मुनेर्वचनमक्लीबं
श्रुत्वा
नरवरात्मजः ।
राघवः
प्राञ्जलिर्भूत्वा
प्रत्युवाच
दृढव्रतः ॥ १ ॥
पितुर्वचननिर्देशात्पितुर्वचनगौरवात् ।
वचनं
कौशिकस्येति
कर्तव्यमविशङ्कया ॥ २ ॥
अनुशिष्टोऽस्म्ययोध्यायां
गुरुमध्ये
महात्मना ।
पित्रा
दशरथेनाहं
नावज्ञेयं
च
तद्वचः ॥ ३ ॥
सोऽहं
पितुर्वचः
श्रुत्वा
शासनाद्ब्रह्मवादिनः ।
करिष्यामि
न
सन्देहस्ताटकावधमुत्तमम् ॥ ४ ॥
गोब्राह्मणहितार्थाय
देशस्यास्य
सुखाय
च ।
तव
चैवाप्रमेयस्य
वचनं
कर्त्तुमुद्यतः ॥ ५ ॥
एवमुक्त्वा
धनुर्मध्ये
बध्वा
मुष्टिमरिन्दमः ।
ज्याघोषमकरोत्तीव्रं
दिशः
शब्देन
नादयन् ॥ ६ ॥
तेन
शब्देन
वित्रस्तास्ताटकावनवासिनः ।
ताटका
च
सुसङ्क्रुद्धा
तेन
शब्देन
मोहिता ॥ ७ ॥
तं
शब्दमभिनिध्याय
राक्षसी
क्रोधमूर्च्छिता ।
श्रुत्वा
चाभ्यद्रवद्वेगाद्यतः
शब्दो
विनिस्सृतः ॥ ८ ॥
तां
दृष्ट्वा
राघवः
क्रुद्धां
विकृतां
विकृताननाम् ।
प्रमाणेनातिवृद्धां
च
लक्ष्मणं
सोऽभ्यभाषत ॥ ९ ॥
पश्य
लक्ष्मण
यक्षिण्या
भैरवं
दारुणं
वपुः ।
भिद्येरन्
दर्शनादस्या
भीरूणां
हृदयानि
च ॥ १० ॥
एनां
पश्य
दुराधर्षां
मायाबलसमन्विताम् ।
विनिवृत्तां
करोम्यद्य
हृतकर्णाग्रनासिकाम् ॥ ११ ॥
न
ह्येनामुत्सहे
हन्तुं
स्त्रीस्वभावेन
रक्षिताम् ।
वीर्यं
चास्या
गतिं
चापि
हनिष्यामीति
मे
मतिः ॥ १२ ॥
एवं
ब्रुवाणे
रामे
तु
ताटका
क्रोधमूर्च्छिता ।
उद्यम्य
बाहू
गर्जन्ती
राममेवाभ्यधावत ॥ १३ ॥
विश्वामित्रस्तु
ब्रह्मर्षिर्हुङ्कारेणाभिभर्त्स्य
ताम् ।
स्वस्ति
राघवयोरस्तु
जयं
चैवाभ्यभाषत ॥ १४ ॥
उद्धून्वाना
रजो
घोरं
ताटका
राघवावुभौ ।
रजोमोहेन
महता
मुहूर्तं
सा
व्यमोहयत् ॥ १५ ॥
ततो
मायां
समास्थाय
शिलावर्षेण
राघवौ ।
अवाकिरत्सुमहता
ततश्चुक्रोध
राघवः ॥ १६ ॥
शिलावर्षं
महत्तस्याः
शरवर्षेण
राघवः ।
प्रतिहत्योपधावन्त्याः
करौ
चिच्छेद
पत्रिभिः ॥ १७ ॥
ततश्छिन्नभुजां
श्रान्तामभ्याशे
परिगर्जतीम् ।
सौमित्रिरकरोत्
क्रोधाद्धृतकर्णाग्रनासिकाम् ॥ १८ ॥
