अथ
तौ
देशकालज्ञौ
राजपुत्रावरिन्दमौ ।
देशे
काले
च
वाक्यज्ञावब्रूतां
कौशिकं
वचः ॥ १ ॥
भगवन्
श्रोतुमिच्छावो
यस्मिन्
काले
निशाचरौ ।
संरक्षणीयौ
तौ
ब्रह्मन्नातिवर्तेत
तत्क्षणम् ॥ २ ॥
एवं
ब्रुवाणौ
काकुत्स्थौ
त्वरमाणौ
युयुत्सया ।
सर्वे
ते
मुनयः
प्रीताः
प्रशशंसुर्नृपात्मजौ ॥ ३ ॥
अद्यप्रभृति
षड्रात्रं
रक्षतं
राघवौ
युवाम् ।
दीक्षां
गतो
ह्येष
मुनिर्मौनित्वं
च
गमिष्यति ॥ ४ ॥
तौ
च
तद्वचनं
श्रुत्वा
राजपुत्रौ
यशस्विनौ ।
अनिद्रौ
षडहोरात्रं
तपोवनमरक्षताम् ॥ ५ ॥
उपासाञ्चक्रतुर्वीरौ
यत्तौ
परमधन्विनौ ।
ररक्षतुर्मुनिवरं
विश्वामित्रमरिन्दमौ ॥ ६ ॥
अथ
काले
गते
तस्मिन्
षष्ठेऽहनि
समागते ।
सौमित्रिमब्रवीद्रामो
यत्तो
भव
समाहितः ॥ ७ ॥
रामस्यैवं
ब्रुवाणस्य
त्वरितस्य
युयुत्सया ।
प्रजज्वाल
ततो
वेदिस्सोपाध्यायपुरोहिता ॥ ८ ॥
सदर्भचमसस्रुक्का
ससमित्कुसुमोच्चया ।
विश्वामित्रेण
सहिता
वेदिर्जज्वाल
सर्त्विजा ॥ ९ ॥
मन्त्रवच्च
यथान्यायं
यज्ञोऽसौ
सम्प्रवर्तते ।
आकाशे
च
महान्
शब्दः
प्रादुरासीद्भयानकः ॥ १० ॥
आवार्य
गगनं
मेघो
यथा
प्रावृषि
निर्गतः ।
तथा
मायां
विकुर्वाणौ
राक्षसावभ्यधावताम् ॥ ११ ॥
मारीचश्च
सुबाहुश्च
तयोरनुचराश्च
ये ।
आगम्य
भीमसङ्काशा
रुधिरौघमवासृजन् ॥ १२ ॥
सा
तेन
रुधिरौघेण
वेदिर्जज्वाल
मण्डिता ।
सहसाऽभिद्रुतो
रामस्तानपश्यत्ततो
दिवि ॥ १३ ॥
तावापतन्तौ
सहसा
दृष्ट्वा
राजीवलोचनः ।
लक्ष्मणं
त्वभिसम्प्रेक्ष्य
रामो
वचनमब्रवीत् ॥ १४ ॥
पश्य
लक्ष्मण
दुर्वृत्तान्
राक्षसान्
पिशिताशनान् ।
मानवास्त्रसमाधूताननिलेन
यथा
घनान् ॥ १५ ॥
इत्य्
उक्त्वा
वचनं
रामश्
चापे
सन्धाय
वेगवान् ।
मानवं
परमोदारमस्त्रं
परमभास्वरम् ॥ १६ ॥
चिक्षेप
परमक्रुद्धो
मारीचोरसि
राघवः ।
स
तेन
परमास्त्रेण
मानवेन
समाहतः ॥ १७ ॥
सम्पूर्णं
योजनशतं
क्षिप्तः
सागरसम्प्लवे ।
विचेतनं
विघूर्णन्तं
शीतेषु
बलताडितम् ॥ १८ ॥
निरस्तं
दृश्य
मारीचं
रामो
लक्ष्मणमब्रवीत् ।
मोहयित्वा
नयत्येनन्
न
च
प्राणैर्
व्ययुज्यत ॥ १९ ॥
इमानपि
वधिष्यामि
निर्घृणान्
दुष्टचारिणः ।
राक्षसान्
पापकर्मस्थान्
यज्ञघ्नान्
रुधिराशनान् ॥ २० ॥
सङ्गृह्यास्त्रं
ततो
रामो
दिव्यमाग्नेयमद्भुतम् ।
सुबाहूरसि
चिक्षेप
स
विद्धः
प्रापतद्भुवि ॥ २१ ॥
शेषान्
वायव्यमादाय
निजघान
महायशाः ।
राघवः
परमोदारो
मुनीनां
मुदमावहन् ॥ २२ ॥
स
हत्वा
राक्षसान्
सर्वान्
यज्ञघ्नान्
रघुनन्दनः ।
ऋषिभिः
पूजितस्तत्र
यथेन्द्रो
विजये
पुरा ॥ २३ ॥
अथ
यज्ञे
समाप्ते
तु
विश्वामित्रो
महामुनिः ।
निरीतिका
दिशो
दृष्ट्वा
काकुत्स्थमिदमब्रवीत् ॥ २४ ॥
कृतार्थोऽस्मि
महाबाहो
कृतं
गुरुवचस्त्वया ।
सिद्धाश्रममिदं
सत्यं
कृतं
राम
महायशः ॥ २५ ॥
स
हि
रामम्
प्रशस्यैवन्
ताभ्यां
सन्ध्याम्
उपागमत् ॥ २६ ॥