प्रतिगृह्य
ततोऽस्त्राणि
प्रहृष्टवदनः
शुचिः ।
गच्छन्नेव
च
काकुत्स्थो
विश्वामित्रमथाब्रवीत् ॥ १ ॥
गृहीतास्त्रोऽस्मि
भगवन्
दुराधर्षः
सुरासुरैः ।
अस्त्राणां
त्वहमिच्छामि
संहारं
मुनिपुङ्गव ॥ २ ॥
एवं
ब्रुवति
काकुत्स्थे
विश्वामित्रो
महायशाः ।
संहारं
व्याजहाराथ
धृतिमान्
सुव्रतः
शुचिः ॥ ३ ॥
सत्यवन्तं
सत्यकीर्तिं
धृष्टं
रभसमेव
च ।
प्रतिहारतरं
नाम
पराङ्मुखमवाङ्मुखम् ॥ ४ ॥
लक्षाक्षविषमौ
चैव
दृढनाभसुनाभकौ ।
दशाक्षशतवक्त्रौ
च
दशशीर्षशतोदरौ ॥ ५ ॥
पद्मनाभमहानाभौ
दुन्दुनाभसुनाभकौ ।
ज्योतिषं
कृशनं
चैव
नैराश्यविमलावुभौ ॥ ६ ॥
योगन्धरहरिद्रौ
च
दैत्यप्रशमनौ
तथा ।
सार्चिर्माली
धृतिर्माली
वृत्तिमान्
रुचिरस्तथा ॥ ७ ॥
पितृसौमनसं
चैव
विधूतमकरावुभौ ।
करवीरकरं
चैव
धनधान्यौ
च
राघव ॥ ८ ॥
कामरूपं
कामरुचिं
मोहमावरणं
तथा ।
जृम्भकं
सर्वनाभं
च
सन्तानवरणौ
तथा ॥ ९ ॥
कृशाश्वतनयान्
राम
भास्वरान्
कामरूपिणः ।
प्रतीच्छ
मम
भद्रं
ते
पात्रभूतोऽसि
राघव ॥ १० ॥
बाढमित्येव
काकुत्स्थः
प्रहृष्टेनान्तरात्मना ।
दिव्यभास्वरदेहाश्च
मूर्तिमन्तः
सुखप्रदाः ॥ ११ ॥
केचिदङ्गारसदृशाः
केचिद्धूमोपमास्तथा ।
चन्द्रार्कसदृशाः
केचित्
प्रह्वाञ्जलिपुटास्तथा ॥ १२ ॥
रामं
प्राञ्जलयो
भूत्वाब्रुवन्
मधुरभाषिणः ।
इमे
स्म
नरशार्दूल
शाधि
किं
करवाम
ते ॥ १३ ॥
गम्यतामिति
तानाह
यथेष्टं
रघुनन्दनः ।
मानसाः
कार्यकालेषु
साहाय्यं
मे
करिष्यथ ॥ १४ ॥
अथ
ते
राममामन्त्र्य
कृत्वा
चापि
प्रदक्षिणम् ।
एवमस्त्विति
काकुत्स्थमुक्त्वा
जग्मुर्यथागतम् ॥ १५ ॥
स
च
तान्
राघवो
ज्ञात्वा
विश्वामित्रं
महामुनिम् ।
गच्छन्नेवाथ
मधुरं
श्लक्ष्णं
वचनमब्रवीत् ॥ १६ ॥
किं
न्वेतन्मेघसङ्काशं
पर्वतस्याविदूरतः ।
वृक्षषण्डमितो
भाति
परं
कौतूहलं
हि
मे ॥ १७ ॥
दर्शनीयं
मृगाकीर्णं
मनोहरमतीव
च ।
नाना
प्रकारैः
शकुनैर्वल्गुनादैरलङ्कृतम् ॥ १८ ॥
निस्सृताः
स्म
मुनिश्रेष्ठ
कान्ताराद्रोमहर्षणात् ।
अनया
त्ववगच्छामि
देशस्य
सुखवत्तया ॥ १९ ॥
सर्वं
मे
शंस
भगवन्
कस्याश्रमपदं
त्विदम् ।
सम्प्राप्ता
यत्र
ते
पापा
ब्रह्मघ्ना
दुष्टचारिणः ॥ २० ॥
तव
यज्ञस्य
विघ्नाय
दुरात्मानो
महामते ।
भगवंस्तस्य
को
देशः
सा
यत्र
तव
याज्ञिकी ॥ २१ ॥
रक्षितव्या
क्रिया
ब्रह्मन्
मम
वध्याश्च
राक्षसाः ।
एतत्सर्वं
मुनिश्रेष्ठ
श्रोतुमिच्छाम्यहं
प्रभो ॥ २२ ॥