तस्य
तद्वचनं
श्रुत्वा
कुशनाभस्य
धीमतः ।
शिरोमिश्चरणौ
स्पृष्ट्वा
कन्याशतमभाषत ॥ १ ॥
वायुः
सर्वात्मको
राजन्
प्रधर्षयितुमिच्छति ।
अशुभं
मार्गमास्थाय
न
धर्मं
प्रत्यवेक्षते ॥ २ ॥
पितृमत्यः
स्म
भद्रं
ते
स्वच्छन्दे
न
वयं
स्थिताः ।
पितरं
नो
वृणीष्व
त्वं
यदि
नो
दास्यते
तव ॥ ३ ॥
तेन
पापानुबन्धेन
वचनं
न
प्रतीच्छता ।
एवं
ब्रुवन्त्यः
सर्वाः
स्म
वायुना
निहता
भृशम् ॥ ४ ॥
तासां
तद्वचनं
श्रुत्वा
राजा
परमधार्मिकः ।
प्रत्युवाच
महातेजाः
कन्याशतमनुत्तमम् ॥ ५ ॥
क्षान्तं
क्षमावतां
पुत्र्यः
कर्तव्यं
सुमहत्कृतम् ।
ऐकमत्यमुपागम्य
कुलं
चावेक्षितं
मम ॥ ६ ॥
अलङ्कारो
हि
नारीणां
क्षमा
तु
पुरुषस्य
वा ।
दुष्करं
तद्धि
वः
क्षान्तं
त्रिदशेषु
विशेषतः ॥ ७ ॥
यादृशी
वः
क्षमा
पुत्र्यः
सर्वासामविशेषतः ।
क्षमा
दानं
क्षमा
सत्यं
क्षमा
यज्ञश्च
पुत्रिकाः ॥ ८ ॥
क्षमा
यशः
क्षमा
धर्मः
क्षमया
विष्ठितं
जगत् ।
मन्त्रज्ञो
मन्त्रयामास
प्रदानं
सह
मन्त्रिभिः ॥ ९ ॥
देशकालौ
प्रदानस्य
सदृशे
प्रतिपादनम् ।
एतस्मिन्नेव
काले
तु
चूली
नाम
महामुनिः ॥ १० ॥
ऊर्ध्वरेताः
शुभाचारो
ब्राह्मं
तप
उपागमत् ।
तप्यन्तं
तमृषिं
तत्र
गन्धर्वी
पर्युपासते ॥ ११ ॥
सोमदा
नाम
भद्रं
ते
ऊर्मिलातनया
तदा ।
उवास
काले
धर्मिष्ठा
तस्यास्तुष्टोऽभवद्गुरुः ॥ १२ ॥
स
च
तां
काल
योगेन
प्रोवाच
रघुनन्दन ।
परितुष्टोऽस्मि
भद्रं
ते
किं
करोमि
तव
प्रियम् ॥ १३ ॥
परितुष्टं
मुनिं
ज्ञात्वा
गन्धर्वी
मधुरस्वरा ।
उवाच
परमप्रीता
वाक्यज्ञा
वाक्यकोविदम् ॥ १४ ॥
लक्ष्म्या
समुदितो
ब्राह्म्या
ब्रह्मभूतो
महातपाः ।
ब्राह्मेण
तपसा
युक्तं
पुत्रमिच्छामि
धार्मिक ॥ १५ ॥
अपतिश्चास्मि
भद्रं
ते
भार्या
चास्मि
न
कस्यचित् ।
ब्राह्मेणोपगतायाश्च
दातुमर्हसि
मे
सुतम् ॥ १६ ॥
तस्याः
प्रसन्नो
ब्रह्मर्षिर्ददौ
पुत्रमनुत्तमम् ।
ब्रह्मदत्त
इति
ख्यातं
मानसं
चूलिनः
सुतम् ॥ १७ ॥
स
राजा
सौमदेयस्तु
पुरीमध्यावसत्तदा ।
काम्पिल्यां
परया
लक्ष्म्या
देवराजो
यथा
दिवम् ॥ १८ ॥
स
बुद्धिं
कृतवान्
राजा
कुशनाभः
सुधार्मिकः ।
ब्रह्मदत्ताय
काकुत्स्थ
दातुं
कन्याशतं
तदा ॥ १९ ॥
तमाहूय
महातेजा
ब्रह्मदत्तं
महीपतिः ।
ददौ
कन्याशतं
राजा
सुप्रीतेनान्तरात्मना ॥ २० ॥
यथाक्रमं
ततः
पाणीञ्जग्राह
रघुनन्दन ।
ब्रह्मदत्तो
महीपालस्तासां
देवपतिर्यथा ॥ २१ ॥
स्पृष्टमात्रे
ततः
पाणौ
विकुब्जा
विगतज्वराः ।
युक्ताः
परमया
लक्ष्म्या
बभुः
कन्याशतं
तदा ॥ २२ ॥
स
दृष्ट्वा
वायुना
मुक्ताः
कुशनाभो
महीपतिः ।
बभूव
परमप्रीतो
हर्षं
लेभे
पुनःपुनः ॥ २३ ॥
कृतोद्वाहं
तु
राजानं
ब्रह्मदत्तं
महीपतिः ।
सदारं
प्रेषयामास
सोपाध्यायगणं
तदा ॥ २४ ॥
यथान्यायं
च
गन्धर्वी
स्नुषास्ताः
प्रत्यनन्दत ।
स्पृष्ट्वास्पृष्ट्वा
च
ताः
कन्याः
कुशनाभं
प्रशस्य
च ॥ २५ ॥