अथ
तस्याप्रमेयस्य
तद्वनं
परिपृच्छतः ।
विश्वामित्रो
महातेजा
व्याख्यातुमुपचक्रमे ॥ १ ॥
वर्षाणि
सुबहून्येव
तथा
युगशतानि
च ।
तपश्चरणयोगार्थमुवास
सुमहातपाः ॥ २ ॥
एष
पूर्वाश्रमो
राम
वामनस्य
महात्मनः ।
सिद्धाश्रम
इति
ख्यातः
सिद्धो
ह्यत्र
महातपाः ॥ ३ ॥
निर्जित्य
दैवतगणान्
सेन्द्रांश्च
समरुद्गणान् ।
कारयामास
तद्राज्यं
त्रिषु
लोकेषु
विश्रुतः ॥ ४ ॥
बलेस्तु
यजमानस्य
देवाः
साग्निपुरोगमाः ।
समागम्य
स्वयं
चैव
विष्णुमूचुरिहाश्रमे ॥ ५ ॥
बलिर्वैरोचनिर्विष्णो
यजते
यज्ञमुत्तमम् ।
असमाप्ते
क्रतौ
तस्मिन्
स्वकार्यमभिपद्यताम् ॥ ६ ॥
ये
चैनमभिवर्तन्ते
याचितार
इतस्ततः ।
यच्च
यत्र
यथावच्च
सर्वं
तेभ्यः
प्रयच्छति ॥ ७ ॥
स
त्वं
सुरहितार्थाय
मायायोगमुपागतः ।
वामनत्वं
गतो
विष्णो
कुरु
कल्याणमुत्तमम् ॥ ८ ॥
एतस्मिन्नन्तरे
राम
कश्यपोऽग्निसमप्रभः ।
अदित्या
सहितो
राम
दीप्यमान
इवौजसा ॥ ९ ॥
देवीसहायो
भगवान्
दिव्यं
वर्षसहस्रकम् ।
व्रतं
समाप्य
वरदं
तुष्टाव
मधुसूदनम् ॥ १० ॥
तपोमयं
तपोराशिं
तपोमूर्तिं
तपात्मकम् ।
तपसा
त्वां
सुतप्तेन
पश्यामि
पुरुषोत्तमम् ॥ ११ ॥
शरीरे
तव
पश्यामि
जगत्सर्वमिदं
प्रभो ।
त्वमनादिरनिर्देश्यस्त्वामहं
शरणं
गतः ॥ १२ ॥
तमुवाच
हरिः
प्रीतः
कश्यपं
धूतकल्मषम् ।
वरं
वरय
भद्रं
ते
वरार्होऽसि
मतो
मम ॥ १३ ॥
तच्छ्रुत्वा
वचनं
तस्य
मारीचः
कश्यपोऽब्रवीत् ।
अदित्या
देवतानां
च
मम
चैवानुयाचतः ॥ १४ ॥
वरं
वरद
सुप्रीतो
दातुमर्हसि
सुव्रत ।
भ्राता
भव
यवीयांस्त्वं
शक्रस्यासुरसूदन ॥ १५ ॥
शोकार्त्तानां
तु
देवानां
साहाय्यं
कर्तुमर्हसि ।
अयं
सिद्धाश्रमो
नाम
प्रसादात्ते
भविष्यति ॥ १६ ॥
सिद्धे
कर्म्मणि
देवेश
उत्तिष्ठ
भगवन्नितः ।
अथ
विष्णुर्महातेजा
अदित्यां
समजायत ॥ १७ ॥
वामनं
रूपमास्थाय
वैरोचनिमुपागमत् ।
त्रीन्
क्रमानथ
भिक्षित्वा
प्रतिगृह्य
च
मानदः ॥ १८ ॥
आक्रम्य
लोकाँल्लोकात्मा
सर्वलोकहिते
रतः ।
महेन्द्राय
पुनः
प्रादान्नियम्य
बलिमोजसा ॥ १९ ॥
त्रैलोक्यं
स
महातेजाश्चक्रे
शक्रवशं
पुनः ।
तेनैव
पूर्वमाक्रान्त
आश्रमः
श्रमनाशनः ॥ २० ॥
मया
तु
भक्त्या
तस्यैष
वामनस्योपभुज्यते ।
एतमाश्रममायान्ति
राक्षसा
विघ्नकारिणः ॥ २१ ॥
अत्रैव
पुरुषव्याघ्र
हन्तव्या
दुष्टचारिणः ।
अद्य
गच्छामहे
राम
सिद्धाश्रममनुत्तमम् ॥ २२ ॥
तदाश्रमपदं
तात
तवाप्येतद्यथा
मम ।
प्रविशन्नाश्रमपदं
व्यरोचत
महामुनिः ॥ २३ ॥
शशीव
गतनीहारः
पुनर्वसुसमन्वितः ।
तं
दृष्ट्वा
मुनयः
सर्वे
सिद्धाश्रमनिवासिनः ॥ २४ ॥
उत्पत्योत्पत्य
सहसा
विश्वामित्रमपूजयन् ।
यथार्हं
चक्रिरे
पूजां
विश्वामित्राय
धीमते ॥ २५ ॥
तथैव
राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम् ।
मुहूर्तमिव
विश्रान्तौ
राजपुत्रावरिन्दमौ ॥ २६ ॥
प्राञ्जली
मुनिशार्दूलमूचतू
रघुनन्दनौ ।
अद्यैव
दीक्षां
प्रविश
भद्रं
ते
मुनिपुङ्गव ॥ २७ ॥
सिद्धाश्रमोऽयं
सिद्धः
स्यात्
सत्यमस्तु
वचस्तव ।
एवमुक्तो
महातेजा
विश्वामित्रो
महामुनिः ॥ २८ ॥
प्रविवेश
ततो
दीक्षां
नियतो
नियतेन्द्रियः ।
कुमारावपि
तां
रात्रिमुषित्वा
सुसमाहितौ ॥ २९ ॥
प्रभातकाले
चोत्थाय
पूर्वां
सन्ध्यामुपास्य
च ।
स्पृष्टोदकौ
शुची
जप्यं
समाप्य
नियमेन
च ॥ ३० ॥
हुताग्निहोत्रमासीनं
विश्वामित्रमवन्दताम् ॥ ३१ ॥