अन्तर्द्धानं
गता
यक्षी
मोहयन्तीव
मायया ।
अश्मवर्षं
विमुञ्चन्ती
भैरवं
विचचार
ह ॥ १९ ॥
ततस्तावश्मवर्षेण
कीर्यमाणौ
समन्ततः ।
दृष्ट्वा
गाधिसुतः
श्रीमानिदं
वचनमब्रवीत् ॥ २० ॥
अलं
ते
घृणया
वीर
पापैषा
दुष्टचारिणी ।
यज्ञविघ्नकरी
यक्षी
पुरा
वर्द्धति
मायया ॥ २१ ॥
वध्यतां
तावदेवैषा
पुरा
सन्ध्या
प्रवर्तते ।
रक्षांसि
सन्ध्याकालेषु
दुर्द्धर्षाणि
भवन्ति
वै ॥ २२ ॥
इत्युक्तस्तु
तदा
यक्षीमश्मवृष्ट्याभिवर्षतीम् ।
दर्शयन्
शब्दवेधित्वं
तां
रुरोध
स
सायकैः ॥ २३ ॥
सा
रुद्धा
शरजालेन
मायाबलसमन्विता ।
अभिदुद्राव
काकुत्स्थं
लक्ष्मणं
च
विनेदुषी ॥ २४ ॥
तामापतन्तीं
वेगेन
विक्रान्तामशनीमिव ।
शरेणोरसि
विव्याध
सा
पपात
ममार
च ॥ २५ ॥
तां
हतां
भीमसङ्काशां
दृष्ट्वा
सुरपतिस्तदा ।
साधु
साध्विति
काकुत्स्थं
सुराश्च
समपूजयन् ॥ २६ ॥
उवाच
परमप्रीतः
सहस्राक्षः
पुरन्दरः ।
सुराश्च
सर्वे
संहृष्टा
विश्वामित्रमथाब्रुवन् ॥ २७ ॥
मुने
कौशिक
भद्रं
ते
सेन्द्राः
सर्वे
मरुद्गणाः ।
तोषिताः
कर्मणानेन
स्नेहं
दर्शय
राघवे ॥ २८ ॥
प्रजापतेः
कृशाश्वस्य
पुत्रान्
सत्यपराक्रमान् ।
तपोबलभृतो
ब्रह्मन्
राघवाय
निवेदय ॥ २९ ॥
पात्रभूतश्च
ते
ब्रह्मन्
तवानुगमने
धृतः ।
कर्तव्यं
च
महत्कार्यं
सुराणां
राजसूनुना ॥ ३० ॥
एवमुक्त्वा
सुराः
सर्वे
जग्मुर्हृष्टा
यथागतम् ।
विश्वामित्रं
पुरस्कृत्य
ततः
सन्ध्या
प्रवर्तते ॥ ३१ ॥
ततो
मुनिवरः
प्रीतस्ताटकावधतोषितः ।
मूर्ध्नि
राममुपाघ्राय
इदं
वचनमब्रवीत् ॥ ३२ ॥
इहाद्य
रजनीं
राम
वसाम
शुभदर्शन ।
श्वःप्रभाते
गमिष्यामस्तदाश्रमपदं
मम ॥ ३३ ॥
विश्वामित्रवचः
श्रुत्वा
हृष्टो
दशरथात्मजः ।
उवास
रजनीं
तत्र
ताटकाया
वने
सुखम् ॥ ३४ ॥
मुक्तशापं
वनं
तच्च
तस्मिन्नेव
तदाऽहनि ।
रमणीयं
विबभ्राज
यथा
चैत्ररथं
वनम् ॥ ३५ ॥
निहत्य
तां
यक्षसुतां
स
रामः
प्रशस्यमानः
सुरसिद्धसङ्घैः ।
उवास
तस्मिन्
मुनिना
सहैव
प्रभातवेलां
प्रतिबोध्यमानः ॥ ३६ ॥