अथ
तां
रजनीं
तत्र
कृतार्थौ
रामलक्ष्मणौ ।
ऊषतुर्मुदितौ
वीरौ
प्रहृष्टेनान्तरात्मना ॥ १ ॥
प्रभातायां
तु
शर्वर्यां
कृतपौर्वाह्णिकक्रियौ ।
विश्वामित्रं
मुनींश्चान्यान्
सहितावभिजग्मतुः ॥ २ ॥
अभिवाद्य
मुनिश्रेष्ठं
ज्वलन्तमिव
पावकम् ।
ऊचतुर्मधुरोदारं
वाक्यं
मधुरभाषिणौ ॥ ३ ॥
इमौ
स्म
मुनिशार्दूल
किङ्करौ
समुपस्थितौ ।
आज्ञापय
यथेष्टं
वै
शासनं
करवाव
किम् ॥ ४ ॥
एवमुक्तास्ततस्ताभ्यां
सर्व
एव
महर्षयः ।
विश्वामित्रं
पुरस्कृत्य
रामं
वचनमब्रुवन् ॥ ५ ॥
मैथिलस्य
नरश्रेष्ठ
जनकस्य
भविष्यति ।
यज्ञः
परमधर्मिष्ठस्तस्य
यास्यामहे
वयम् ॥ ६ ॥
त्वं
चैव
नरशार्दूल
सहास्माभिर्गमिष्यसि ।
अद्भुतं
धनुरत्नं
च
तत्र
तद्द्रष्टुमर्हसि ॥ ७ ॥
तद्धि
पूर्वं
नरश्रेष्ठ
दत्तं
सदसि
दैवतैः ।
अप्रमेयबलं
घोरं
मखे
परमभास्वरम् ॥ ८ ॥
नास्य
देवा
न
गन्धर्वा
नासुरा
न
च
राक्षसाः ।
कर्तुमारोपणं
शक्ता
न
कथञ्चन
मानुषाः ॥ ९ ॥
धनुषस्तस्य
वीर्यं
तु
जिज्ञासन्तो
महीक्षितः ।
न
शेकुरारोपयितुं
राजपुत्रा
महाबलाः ॥ १० ॥
तद्धनुर्नरशार्दूल
मैथिलस्य
महात्मनः ।
तत्र
द्रक्ष्यसि
काकुत्स्थ
यज्ञं
चाद्भुतदर्शनम् ॥ ११ ॥
तद्धि
यज्ञफलं
तेन
मैथिलेनोत्तमं
धनुः ।
याचितं
नरशार्दूल
सुनाभं
सर्वदैवतैः ॥ १२ ॥
आयागभूतं
नृपतेस्तस्य
वेश्मनि
राघव ।
अर्चितं
विविधैर्गन्धैर्माल्यैश्चागरुगन्धिभिः ॥ १३ ॥
एवमुक्त्वा
मुनिवरः
प्रस्थानमकरोत्तदा ।
सर्षिसङ्घः
सकाकुत्स्थ
आमन्त्र्य
वनदेवताः ॥ १४ ॥
स्वस्ति
वोऽस्तु
गमिष्यामि
सिद्धः
सिद्धाश्रमादहम् ।
उत्तरे
जाह्नवीतीरे
हिमवन्तं
शिलोच्चयम् ॥ १५ ॥
प्रदक्षिणं
ततः
कृत्वा
सिद्धाश्रममनुत्तमम् ।
उत्तरां
दिशमुद्दिश्य
प्रस्थातुमुपचक्रमे ॥ १६ ॥
तं
प्रयान्तं
मुनिवरमन्वयादनुसारिणम् ।
शकटीशतमात्रं
च
प्रायेण
ब्रह्मवादिनाम् ॥ १७ ॥
मृगपक्षिगणाश्चैव
सिद्धाश्रमनिवासिनः ।
अनुजग्मुर्महात्मानं
विश्वामित्रं
महामुनिम् ॥ १८ ॥
निवर्तयामास
ततः
पक्षिसङ्घान्
मृगानपि ।
ते
गत्वा
दूरमध्वानं
लम्बमाने
दिवाकरे ॥ १९ ॥
वासं
चक्रुर्मुनिवराः
शोणाकूले
समागताः ।
तेऽस्तङ्गते
दिनकरे
स्नात्वा
हुतहुताशनाः ॥ २० ॥
विश्वामित्रं
पुरस्कृत्य
निषेदुरमितौजसः ।
रामोऽपि
सह
सौमित्रिर्मुनींस्तानभिपूज्य
च ॥ २१ ॥
अग्रतो
निषसादाथ
विश्वामित्रस्य
धीमतः ।
अथ
रामो
महातेजा
विश्वामित्रं
महामुनिम् ॥ २२ ॥
पप्रच्छ
नरशार्दूलः
कौतूहलसमन्वितः ।
भगवन्
कस्य
देशोऽयं
समृद्धवनशोभितः ॥ २३ ॥
श्रोतुमिच्छामि
भद्रं
ते
वक्तुमर्हसि
तत्त्वतः ।
चोदितो
रामवाक्येन
कथयामास
सुव्रतः ॥ २४ ॥
तस्य
देशस्य
निखिलमृषिमध्ये
महातपाः ॥ २५ ॥