ब्रह्मयोनिर्महानासीत्
कुशो
नाम
महातपाः ।
अक्लिष्टव्रतधर्मज्ञः
सज्जनप्रतिपूजकः ॥ १ ॥
वैदर्भ्यां
जनयामास
सदृशांश्चतुरः
सुतान् ।
कुशाम्बं
कुशनाभं
च
आधूर्तरजसं
वसुम् ॥ २ ॥
दीप्तियुक्तान्
महोत्साहान्
क्षत्रधर्मचिकीर्षया ।
तानुवाच
कुशः
पुत्रान्
धर्मिष्ठान्
सत्यवादिनः ॥ ३ ॥
ऋषेस्तु
वचनं
श्रुत्वा
चत्वारो
लोकसम्मताः ।
निवेशं
चक्रिरे
सर्वे
पुराणां
नृवरास्तदा ॥ ४ ॥
कुशाम्बस्तु
महातेजाः
कौशाम्बीमकरोत्पुरीम् ।
कुशनाभस्तु
धर्मात्मा
पुरं
चक्रे
महोदयम् ॥ ५ ॥
आधूर्तरजसो
राम
धर्मारण्यं
महीपतिः ।
चक्रे
पुरवरं
राजा
वसुश्चक्रे
गिरिव्रजम् ॥ ६ ॥
एषा
वसुमती
राम
वसोस्तस्य
महात्मनः ।
एते
शैलवराः
पञ्च
प्रकाशन्ते
समन्ततः ॥ ७ ॥
सुमागधी
नदी
रम्या
मगधान्
विश्रुता
ययौ ।
पञ्चानां
शैलमुख्यानां
मध्ये
मालेव
शोभते ॥ ८ ॥
सैषा
हि
मागधी
राम
वसोस्तस्य
महात्मनः ।
पूर्वाभिचरिता
राम
सुक्षेत्रा
सस्यमालिनी ॥ ९ ॥
कुशनाभस्तु
राजर्षिः
कन्याशतमनुत्तमम् ।
जनयामास
धर्मात्मा
घृताच्यां
रघुनन्दन ॥ १० ॥
तास्तु
यौवनशालिन्यो
रूपवत्यः
स्वलङ्कृताः ।
उद्यानभूमिमागम्य
प्रावृषीव
शतह्रदाः ॥ ११ ॥
गायन्त्यो
नृत्यमानाश्च
वादयन्त्यश्च
सर्वशः ।
आमोदं
परमं
जग्मुर्वराभरणभूषिताः ॥ १२ ॥
अथ
ताश्चारुसर्वाङ्ग्यो
रूपेणाप्रतिमा
भुवि ।
उद्यानभूमिमागम्य
तारा
इव
घनान्तरे ॥ १३ ॥
दृष्ट्वा
सर्वात्मको
वायुरिदं
वचनमब्रवीत् ।
अहं
वः
कामये
सर्वा
भार्या
मम
भविष्यथ ॥ १४ ॥
मानुषस्त्यज्यतां
भावो
दीर्घमायुरवाप्स्यथ ।
चलं
हि
यौवनं
नित्यं
मानुषेषु
विशेषतः ॥ १५ ॥
अक्षयं
यौवनं
प्राप्ता
अमर्यश्च
भविष्यथ ।
तस्य
तद्वचनं
श्रुत्वा
वायोरक्लिष्टकर्मणः ॥ १६ ॥
अपहास्य
ततो
वाक्यं
कन्याशतमथाब्रवीत् ।
अन्तश्चरसि
भूतानां
सर्वेषां
त्वं
सुरोत्तम ॥ १७ ॥
प्रभावज्ञाः
स्म
ते
सर्वाः
किमस्मानवमन्यसे ।
कुशनाभसुताः
सर्वाः
समर्थास्त्वां
सुरोत्तम ॥ १८ ॥
स्थानाच्च्यावयितुं
देवं
रक्षामस्तु
तपो
वयम् ।
माभूत्स
कालो
दुर्मेधः
पितरं
सत्यवादिनम् ॥ १९ ॥
नावमन्यस्व
धर्मेण
स्वयं
वरमुपास्महे ।
पिता
हि
प्रभुरस्माकं
दैवतं
परमं
हि
नः ॥ २० ॥
यस्य
नो
दास्यति
पिता
स
नो
भर्ता
भविष्यति ।
तासां
तद्वचनं
श्रुत्वा
वायुः
परमकोपनः ॥ २१ ॥
प्रविश्य
सर्वगात्राणि
बभञ्ज
भगवान्
प्रभुः ।
ताः
कन्याः
वायुना
भग्ना
विविशुर्नृपतेर्गृहम् ॥ २२ ॥
प्रापतन्
भुवि
सम्भ्रान्ताः
सलज्जाः
साश्रुलोचनाः ।
स
च
ता
दयिता
दीनाः
कन्याः
परमशोभनाः ॥ २३ ॥
दृष्ट्वा
भग्नास्तदा
राजा
सम्भ्रान्त
इदमब्रवीत् ।
किमिदं
कथ्यतां
पुत्र्यः
को
धर्ममवमन्यते ॥ २४ ॥
कुब्जाः
केन
कृताः
सर्वा
वेष्टन्त्यो
नाभिभाषथ ।
एवं
राजा
विनिश्वस्य
समाधिं
सन्दधे
ततः ॥ २५ ॥