
च
सर्वे
महात्मानो
मुनयः
संशितव्रताः ।
उपस्थाप्य
शुभां
नावं
विश्वामित्रमथाब्रुवन् ॥ २ ॥
आरोहतु
भवान्नावं
राजपुत्रपुरस्कृतः ।
अरिष्टं
गच्छ
पन्थानं
माभूत्कालविपर्ययः ॥ ३ ॥
विश्वामित्रस्तथेत्युक्त्वा
तानृषीनभिपूज्य
च ।
ततार
सहितस्ताभ्यां
सरितं
सागरङ्गमाम् ॥ ४ ॥
ततः
शुश्राव
वै
शब्दमतिसंरम्भवर्द्धितम् ।
मध्यमागम्य
तोयस्य
सह
रामः
कनीयसा ॥ ५ ॥
अथ
रामः
सरिन्मध्ये
पप्रच्छ
मुनिपुङ्गवम् ।
वारिणो
भिद्यमानस्य
किमयं
तुमुलो
ध्वनिः ॥ ६ ॥
राघवस्य
वचः
श्रुत्वा
कौतूहलसमन्वितः ।
कथयामास
धर्मात्मा
तस्य
शब्दस्य
निश्चयम् ॥ ७ ॥
कैलासपर्वते
राम
मनसा
निर्मितं
सरः ।
ब्रह्मणा
नरशार्दूल
तेनेदं
मानसं
सरः ॥ ८ ॥
तस्मात्सुस्राव
सरसः
साऽयोध्यामुपगूहते ।
सरःप्रवृत्ता
सरयूः
पुण्या
ब्रह्मसरश्च्युता ॥ ९ ॥
तस्यायमतुलः
शब्दो
जाह्नवीमभिवर्तते ।
वारिसङ्क्षोभजो
राम
प्रणामं
नियतः
कुरु ॥ १० ॥
ताभ्यां
तु
तावुभौ
कृत्वा
प्रणाममतिधार्मिकौ ।
तीरं
दक्षिणमासाद्य
जग्मतुर्लघुविक्रमौ ॥ ११ ॥
स
वनं
घोरसङ्काशं
दृष्ट्वा
नृपवरात्मजः ।
अविप्रहतमैक्ष्वाकः
पप्रच्छ
मुनिपुङ्गवम् ॥ १२ ॥
अहो
वनमिदं
दुर्गं
झिल्लिकागणनादितम् ।
भैरवैः
श्वापदैः
पूर्णं
शकुन्तैर्दारुणारुतैः ॥ १३ ॥
नानाप्रकारैः
शकुनैर्वाश्यद्भिर्भैरवैः
स्वनैः ।
सिंहव्याघ्रवराहैश्च
वारणैश्चोपशोभितम् ॥ १४ ॥
धवाश्वकर्णककुभैर्मरुतिन्दुकपाटलैः ।
सङ्कीर्णं
बदरीभिश्च
किं
न्वेतद्दारुणं
वनम् ॥ १५ ॥
तमुवाच
महातेजा
विश्वामित्रो
महामुनिः ।
श्रूयतां
वत्स
काकुत्स्थ
यस्यैतद्दारुणं
वनम् ॥ १६ ॥
एतौ
जनपदौ
स्फीतौ
पूर्वमास्तां
नरोत्तम ।
मलदाश्च
करूशाश्च
देवनिर्माणनिर्मितौ ॥ १७ ॥
पुरा
वृत्रवधे
राम
मलेन
समभिप्लुतम् ।
क्षुधा
चैव
सहस्राक्षं
ब्रह्महत्या
समाविशत् ॥ १८ ॥
तमिन्द्रं
स्नापयन्
देवा
ऋषयश्च
तपोधनाः ।
कलशैः
स्नापयामासुर्मलं
चास्य
प्रमोचयन् ॥ १९ ॥
इह
भूम्यां
मलं
दत्त्वा
दत्त्वा
कारूशमेव
च ।
शरीरजं
महेन्द्रस्य
ततो
हर्षं
प्रपेदिरे ॥ २० ॥
निर्मलो
निष्करूशश्च
शुचिरिन्द्रो
यदाऽभवत् ।
ददौ
देशस्य
सुप्रीतो
वरं
प्रभुरनुत्तमम् ॥ २१ ॥
इमौ
जनपदौ
स्फीतौ
ख्यातिं
लोके
गमिष्यतः ।
मलदाश्च
करूशाश्च
ममाङ्गमलधारिणौ ॥ २२ ॥
साधु
साध्विति
त
देवाः
पाकशासनमब्रुवन् ।
देशस्य
पूजां
तां
दृष्ट्वा
कृतां
शक्रेण
धीमता ॥ २३ ॥
एतौ
जनपदौ
स्फीतौ
दीर्घकालमरिन्दम ।
मलदाश्च
करूशाश्च
मुदितौ
धनधान्यतः ॥ २४ ॥
बलं
नागसहस्रस्य
धारयन्ती
तदा
ह्यभूत् ।
ताटका
नाम
भद्रं
ते
भार्या
सुन्दस्य
धीमतः ॥ २५ ॥
मारीचो
राक्षसः
पुत्रो
यस्याः
शक्रपराक्रमः ।
वृत्तबाहुर्महावीर्यो
विपुलास्यतनुर्महान् ॥ २६ ॥
राक्षसो
भैरवाकारो
नित्यं
त्रासयते
प्रजाः ।
इमौ
जनपदौ
नित्यं
विनाशयति
राघव ॥ २७ ॥
मलदांश्च
करूशांश्च
ताटका
दुष्टचारिणी ।
सेयं
पन्थानमावार्य
वसत्यध्यर्द्धयोजने ॥ २८ ॥
अत
एव
च
गन्तव्यं
ताटकाया
वनं
यतः ।
स्वबाहुबलमाश्रित्य
जहीमां
दुष्टचारिणीम् ॥ २९ ॥
मन्नियोगादिमं
देशं
कुरु
निष्कण्टकं
पुनः ।
न
हि
कश्चिदिमं
देशं
शक्नोत्यागन्तुमीदृशम् ॥ ३० ॥
यक्षिण्या
घोरया
राम
उत्सादितमसह्यया ।
एतत्ते
सर्वमाख्यातं
यथैतद्दारुणं
वनम् ॥ ३१ ॥
यक्ष्या
चोत्सादितं
सर्वमद्यापि
न
निवर्तते ॥ ३२ ॥